________________
प्रथमः प्रत्यक्षप्रस्ताव:
१२०]
२१७ नामपि द्रव्यादिरूपत्वानुपपत्त्या शून्यवादानुषङ्गात्। तद्विषयत्वेन तंत्र तैदनुपपत्तिर्न तद्रूपत्वेनेति । न हि छिदिरात्मन्यपि छिदिर्भवतीति चेत् ; किंविषया तर्हि छिदिः ? निर्विषयत्वे स्वात्मनीति विशेषानुपादानप्रसङ्गात् । काष्ठविषयेति चेत् ; कुत एतत् ? स्वसत्ताया एवेति चेत् ; न ; स्वात्मविषयत्वस्यापि प्रसङ्गात् । विशेषाधानादिति चेत् ; न ; स्वात्मन्यपि तत्सम्भवात् । काष्ठ एव छिदिकृतस्य विशेषस्य विनाशात्मनः प्रतिपत्तिर्न छिद्यात्मनीति चेत् ; न; काष्ठेऽपि साक्षा- ५ त्तस्य तेत्कृतत्वाभावात् , तदारम्भकावयवसंयोगविनाशकृतत्वात् । पारम्पर्येण छिदिकृतत्वमपीति चेत् ; सिद्धं तर्हि तस्याः स्वात्मविषयत्वमपि तद्विनाशस्यापि पारम्पर्येण तत्कार्यत्वात् । छिदिर्हि खड्गसमवायिनी खड्ग काष्ठसंयोगात् स्वकार्यान्निवर्तमाना भवत्येव परम्परया स्खविनाशस्य कारणम् । अथैवमपि तस्या न स्वविषयत्वम् ; काष्ठविषयत्वमपि मा भूत् । ततो न स्वात्मन्येव क्रियाविरोधः परात्मन्यपि तद्भावात् । तथा च
यथा विरोधमुद्वीक्ष्य "छिदेरात्मनि कल्प्यते । विरोधो वेदनस्यापि स्वात्मनि न्यायवेदिभिः ॥६२१॥ तथाऽन्यत्रापि "तं दृष्ट्वा तस्याः किन्नोपकल्प्यते । वेदनस्य स्खबारोऽपि विरोधो बाधवर्जितः ।।६२२॥ "उभयत्र विरुद्धञ्च ज्ञानं तदिति केवलम् ।
प्रत्येतव्यं भवेदेतद्भौतमुद्राप्रमाणकैः ॥६२३॥ ततो न स्वामनि क्रियाविरोधेन अर्थज्ञानस्य स्वसंवेदननिषेधनमुपपन्नम् ।
तनिषेधे वा कुतस्तस्य प्रतिप्रत्तिः ? अप्रतिपत्तिकमेव तत्सर्वदेति चेत् ; न ; व्योमकुसुमवत्तदभावापत्तेः । "एकात्मसमवेतानन्तरज्ञानादिति चेत् ; कुत इदमवसितम् ? 'अर्थज्ञानं ज्ञानान्तरवेद्यं वेद्यत्वात् "कलशवत' इत्यनुमानादिति चेत् ; कलशस्यापि कुतस्तद्वेद्यत्वमवसितं २० यतो निदर्शनस्य साध्यवैकल्यं न भवेत् ? तद्वेदनादेवेति चेत् ; न; तस्यास्वसंवेदनत्वात् । यदि हि न "तत्वसंवेदनं भवत्येव ततः कलशान्यत्वस्य "तद्धर्मस्य ग्रहणम् । न चैवम् , अतो विरुद्धमेतत्-'अनात्मवेदिन एव ज्ञानात्तस्य कुतश्चिदन्यत्वं गृह्यते' इति । तदेवाह-'विमुख' इत्यादि । विषयात् विभिन्नं मुखं रूपं यस्य तत् ज्ञानं विमुखज्ञानम् , तस्य य: स्वतः संवेदः स विरुद्धः खसंवेदनप्रसङ्गात् । व्यक्तिरन्यतः कलशज्ञानादन्यत एव ज्ञानात्तत्क- २५ लशान्यत्वस्य व्यक्तिः प्रकाशनमिति परः । तत्राह-'असञ्चारः' इति । असञ्चारः असम्प्रतिपत्तिः कलशात्तदन्यत्वस्येति यावत् । ..
कियाविषयत्वेन । २ क्रियायाम्। ३ क्रियारूपत्वानुपपत्तिः । १.स्वसत्तैवेति भा०,०,५०,०। ५ छिदिकृत । -कस्यावय-भा०, ब०, ५०, स०। ७ चेदसिद्धं भा०, ब०, ५०, स०। ८ छिदिविनाशस्यापि । ९-णापि तत्का-मा०, ब०, ५०, स०।१० छिदिरात्मनि क-मा०, ब०, १०, सातदृष्टातभा., ०,१०, स.। विरोधम् । १२ बाये स्वात्मनि च । १३ अर्थज्ञ नस्य । १४ एकार्थसम-मा०, २०, प०, स.। १५ कलशादिवत् भा०,०, ५०, स.।। प्रष्टमम्-पू. १२ टि. १ १.कलश. वेदनम् । १८ ज्ञानधर्मस्य ।