________________
१।२० ]
प्रथमः प्रत्यक्ष प्रस्तावः
२२१
चेत् ; न; सुखादावपि तस्यैव प्रसङ्गात् । भवत्विति चेत्; न; 'स्वप्रकाशभ्रमः' इत्यस्य विरोधात् | सत्यपि यौगपद्यभ्रमे कथं तस्य प्रत्यक्षत्वम् अभ्रान्तस्यैव तत्त्वात् ? अप्रत्यक्षमेव तद्वेदनमिति चेत्; कथं ततः सुखादिसिद्धि:' ? विभ्रमात्तदयोगादतिप्रसङ्गात् । यौगपद्य एव तस्य भ्रमत्वं न सुखादाविति चेत्; कथमेकस्य विभ्रमाविभ्रमस्वभावत्वम् विरोधात् ? अविरोधे वा यस्यैव सुखादित्वं तस्यैव स्वप्रकाशनत्वमपि भवेदिति न सुखादेरन्यतः सचारः तस्यैवान्य- ५ स्याव्यवस्थानात् । तदाह-अनवस्थानम् । ततः स्थितं सुखादिनापि वेद्यत्वस्य व्यभिचारित्वम् ।
"ईश्वरज्ञानेन च । न हि तस्यान्यवेद्यत्वम् एकत्वात् तस्य । नाप्यवेद्यत्वम् ; ईश्वरस्यासर्वंज्ञत्त्रप्रसङ्गात् । अस्त्येव तस्यापि ज्ञानान्तरम्, न चानवस्थानम् ; तयोरन्यस्यैकेनैकस्य चान्येन वेदनात्, नापि परस्पराश्रयणम् ; स्वप्रकाशनिरपेक्षयोरेव विषयप्रकाशत्वादिति चेत् ; न; तथापि स्वप्रकाशस्यावश्यम्भावात् । तथा हि तदेकमन्यस्य आत्मविषयस्यैव प्रकाशनम्, न १० चात्मापरिज्ञाने तद्विषयतया तस्य प्रकाशनमुपपन्नम् । आत्मपरिज्ञाने च किमन्यज्ञानपरिकल्पनया ? भवत्वेकमेव तज्ज्ञानं तथापि न व्यभिचारः तस्यापरिज्ञानात्, तद्व्यतिरेकेणैव तस्य सर्वज्ञत्वोपगमादिति चेत् ; तदपरिज्ञाने तत्समवायित्वेन कथं तदात्मनोऽपि परिज्ञानम् ? मा भूदिति चेत्; कथं तर्हि "स वेत्ति विश्वम् " [ श्वेता० ३।१९ ] इत्यादिना त "स्वरूपोपदर्शनम् अपरिज्ञातस्य तदयोगात् ? न चेदमपौरुषेयमेव; अनभ्युपगमात् । अपरिज्ञा- १५ तस्य " चोपदेशे" करणमपि तस्यैवेति कथं जगतो बुद्धिमद्धेतुकत्वम् ? अतो न तदपरिज्ञानमुपपन्नं बहुदोषत्वात् । " नाप्यन्यतस्तत्परिज्ञानमिति कथन्न तेन व्यभिचार: साधनस्य ? न व्यभिचारः अनित्यत्वेन विशेषणात्, "अनित्यत्वविशिष्टं हि वेद्यत्वं साधनं न तन्मात्रमेव, 'अर्थज्ञानं तदन्तरवेद्यम् अनित्यत्वे सति वेद्यत्वात् " कलशवत्' इति प्रयोगकरणात् । माहेश्वरे च ज्ञाने तद्विशिष्टस्य हेतोरभावात् तस्य नित्यत्वादिति चेत्; न; हेत्वन्तरत्वेन २० निग्रहस्थानप्रसङ्गात्, "अविशेषोक्त हेतौ निषिद्धे पुनर्विशेषोपादानं हेत्वन्तरम् ” [ न्यायसू० ५।२।६ ] इति वचनात् । प्रथममेव तथा वचने न दोष इति चेत्; न; तथापि व्यभिचारस्यानिवारणात् विशेषणस्य विपक्षाविरुद्धत्वात् । न हि विपक्षेणाविरुद्ध विशेषणं ततो हेतुं व्यावर्त्तयितुमलम् । अनित्यत्वं हि नित्यत्वस्यैव परिहारेण तस्यैव तत्प्रत्यनी - कत्वात्, न स्वप्रकाशस्य विपर्ययात्, अत एव स्वप्रकाशोऽपि अस्वप्रकाशस्यैव परिहारेण नानित्य- २५ त्वस्येति न परस्परपरिहारेण स्वप्रकाशविरुद्धत्वमनित्यत्वस्य । नापि सहानवस्थानेन; असति
१ यौगपद्यविभ्रमस्यैव । २ प्रत्यक्षत्वात् । ३ - क्षत्वमेव आ०, ब०, प०, स० । ४ - द्विविभ्र - भा०, ब०, प०, स० । ५ -स्य विभ्रमस्व-आ०, ब०, प०, स० । ६ -धेन य-आ०, ब०, प० । धेनायस० । ७ “मद्देश्वरार्थज्ञानेन हेतोर्व्यभिचारात् " - प्रमाणप० पृ० ६० । युक्तप्रनुशा० टी० पृ० १० । न्यायकुमु० पृ० १८३ | स्या० रा० पृ० २२२ । ८ ज्ञानापरिज्ञाने ।९ स्वात्मनोऽपि । १० स्वरूपदर्श - आ०, ब०, प०, स० । ११ महेश्वरस्वरूपस्य । १२ चोपदेशकरण-आ०, ब०, प०, स० । १३ अपरिज्ञातस्यैव । १४ नाप्यतस्य- आ०, ब०, प०, स० । १५ अनित्यत्वविशेषत्वं सा- आ०, ब०, प०, स० । १६ कलशादिवत् आ०, ब०, प०, स० । १७ नित्यत्वस्यैव ।