________________
१२२१] प्रथमः प्रत्यक्षप्रस्तावः
२२५ तद्वदिहार्थग्रहणे तत्सारूप्यं स्ववेदिनोऽपि कथम् ।
गम्येत, तन्मुखेन यदर्थग्रहणं भणन्ति परे ॥६३३॥
अर्थसरूपज्ञानग्रहणमेव हि परेषामर्थग्रहणम् उपचारात् , तत्त्वतस्तदेव च सारूप्यज्ञानं कथमर्थापरिज्ञाने भवेत् ? ज्ञानमात्रपरिज्ञानाद्भवत्येवेति चेत् ; न ; सारूप्यस्य सम्बन्धवद् द्विष्ठत्वेन तत्परिज्ञानस्यैकरूपपरिज्ञानमायादसम्भवात् ।
द्विष्ठसारूप्यसंवित्तिनैकरूपप्रवेदनात् ।
द्वयस्वरूपग्रहणे सति सारूप्यवेदनम् ॥६३४॥
अन्यथा सम्बन्धज्ञानस्यापि तन्मात्रादेव सम्भवादश्लीलमेवेदं भवेत्-"द्विष्ठसम्बन्ध. संवित्तिः" [प्र० वार्तिकाल० १११ ] इत्यादि ।
भवतु परिज्ञात एवार्थे सारूप्य॑परिज्ञानमिति चेत् ; कुतस्तत्परिज्ञानम् ? तत एव ज्ञाना- १० दिति चेत् ; यदि सारूप्यमनादृत्य ; निष्फलं तर्हि तत्कल्पनम् । तत्परिज्ञानमुखेनैवेति चेत् ; न; 'अर्थपरिज्ञाने 'तत्परिज्ञानम् , "तन्मुखेन चार्थपरिज्ञानम्' इति परस्पराश्रयात् । सारूप्यान्तरपरिज्ञानमुखेनैवेति" चेत् ; न; एकार्थापेक्षया "तदन्तरस्याभावात् । भावेऽपि "कथमर्थापरिज्ञाने "तस्यापि परिज्ञानम् ? परिज्ञात एवार्थ इति चेत् ; न; 'कुतः' इत्यादेरनुबन्धादन"वस्थानानुषङ्गात् । तन्न तत एवार्थस्य तत्सारूप्यस्य च परिज्ञानम् । अत्रार्थे 'विमुख' १५ इत्यादेर्व्याख्यानम् -मुखमिव मुखं चैतन्यं वस्तुरसपरिज्ञानस्य तदधीनत्वात् , विगतं मुखं यस्मात्स विमुखः अचेतनार्थः, स च ज्ञानञ्च विमुग्वज्ञाने तयोः संवेदः समत्वेन स्वरूपत्वेन वेदनम् । स्वतो विरुद्धोऽनुपपन्न इति । अन्यत एव तर्हि ज्ञानात्तत्सारूप्यस्य व्यक्तिस्तेनार्थस्य तज्ज्ञानस्य च प्रहणसम्भवादिति चेत् ; न; तेनाप्यनादृतसारूप्येण तदग्रहणात् , प्रथमज्ञानेऽपि तत्कल्पनावैफल्यानुषङ्गात् । सारूप्यपरिज्ञानमुखेन तु तेन तद्ब्रहणे २० पूर्ववत् परस्पराश्रयस्य सारूप्यान्तरकल्पने चानवस्थानस्य प्रसङ्गात् । तन्न ततोऽपि प्रथमज्ञानसारूप्यस्य सञ्चारः सम्प्रतिपत्तिः, तत्सारूप्यस्यैवासम्प्रतिपत्तेः । तस्याप्यन्यतः परिज्ञानपरि. कल्पनायामनवस्थानम् । अत्र चार्थे 'व्यक्तिः ' इत्यादि 'अनवस्थानम्' इत्यन्तं सुगमत्वाव्याख्येयम् । ततो न प्रत्यक्षात्ततोऽन्यतो वा सारूप्यपरिज्ञानम् ।
नापि तत्पृष्ठभाविनो विकल्पात् ; तस्यावस्तुविषयत्वात् । ततोऽपि वस्तुसिद्धावति- २५ प्रसङ्गात् । वक्ष्यति चैतत् "अयमेवं न वेत्येवम्" इत्यादिना"। सारूप्यमप्यवस्त्वेवेति चेत् ; न;
अर्थस्वरूप-आ०, ब०, प०, स० ।. २ कथमर्थपरि-आ०, ब०, १०, स.। ३ ज्ञानज्ञानमात्रबा०, ब., स.। ज्ञानाज्ञानमात्र-प० । ४ एकरूपज्ञानमात्रादेव । ५-ज्ञान एवा-आ०, ब०, प० ।
सारूप्य एवं परि-भा०,ब०,५०,०। ७ सारूप्यकल्पनम् । ८ सारूप्यपरिज्ञान । ९ सारूप्यपरिज्ञानम् । १० सारूप्यमुखेन । 1-मुखेनेति भा०,स. । १२ सारूप्यान्तरस्य । १३ कथमर्थपरि-भा०, ब०, ५०, स०।१४ बामप्यान्तरस्यापि । १५-वस्थानुष-आ०,०,५०,स०। १६ तेनाप्यनावृत-आ०,०प० । १७ अन्यज्ञानेन । १८-वमादिना. आ०,०,५०, स०।११ न्यायवि. श्लो. ६२।