________________
२२० भ्यायविनिश्चयविवरणे
- [१२० अविरुद्धो विपक्षेऽपीति शेषः, तस्माद्व्यभिचारीति भावः। व्याप्तिज्ञाने सुखादिज्ञानेऽपि तद्व्याप्तेः सुखादेश्चान्यत एव ज्ञानात् व्यक्तिः ; इत्याह-व्यक्तिरन्यतः'इति । तत्रोत्तरम्-'असञ्चारः' इति । तंत्र तव्याप्तेः सुखादेश्वान्यतो न सञ्चारः न परिज्ञानम् । कुतः ? इत्यत्राह-अनव. स्थानम् । 'यतः' इति शेषः । तथाहि
तदन्यत्रापि तद्व्याप्तिरन्यतो यदि वेद्यते ।। तत्राप्येवं प्रसङ्ग स्यादनवस्था कथन्न वः १ ॥६२७॥ आकाङ्क्षाविनिवृत्त्यादि पूर्वमेव विचिन्तितम् । तस्मात्तद्व्याप्तिसंवित्तिस्तत एवोपगम्यताम् ॥६२८॥
सुखाद्यपेक्षया तु व्याख्यानम्-यद्यन्यदेव सुखादेस्तद्वेदनं तर्हि पश्चादेव न सुखाद्युत्प१० तिसमये, ततः पूर्व तन्निमित्तस्य सन्निकर्षस्याभावादित्यविदितस्यैव तस्योत्पत्तिः। तथा च
'उत्पन्नमात्रेणैव सुखादिना तद्वान् पुरुषः' इति यदवस्थानं व्यवस्था लोकस्य तन्न स्यात्, अविदि. तस्यानुत्पन्नकल्पत्वादित्यनवस्थानम् । पश्चाद्वेदनान्न तत्कल्पत्वमिति चेत् ; न ; व्यवधाने नद. योगात् तावत्कालं तदनवस्थानात् । अनन्तरमिति चेत् ; न; नियमाभावात् । न ह्युत्पन्नस्यानन्तरमेव वेदनमिति नियमः, अन्यत्रैवमदर्शनात् ।
यत्पुनरत्र विश्वरूपस्य समाधानम्-"सुखादेर्धर्माधर्माभ्यामुत्पादः तौ च यथा सुखाद्युत्पत्तिमातिपतस्तद्वदनन्तरक्षणे तत्संवेदनमपि" [ ] इति; तदप्यनुपपन्नम् ; उत्पत्तिसमय एव तस्य संवेदनं न हि समसमयस्य "तस्यानन्तरसमयत्वम् ; "तत्समयस्यापि तदपरसमयत्वेन व्यवधानप्रसङ्गात् । अत्रापि यत्तस्य प्रतिवचनम्-"या तूत्पत्तिकाल एव
सुखादेः संवित्तिः सा भ्रमनिमित्तस्याशुभावस्य तत्र सम्भवात् तत्कृता, यथा घटादरुत्प २० द्यमानस्य प्रत्यक्षता, तत्रावश्यं घटस्योत्पत्ति द्वितीयक्षणे रूपादिसमवायः तृतीये
संवेदनम् अथ च "युगपत्संवित्तिः । सुखादौ तु द्वितीयक्षणे संवेदनोत्पादात् प्रकाशभ्रमः" [ ] इति । तत्रोच्यते-कस्यासौ तद्धमः ? तस्यैव सुखादेरिति चेत् ; न; अचेतनत्वात् । चेतनधों हि विभ्रमः, स कथमचेतनस्य स्यात् घटादावपि प्रसङ्गात् ? आत्मन इति चेत् ; न; तस्याप्यचेतनत्वात् । चेतन एवात्मा चेतनसमवायादिति चेत् ; तद्यदि चेतनमन्यवि. षयमेव कथं सुखादौ तद्विभ्रमः स्यादतिप्रसङ्गात् ? तद्विषयमेवेति चेत् ; न; घटादावपि तद्वेदनस्य तद्विभ्रमत्वप्रसङ्गात् । ततश्चानिश्चितं 'तस्यान्यवेद्यत्वमिति कथमर्थज्ञानस्य 'तँदन्तरवेद्यत्वे "तस्य निदर्शनत्वम् । आशुभावात्संवेदनस्य तत्र योगपद्यविभ्रम एव न स्वप्रकाशविभ्रम इति
1-धोपि प-आ०,१०,५०स० । २ व्याप्तिज्ञानेऽपि आ०,व०,१०,स। ३ व्याप्तिज्ञाने सुखादिज्ञाने च । ४ सुखाद्युत्पत्तेः प्राक् । ५ सुखादेः । ६ कल्पनत्वा-मा०,व०प०,०। ७ तदवस्था-आ०प.प.,स. -त्पादनात्ती मा०,ब०,५०,स०।९ सुखादेः । १०सुखादिसंवेदनस्य । ११ अनन्तरसमयस्यापि । १२विश्वरूपस्य । १५-हत्पाद्यमा-भा०,०प०स०। १४ -त्पतिः द्वि-ता०। १५ रूपवान् घट इति विशिष्टज्ञानम् । १६ घटवेद. नस्य । १७घटस्य। १८तदनन्तरवेद्य-आ०,०,०, १९घटस्य । तस्य निदर्शनस्य निद-भा०,०प०,स