________________
१।२० ]
प्रथमः प्रत्यक्ष प्रस्तावः
२१९
तनिश्चयमविधाय तद्दोषं निवर्त्तयति तदवस्थं तद्व्यापारापरिज्ञानम् । द्विधानमपि यद्यन्यतः ; कथं तद्दोषनिवर्त्तनम् ? तत्राप्यन्यतस्तद्विधानस्यापेक्षणीयत्वात् । यद्व्यापारो बुभुत्सि - तस्तत एव द्विधानमिति चेत्; न; स्वसंवेदनवादप्रत्युन्मज्जनप्रसङ्गात् । तन्नान्यतो विज्ञानात् कलशस्याचेतनत्वं शक्यपरिज्ञानम्, पर्युदवसितस्य चेतनत्वस्य कचिदप्यपरिज्ञानात् । तत्कथं "तेनाऽनर्थान्तरत्वं व्याप्तं यतस्तस्माद्व्यावृत्तं चेतनत्वमर्थज्ञानस्य कलशादर्थान्तरत्वमवबोधयेत् ? ५ तदयं सन्दिग्धविपक्षव्यावृत्तिकत्वेनानैकान्तिकत्वान्न सम्यग्धेतुः, अंतो नानुमानादपि कलशातज्ञानस्यार्थान्तरत्वमिति साध्यवैकल्यादुदाहरणस्य न कलशज्ञानस्यार्थान्तरज्ञानविषयत्वसाधनं सम्यक् साधनम् ।
,
व्यभिचाराच्च । व्यभिचारि खल्विदं वेद्यत्वं व्याप्तिज्ञानेन । न ह्यविज्ञातव्याप्तिकस्यानुमानम् अतिप्रसङ्गात् । नापि प्रादेशिकत द्विज्ञानस्य ; यदेवाविज्ञातव्याप्तिकं तेनैव व्यभिचार- १९ शङ्कनात् । ततः साकल्येन तद्विज्ञाने तु तदेवात्मगतस्यापि वेद्यत्वस्य ज्ञानान्तरवेद्यत्वेन व्याप्तिं प्रतियत् आत्मवेदनमेव न तदन्तरवेद्यमिति सुव्यक्तो व्यभिचारः । साध्यसाधनसामान्यस्यैव तज्ज्ञानविषयत्वं व्याप्तेस्तन्निष्ठत्वेन " तदपरिज्ञाने परिज्ञानासम्भवात् न व्यक्तीनां विपर्ययात्, व्यक्तिरूपं च " तज्ज्ञानं तत्कथं तस्य तद्विषयत्वमिति चेत् ? न ; " तदपरिज्ञाने सामान्यस्याध्य. परिज्ञानात् तस्यै तन्निष्ठत्वात् । कतिपयव्यक्तिपरिज्ञानादेव भवति तत्परिज्ञानमिति चेत्; न; १५ "तावता व्याप्तिपरिज्ञानासम्भवात्, अन्यथा तत्पुत्रादावपि " तत्सम्भवान्न व्यभिचारः स्यात् । बाधनात्तत्रे व्यभिचार इति चेत्; न; "लक्षणयुक्ते बाधासम्भवे तल्लक्षणमेव दूषितं स्यात् " [प्र० वार्तिकाल० २।९७] इति वेद्यत्वादावपि बाधाविरहं प्रति न निःशङ्कं चेतः स्यात् । बाधस्यानुपलम्भान्निःशङ्कमेवेति चेत्; न; अनुपलम्भस्य सर्वसम्बन्धिनः “सतोऽपि दुरबबोधत्वेनासिद्धत्वात् । आत्मसम्बन्धिनश्च "परचितो (चेतो) वृत्तिविशेषैर्व्यभिचारित्वात् । अतो २० नाबाधितविषयत्वमनुमानलक्षणम्, अपि तु विज्ञातव्याप्तिकत्वमेव, तच्च सकलव्यक्तिविज्ञानमुखेनैव नान्यथेति कथन तद्व्याप्तिज्ञानस्य " तद्विषयत्वमिति सुव्यक्तमेव तेनानैकान्तिकत्वम्
"सुखादिना च तस्यापि स्वत एव प्रकाशनात् । न हि तस्य वेद्यस्यापि परं प्रकाशनमनुभूयत इति । तदाह - 'विमुख' इत्यादि । विमुखं स्वग्रहणपराङ्मुखत्वात् अर्थज्ञानं" तस्य ज्ञानमर्थान्तरं विमुखज्ञानं तस्य सम्बन्धी गमकत्वेन यः संवेदः संवेद्यत्वं हेतुः सः २५
१ निश्वयविधानम् । २ अचेतनत्वेन । ३ ततो नानु-आ०, ब०, प०, ४ स्यानर्थान्तर - भा०, ब०, प०, स० । ५ कतिपय साध्यसाधनव्यक्तिषु गृहीतव्याप्तिकस्य । ६ यदेव वस्तु । यदेवाविज्ञानव्या- आ०, ब०, प० । ७ व्याप्तिज्ञाने । तद्विज्ञातुं तदे- आ०, ब०, प० । ८ व्याप्तिज्ञानम् । ९ व्याप्तिज्ञान । १० साध्यसाधनसामान्यापरिज्ञाने । ११ व्याप्तिज्ञानम् । १२ व्यतयपरिज्ञाने । १३ सामान्यस्य । १४ सामान्यपरिज्ञानम् । १५ कतिपयव्यक्तिपरिज्ञानमात्रेण । १६ व्याप्तिज्ञानसम्भवात् । १७ तत्पुत्रस्त्रादौ । १८ स्वतोऽपि आ०, ब०, प०, स० । १९ परचेतोनिवृत्ति - ता० । परिचितोवृत्ति - प० । २० स्वविषयत्वमिति । २१ तुलना - "सुखसंवेदनेन हेतोर्व्यमिचारात् महेश्वरशानेन च प्रमेयक० पृ० १३२ । २२ -नं च तस्य आ०, ब०, प०, स० ।