________________
२२३
१३२०
प्रथमः प्रत्यक्षप्रस्ताव व्यं तदैव तद्वेदनसम्भवात् । भवत्विति चेत् ; न ; 'तेन तेषामवेदने तद्धर्मस्य नैरन्तयस्यापि वेदनायोगात् । न च तेषामपि वेदनम् , तदा तेषामुत्पन्नापेवर्गित्वेनानवस्थानात् । अवस्थाने वा कथं निरन्तरत्वं तदेकसमयमात्रतया कालक्रमाभावात् ? सत्येव तत्क्रमे तदुप. पत्तेः । 'अपरित्यक्तकमाणामेव तेषामवस्थानम्' इत्यपि न युक्तम् ; अवस्थितस्वभावापेक्षया नैरन्तर्याभावस्य क्रमवत्स्वभावापेक्षया च तदपरिज्ञानस्य पूर्ववत्प्रसङ्गात् । पुनरपि ५ क्रमापरिहारेणावस्थानकल्पने तदेवोत्तरमित्यनवस्थादोषपारम्पर्योपनिपातात् । तस्मात्सर्वात्मनेवावस्थानम् । तत्र च कथं नैरन्तयं कथं वा युगपज्ज्ञानानुत्पत्तिः ? "युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्' [ न्यायसू० १।१।१६ ] इति व्यवतिष्ठेत ? कथं वा सविषयत्वम् ? तत्काले दकारादीनामपक्रमात् । अनपक्रमे वा कथन्न युगपगृहणम् ? तन्नायं पक्षः श्रेयान् । तस्मात्प्रतिवेदनं भिन्नान्येव तद्वेदनानि । तत्र च पूर्व दकारवेदनं. पुनस्तद्वेदनं ततोऽप्येकार. १० वेदनं पुनरपि तद्वेदनमेवमुत्तरत्रापीति न वर्णज्ञानानां नैरन्तयं पश्यामः "तज्ज्ञानैर्व्यवधानात् , तत्कथं निरन्तरतया तत्परिज्ञानम् ? घटनादिति चेत् ; न; नैरन्तर्यस्यैव घटनत्वात् , तस्य चाभावात्। आशुभावप्रयुक्ताद्विभ्रमाद् घटनमिति चेत् ; "तत्किमिदानीमवस्तुसदेव ? तथा चेत् । न; तदेकज्ञानसंसर्गितया संवेदनानामप्यवस्तुत्वप्रसङ्गात् कथं तैर्वर्णप्रकाशनं व्योमकुसुमैरिवांवस्तुसद्भिस्तदयोगात् ? घटन एव तज्ज्ञानस्य विभ्रमो व्यवधानज्ञानस्य बाधकस्य भावान्न वेदनस्वरूपे १५ विपर्ययादिति चेत् ; न; 'तत्रापि घटनस्यैव रूपत्वात्। न हि कारज्ञानमप्यघटनरूपं सम्भवति। तथाहि- अर्धमात्रिकत्वमपि दकारस्यानेकौं णक्रमोपनिबद्धमित्यवश्यम्भाविनि क्षणभेदे तत्तत्क्षणभाविनां दकारभागानामपि भेदादवश्यम्भावी तज्ज्ञानानामपि भेदः, तत्र. चघटनं यदि विभ्रमनिबद्धमेव कथं तत्र कस्यचिद्वोधस्याभ्रान्तत्वं विभ्रमनिबन्धनपरिज्ञानेन बाधनादिति न दकारज्ञानस्यापि वस्तुत्वम् । वर्णान्तरज्ञानेऽप्ययमेव न्याय इति न किञ्चिद्वर्णज्ञानं वस्तुसद. २० स्तीति विलुप्तो वर्णव्यवहारः।
वर्णज्ञानविलोपेच पदज्ञानं कथं भवेत.? । सत्येव वर्णविज्ञाने पदज्ञानस्य सम्भवात् ॥६२९॥ पदज्ञानमनावृत्य वाक्यज्ञानश्च दुर्लभम् । पदज्ञानानुजं यस्माद्वाक्यज्ञानं परैर्मतम् ॥६३०॥ पदवाक्यव्यवस्था च तज्ज्ञानासम्भवे कथम् ? । व्यवहारो यतः शाब्दः सिद्ध्येन्न्यायविदा मते ? ॥६३१॥
१ तदेव भा०,ब०,१०,स। २ सर्वचरमभूतेन अन्यज्ञानेन । ३ दकारादिसंवेदनानाम् । ४ चरमसमये । ५.-पवर्गत्वे-आ०,ब०,५०स०। ६ कालक्रमे । ७ नैरन्तर्योपपत्तेः। ८ दकारादिसंवेदनानाम् । ९-ले तदा. कारा-आ०,०,५०,स०।१० दकारवेदनवेदनम् । " एकारवेदनवेदनम् । १२ दकारादिज्ञानज्ञानैः । ॥ घटनम् । १४ -संसर्गतया आ०,व०प०,स०। १५ वेदनेऽपि । १६ गकार-मा०,व०,५०,०। १७ अर्थमाश्निकमा०, ब०, प० । अर्थ मात्रिक-स० । १८ क्षणक्षमोप-भा०, ब.प., स.। १९ दकारभागज्ञानानाम् ।