________________
२२४
न्यायविनिश्चयविवरणे
[ ११२१ एतदेवाह-अविशेष्यविशेषणम् । विशेष्यो वर्णादिस्तस्य विशेषणं ज्ञेयत्वं तस्याभावः 'अविशेष्यविशेषणम्' इति । ततो वर्णज्ञानस्य परमार्थसत्त्वमिच्छता तद्भागज्ञानघटनस्य तदभ्युपगन्तव्यं तस्यैव वर्णज्ञानत्वात् । न च तत् अन्यवेद्यत्वनियमे सम्भवतीति स्वसंवेद्यमेव तदङ्गीकर्त्तव्यम् । कथं पुनः सत्यप्यात्मवेदने घटितत्वेन वेदनं वेदनानां तैरितरै. ५ रितरापरिज्ञानादिति चेत् ? न; तेषां कथश्चिदन्वयस्यापि भावात् , अन्वितेनात्मना घटाधिष्ठानज्ञानानां परिज्ञाने घटनस्यापि सुपरिज्ञानत्वात् । उक्तञ्चैतत्-'आत्मनाऽनेकरूपेण' हात। प्रतिक्षणभेदनियमे तु तेषां न भवत्येव क्वचिदपि घटनज्ञानं तदधिकरणभेदपरिज्ञानस्य कुतश्चिदसम्भवात् । न ह्येकमपरापरतदधिष्ठानभेदविषयं ज्ञानं तन्नियमवादिनां सम्भवति, सन्निहितविषयत्वेन तस्याभ्युपगमात् तत्कथं तद्गतघटनपरिज्ञानम् ?
____ततो यदुक्तं प्रज्ञाकरेण-"तदाकारैकबुद्धिवेदने दीर्घवेदनव्यवस्था" [प्र. वार्तिकाल० २।४८५ ] इति; तत्प्रतिविहितम् ; दीर्घत्वं हि वर्णानां समयक्रमानुपातित्वम् , तदाकारत्वे बुद्धरपि "तदनुपातित्वेनाक्षणिकत्वानुषङ्गात् । कल्पनयैव" तस्याः" तदाकारत्वं न वस्तुत इति चेत् ; न; कल्पनातस्तदाकारत्वस्य "घालानाम्" इत्यादिवृत्तव्याख्याने प्रति. विहितत्वात् । ततः समान एव नैयायिकवत्सौगतस्यापि शाब्दव्यवहाराभाव इत्यलं प्रसङ्गेन ।
साम्प्रतं विमुखेत्यादिकमेव व्याख्यातुकामो यौगज्ञानदूषणं सौगतज्ञानेऽपि योजयनिदमाह
निराकारेतरस्यैतत्प्रतिभासभिदा यदि ॥२०॥
तत्राप्यनर्थसंवित्तावर्थज्ञानाविशेषतः । इति ।
निराकारं नैयायिकादेर्शानं तस्मात् इतरत् साकारं तस्य एतत् 'विमुख' इत्यादि । दूषणम् । कुतः ? इत्याह-अर्थज्ञानाविशेषतः । अर्थस्यैव न स्वरूपस्य ज्ञानं तस्मादविशेषा.
दवलक्षण्यात् । न हि यद्यस्मादविशिष्टं तत्तदूषणापरामृष्टं भवितुमर्हति तदविशिष्टत्वस्यैवाभावप्रसङ्गात्। "असिद्धं तस्य तदविशिष्टत्वम् , तदाह-प्रतिभासभिदा यदि । प्रत्यात्म भासनं प्रतिभासः स्वप्रकाशनं तेन भिदासाकारज्ञानस्यार्थज्ञानाद्विशेषो यदि चेत् ; तत्राह-तत्रापि
तद्भिदायामपि तदूषणं भवतीति यावत् । अत्रेदमैदम्पर्य्यम्-नाविशिष्टत्वमर्थज्ञानात् साकार... "ज्ञानस्यानात्मवेदित्वमुच्यते यतः प्रतिभासभिदोच्येत,किन्तु विषयविषयिणोरन्यतरापरिज्ञानमेव । तञ्चास्ति स्वप्रकाशेऽपि ज्ञाने । कदा ? इत्याह-अनर्थसंवित्तौ अर्थपरिच्छित्यभावे । तथा च,
अर्थज्ञत्वं यद्वद् दुर्बोधं स्वप्रकाशशून्यस्य । स्वपराभ्यां तद्बोधप्रतिषेधात् पूर्वमस्माभिः ॥६३२॥
परमार्थसत्त्वम् । २ तद्भागज्ञानघटनस्यैव । ३ -यमं भव-आ०, ब०, ५०, स०। ४ सत्यस्यात्ममा०,००,०५ न्यायवि. श्लो० ८। ६ ज्ञानानाम् । . घटनाधिकरणज्ञानाना भेदपरिज्ञानस्य । ८ प्रतिक्षणभेदनियम । ९ ज्ञानस्य । १० समयक्रमानुपातित्वेन । " कल्पनयेतस्याः आ०,०प०,स० । १२ बुद्धेः ।
म्यायवि० श्लो०२।१४ असिद्धत्वस्य त-आ०,०प०स०।१५ -ज्ञानस्यात्मवेदि-आ०,ब०,५०,स०।