________________
न्यायविनिश्चयविवरणे
[ १२२०
प्रेमाणप्रसिद्धन सिद्ध्यति, 'तत्प्रसिद्धच तद्वाधितं च' इति तत्रैव विरोधात् । प्रमाणप्रसिद्धञ्च ज्ञानस्य स्वप्रवेदनं विषयनियमादिनाऽनुमानेन तद्व्यवस्थापनात् । 'सपक्षानुगमाभावादनुमानमेव तन्न भवतीति चेत् ; स्यादेतदेवम् , यदि तदनुगमस्यासाधारणतया 'तल्लक्षणत्वम् । न
चैवम् , तदाभासेऽपि तत्पुत्रत्वादौ भावात् । तस्मादन्यथानुपपन्नत्वस्यैव तथा तल्लक्षणत्वम । ५ तच्चाविकलमेव विषयनियमादौ । तदेव कथं तदनुगमाभावे गम्यत इति चेत् ? न; विपक्षे बाधकबलादेव तदवगमात् , तस्य चोपदर्शितत्वात् । करिष्यते च तस्यैव तल्लक्षणत्वे प्रबन्ध इति नेह प्रतन्यते । ततः सम्यगेव प्रकृतमनुमानमिति न तद्विषये ज्ञानस्यात्मवेदने कश्चिद्विरोधो यतस्तन्निषेधः स्यात् ।
प्रमाणसिद्धमप्येतद्विरुद्ध चेत्स्ववेदनम् । , अर्थवेदनमप्येवं विरुद्धमवबुध्यताम् ॥६१७॥ प्रमाणमेव तस्यापि परित्राणाय नापरम् । ततः स्ववित्तेरत्राणे त्राणमर्थविदः कथम् ? ॥६१८॥ स्वार्थवित्तिविलोपे च ज्ञानमेव क्षयं ब्रजेत् । ज्ञानाभावे कथं ज्ञेयं स्वसंवेदनविद्विषाम् ? ॥६१९॥ ज्ञानज्ञेयविलोपे च शून्यवादानुषञ्जनम् ।
तस्मान्न्यायज्ञनिर्बन्धो मुच्यतामस्ववेदनात् ॥६२०॥ इदमेवाभिसन्धाय सौगतेनाप्युक्तम्
“यदा स्वरूपं तत्तस्य तदा कैव विरोधिता। . __ स्वरूपेण विरोधे हि सर्वमेव "प्रलीयते ॥"[प्र० वार्तिकाल० २।३२९] इति ।
कश्चायं "स्वात्मा नाम यत्र क्रियाविरोधः ? क्रियावानेवार्थ इति चेत् ; तत्र" तद्विरोधे कथं क्रियावत्त्वम् ? क्रियावत्त्वे वा कथं तद्विरोधो व्याघातात् ? न व्याघात: तत्कर्मकत्वेन तत्र तद्विरोधस्याभिधानात् , तत्कर्तृका तु न विरुध्यत एव 'छिनत्ति खड्गः' इति प्रतीतेः, कर्म तु तत्र व्यतिरिक्तमेव खगः काष्ठं छिनत्तीति प्रत्ययादिति चेत् ; नन्वेवं बुद्धेरप्यात्मसमवायिन्याः तत्कर्म
"कत्वमेव "प्रतिषिद्धं भवति, न चैतत्पथ्यं भवताम् , आत्मनोऽप्रमेयत्वप्रसङ्गात् तस्यैव बुद्धौ २. कर्तृत्वात् । तदिदमन्यत्र सन्धानमन्यत्र पातः शरस्य, बुद्धः स्वसंवेदनप्रतिषेधायोपक्रान्तेन
आत्मनि प्रतिपत्तिकर्मत्वप्रतिषेधात् । तन्न क्रियावानर्थः स्वात्मा । क्रियैवेति चेत् ; कः पुनः क्रियाविरोधः ? ताद्रूप्यानुपपत्तिरिति चेत् ; कथं पुनस्तस्या एव तद्रूपत्वानुपपत्तिः व्यादी
प्रमाणसिद्धेनसिद्धय तेतत्प्र- भा०, २०, ५० । प्रमाणसिद्धेनसिद्ध्यत्यैतत्प्र- स. । २ स च पक्षा- आ०,०, प०,स। ३ तदनवगम- आ०,०,५०, स० । सपक्षानुगमस्य । ४ अनुमानलक्षणत्वम् । ५ गर्भस्थः श्यामः तत्पुत्रत्वात् इतरपुत्रवदित्यादौ। ६ असाधारणतया। . अन्यथानुपपन्नत्वमेव । ८ सपक्षानुगमाभावे। ९ अन्यथानुपपन्नत्वस्यैव । १० प्रतीयते प०, स०।११ स्वात्मनाम् यत्र भा०, ब०, १०, स.। "स्वात्मा हि क्रियायाः स्वरूपम्, क्रियावादात्मा वा ?"-प्रमेयक० पृ. १३६ । न्यायकुमु० पृ. १८८। स्या. रत्ना. पृ० २२९ । १२ क्रियावत्यर्थे । १३ बुद्धिकर्मकत्वमेव बुद्धिविषयत्वमेव । १४ प्रसिद्ध आ०,ब०,प.स.।