________________
२२२ न्यायविनिश्चयविवरणे
[ ११२० परस्परपरिहारे संहावस्थानस्यापि सम्भवात् । कलशादावदर्शनान्न तत्सम्भव इति चेत् ; नित्यत्वस्यापि न स्यात् आत्मादावदर्शनात् , तत्कथमीश्वरज्ञानस्य नित्यस्यापि स्वप्रकाशत्वम् ? कचिद (दद)र्शनेऽपि न नित्यत्वस्य तैद्विरोध इति चेत् ; अनित्यत्वेन किमपराद्धं भवतो
यतस्तत्रैव तद्विरोधमावेदयति ? ततो विपक्षाद्विशेषणस्य व्यावृत्तिनियमाभावात्तद्विशिष्टस्य ५ हेतोरपि न तन्नियम इति संशयितविपक्षव्यावृत्तिकत्वात्तदवस्थं सविशेषणस्यापि व्यभिचारित्वम्। ततश्च यदत्र भासर्वज्ञेन पक्षत्रयमुपन्यस्तम्-"अनैकान्तिकत्वपरिहारार्थ परमेश्वरस्य ज्ञानद्वयमभ्युपगन्तव्यम्, तद्वयतिरेकेण वा सर्वज्ञत्वम्, अनित्यत्वे सति इति वा हेतुविशेषणं कर्त्तव्यम्" [ ] इति; तत्प्रतिविहितम् ; पक्षत्रयेऽपि अनैकान्तिकत्वस्याशक्यपरिहार
त्वेन प्रतिपादित्वात् इत्यलमतिप्रसङ्गेन । ततः साध्यविक निदर्शनत्वादनैकान्तिकत्वाच न १० वेद्यत्वं विशिष्टमविशिष्टं वा सम्यक् साधनमिति न ततो ज्ञानस्य ज्ञानान्तरवेद्यत्वं सिद्ध्यति ।
तदेवाह-'अविशेष्यविशेषणम्' इति । विशेष्यं ज्ञानं तस्य विशेषणं ज्ञानान्तरवेद्यत्वं तदुभयस्याभावः अविशेष्यविशेषणम् । ततो न ज्ञानं ज्ञानान्तरवेद्य प्रमाणाभावात् । स्वसंवेद्यत्वे च प्रमाणमुक्तमेव, ततस्तदेव प्रेक्षावद्भिरभ्युपगन्तव्यम्, अन्यथा तद्वत्त्वविघटनादिति स्थितम्।
अपि च, यद्यस्वप्रकाशत्वमेव सकलसंवेदनानां तदा कथं कचिन्नैरन्तर्य संवेदनानां तत्परिज्ञान वा ? न हि - 'देवदत्त गामभ्याज' इत्यादौ दकारादिविषयमेकमेव संवेदनम्, तस्य कालदीर्घस्यासम्भवात् , "उत्पन्नापवर्गित्वेनाभ्युपगमात् । क्षणक्षीणत्वे च ने दकारसंवेदनस्यैव एकारादौ प्रवृत्तिः, 'तस्यासन्निकृष्टत्वात् , असन्निकृष्टेऽपि प्रवृत्तावतिप्रसङ्गात् "प्रत्यर्थनियता हि बुद्धयः” [ न्यायभा० ३।२।४६ ] इति भाष्यविरोधाच्च । तस्मात् प्रतिवर्ण २० विद्यन्त एव तद्वेदनानि निरन्तराणि च, 'निरन्तरमुपलब्धा दकारादयः' इति स्मरणात् । न च स्मरणम् अप्रतिपन्ने 'तन्नैरन्तर्ये सम्भवति; अतिप्रसङ्गात् । न च तत्परिज्ञानं "तेषां स्वत एव; तदस्वसंवेदनप्रतिज्ञाविरोधात् । एतदेवाह-'विमुख' इत्यादि ।
विमुखानां स्वप्रकाशविकलानां ज्ञानानाम् उक्तवाक्यदकारादिविषयाणां संवेदः “सङ्कुलितत्वेन नैरन्तर्येण वेदनं स्वतो विरुद्धः तदस्वसंवेदनप्रतिज्ञयेति । व्यक्तिरन्यतः २५ संवेदनान्नैरन्तर्यस्येति परः; तत्राह-'असञ्चारः' इति । अन्यतस्तस्य न सञ्चारो न संवे
दनम् । कुतः ? इत्याह-अनवस्थानं यतः। तथा हि-तदन्यदेकं चेत् ; सर्वचरमेण तेन भवित.
स्वप्रकाश-अनित्यत्वयोः। २ कल शादादनित्यत्वं वर्तते न स्वप्रकाशत्वमिति । ३ स्वप्रकाशविरोधः । ४ विपक्षव्यावृत्तिनियमः। ५ भासर्वज्ञत्वेन आ०, ब०, ५०, स०। ६ -लदर्श-मा०, ब०, ५०, स.। ७-लवेदना- आप, ब०, प०। ८ तथा आ०, ब०, १०, स०। ९ तत्त्वज्ञानं भा०, ब०, ५०, स.। १. देवदत्तेत्यादिविषयस्यैकस्य संवेदनस्य । ११ उत्पन्नापवर्गत्वे-आ०, ब०, ५०,०।१२ न तदाकार-मा., ब०, ५०, स. १३ एकारस्य । १४ स्मरणौघप्रति- आ०, ब०, ५०, स.। १५ दकारादिनरन्तयें । १६ नैरन्तर्यपरिज्ञानम् । १७ दकारादीनाम् । १८ संकलितत्वेन आ०, ब०, ५०, स०। १९-द्धस्ततस्वसंमा०,०, स०।-द्धस्तत्वसं-प०।२० अतस्तस्य आ०, ब०, ५०, स.।