________________
१।२० ]
प्रथमः प्रत्यक्ष प्रस्तावः
२१५
म्बन्धित्वं तदुभयं न भवेत् अनुपायत्वेनाप्रतिपत्तिविषयत्वादिति । ततो यदुक्तं भासर्वज्ञेन - "स्वात्मावबोधकत्वाभावे कथमसौ बोधस्वभाव इति चेत्' इति पूर्वपक्षयित्वा समाधानम्स्वात्मदाहकत्वाभावेऽपि यथाग्निर्दहनस्वभावः स्वात्मदायकत्वाभावेऽपि यथा दात्रादिकं दात्रादिस्वभावम् ।" [ ] इति ; तत्प्रतिविहितम् ; दृष्टान्तमात्रात्साध्यसिद्धौ सर्वत्र हेतुवैफल्यात् अतिप्रसङ्गाच्च । न तन्मात्रादेव तत्साधनमपि तूपपत्तिमत्तयाँ च, उप- ५ पत्तिश्च तथाप्रतिपन्नत्वम् । तदयमर्थः - अनात्मवेदनेऽपि ज्ञानं ज्ञानमेव तथाप्रतिपन्नत्वात् अनात्मदहनेऽपि वह्निवत्; इत्यपि न सारम् ; असिद्धत्वाद्धेतोः, तथाप्रतिपन्नत्वस्य प्रतिषिद्धत्वात् ।
]
र्यंदण्यन्यदुक्तं तेनैव–“तदप्रसिद्धौ विषयस्याप्यप्रसिद्धिरिति चेत्, इति पूर्वपक्षयित्वा समाधानम्-किं कारणम् ? न हि तदुपलम्भः स्वविषयं लिङ्गवत्साधयति येन तद- १०प्रसिद्धौ विषयस्याप्य प्रसिद्धिः स्यात् । किं तर्हि ? तद्गृहीतिरूपतयोत्पादमात्रेण तं विषयं व्यवहारयोग्यं करोति तदप्रसिद्धावपि विषयः प्रसिद्ध एवेत्युच्यते " [ इति ; तर्दप्यसम्बद्धम्; तद्गृहीतिरूपतयोत्पादस्यैव दुष्परिज्ञानत्वेन प्रतिक्षिप्तत्वात् । ततो ज्ञान विषयनियमं नियतप्रमातृसमवायमर्थ प्रकाशरूपत्वञ्च प्रतिपत्तुमिच्छता स्त्रप्रकाशरूपं तदभ्युपगन्तव्यम्, अन्यथा तदसम्भवादुक्तवत् । स्वप्रकाशे तु ज्ञाने सम्भवति तत्प्रतिपत्तिः - ' यद्विषयतया १५ यदात्मस्वभावतया च स्वतस्तस्य वेदनं स एव तदर्थो नापरः स एव च तेन प्रमाता नापर : ' इति, अस्यार्थपरिच्छित्तिरूपतया च स्वतः प्रवेदनात् 'ज्ञानमेव तत् नाज्ञानम्' एव व्यवस्थापनात् । ततः स्वप्रकाशमेव ज्ञानं स्वहेतु बलात्तथैवोत्पत्तेः ।
इत्यस्य च स्वत
२०
यत्पुनरत्र तस्यैव वचनम्–“उत्पादे हि सति पश्चादथदृष्टेः प्रत्यक्षत्वं युक्तं न पूर्वमेव" [ ] इति ; तत्पराभिप्रायापरिज्ञानादेवोक्तम् । न हि सौगतस्यापि 'अप्रत्यक्षोपलम्भस्य' इत्यादि ब्रुवाणस्यायमभिप्रायः 'प्रागेवार्थदृष्टेः प्रत्यक्षत्वं पश्चादुत्पत्तिः' इति, अपि तत्पद्यमानैव सो स्वप्रकाशरूपतया प्रत्यक्षैवोत्पद्यते, तद्रूपतयोत्पत्तावेव " तस्यास्तद्रूपत्वोपपत्तेः ", अतद्रूपतयोत्पत्तिः” अनुत्पत्तिरेवेति अनुत्पन्नैवार्थदृष्टिर्भवेदित्ययमेवं । तत्कथं पराभिप्रायतः पौर्वापर्यर्थ तत्प्रत्यक्षत्वतदुत्पादयोर्यतस्तत्र 'नहि' इत्यादि दूषणमुद्युष्येत ? " तदयमविज्ञातपूर्वपक्षतया दूषणमुद्धोषयन्नात्मनो विदूषकत्वमावेदयति । एवमन्यदपि तस्य दुर्विलसितमुपदर्श्य प्रतिविधातव्यम् ।
कथं पुनरात्मवेदनं ज्ञानस्य ? कथञ्च न स्यात् ? स्वात्मनि क्रियाविरोधादिति चेत् ; न; असिद्धत्वात् । विरोधोऽपि प्रमाणबाधनमेव नापर:, ततः कस्यचिन्निषेधायोगात् । स च
१. चेन्नेति पूर्व- स० । चेन्न तदिति पूर्व प० । २ स्वात्मादाहक - आ०, ब०, प०, स० । लवनार्थकदाप्धातोः दायकः इति रूपम्, छेदक इति यावत् । ३ धात्रादि- आ०, ब०, प० । ४ दृष्टान्तमात्रादेव । ५- तया वोप- आ०, ब०, प०, स० । ६ यद्यप्य-आ०, ब०, प०, स० । ७ भासर्वज्ञेनैव । ८ तदप्यसम्बन्धम् सा० । ९ अर्थदृष्टिः । 10 अर्थदृष्टेः । ११ अर्थदृष्टित्वोपपत्तेः । १२ -त्तिरन्योत्पत्ति-आ०, ब०, प०, स० । १३ सौगतस्थाभिप्रायः । १४ तदयमपि ज्ञात - भा०, ब०, प०, स० ।
२५