________________
२१८ न्यायविनिश्चयविषरणे
[१२२० अन्यत्वं कलशज्ञानस्यान्यतो यदि वेद्यते । तस्यापि कलशज्ञानादन्यत्वं गम्यते कुतः ? ॥६२४॥ तदन्यत्वापरिज्ञाने वचस्तत्तादृशं कथम् ? । कलशाद्वेदनान्यत्वमन्यतो वेदनादिति ॥६२५॥ वेदनं न स्वतस्तस्य स्वसंवित्यपलापिनाम् ।।
अन्यतो वेदने तु स्यादनवस्थानदूषणम् ॥६२६॥
तदाह-'अनवस्थानम्' इति । ततश्च न तज्ज्ञानं विशेष्यं नापि तस्य कलशार्थान्तरत्वं विशेषणमित्यायातम् । तदाह-'अविशेष्यविशेषणम्' इति । ततो निदर्शनस्य साध्यवैकल्यमिति भावः ।
यत्पुनरत्र परस्यानुमानम्-"कलशादर्थान्तरं तज्ज्ञानं चेतनत्वात् , यत्पुनस्तस्मादनन्तरं तन्न चेतनं यथा तस्यैव स्वरूपम् , चेतनञ्च तज्ज्ञानम् , तस्मात् ततोऽर्थान्तरम्' [ ] इति ; तदपि न समीचीनम् ; अनुमानज्ञानस्यापि 'तज्ज्ञानादन्यत्वस्य स्वतः पूर्ववदप्रतिवेदनात् , अनुमानान्तरपरिकल्पनायामनवस्थापत्तेः ।
अपि च, कुतः कलशाच्चेतनत्वस्य व्यावृत्तिः १ तस्य तद्विरुद्धेनाचेतनत्वेन व्याप्तत्वा. १५ दिति चेत् ; तदेव कुतोऽवगतम् , यतस्तद्व्याप्तादनान्तरत्वात् व्यावर्त्तमानं चेतनत्वमर्थान्तरत्व
एव नियतं तदवगमयेत् ? तत एव कलशज्ञानादिति चेत् ; तेनापि चैतन्यं क प्रतिपन्नं यत. स्तत्पर्युदासरूपमचेतनत्वं कलशस्य ततोऽवगम्यताम् ? अप्रतिपन्ने तस्मिन् तत्पर्युदासस्य दुरवगमत्वात् अप्रतिपन्नमेशकपर्युदासवत् । आत्मन्येवं तत्प्रतिपन्नमिति चेत् ; न; अनात्मवेदिनि
तस्मिन् तदयोगात् । ज्ञानान्तर इति चेत् ; न; तस्य तदविषयत्वात् । तन्न कलशस्य तज्ज्ञाना२० देवाचेतनत्वपरिक्षानम् । अन्यतो ज्ञानादिति चेत् ; न; ततोऽपि कलशमात्रविषयात्तदनुपपत्तेः। प्रतिषेध्यचेतनत्वविषयमपि तदिति चेत् ; किं तच्चेतनम् ? तदेव ज्ञानमिति चेत् ; न; अस्वात्मवेदिनस्तस्य तद्विषयत्वायोगात् । कलशज्ञानमिति चेत् ; कुत एतत् ?, "तस्य "तेनार्थवेदनत्वेन ग्रहणात्तपत्वाच्च चेतनस्येति चेत् ; ईदृशस्तव्यापारः कुतोऽवगतो येनैवमुच्यते ? न
तावत्तत एव ; तस्यानात्मविषयत्वात् । तादृशतब्यापारगोचरत्वस्य" स्वतः "प्रतिवेदना२० भावात् । अन्यतश्च तत्कल्पनायाम् अनवस्थादोषात् । आकाङ्क्षानिवृत्त्या तदोषनिवृ
त्तिरिति चेत् । कथं पुनर्जिज्ञासिततादृशत व्यापारनिश्चयाभावे तदाकासानिवृत्तिः "तस्या. स्तनिश्चयनिबन्धनत्वात् १ अदृष्टादेस्तर्हि "तहोषनिवृत्तिरिति चेत् ; सोऽपि यदि
१-स्वविलापि-आ०, ब०, ५०, स०।२ कलशज्ञानात् भिन्नत्वस्य । ३ कलशज्ञानात् । ४ चैतन्ये । ५-मशंक्यपर्यं- आ०, ब०, ५०, स.।६-बन तत्प्र-आ०, २०, ५०, स०।०३ ज्ञानाविषयत्वात् । ९शानान्तरम् । १० कलशज्ञानस्य । ११ ज्ञानान्तरेण । १२-रयोरगोचरत्वस्य-मा०,०, प०, स.। परिवेदना- आ०,०,५०।१४ आकासानिवृत्तेः । १५ अनवस्थादोष ।