________________
२१४ न्यायविनिश्चयविवरणे
[१२२० म्भात् , "अर्थग्रहणं बुद्धिः" [न्यायभा० ३।३।४६ ] इत्यभ्युपगमात् । तदाभिमुख्यस्य चेदप्रतिपत्तिः किमविशिष्टं तस्य रूपं यन्निर्विकल्पकप्रत्यक्षवेद्यं भवेत् ? प्रकाशमात्रमिति चेत् ; न; विषयविमुखस्य तस्यैवाभावात् । सत्यम्, तदभिमुखमेव तत्, केवलं तदाभिमुख्यं न गृह्यते, प्रकाशमात्रस्यैव ग्रहणादिति चेत् ; न ; प्रकाशात्तदाभिमुख्यस्याभेदे कथमग्रहणं प्रकाश५ स्यापि तत्प्रसङ्गात् ? गृहीतेतरस्वरूपतायाश्च विरोधात् । भेदे तु न प्रकाशस्य प्रकाशत्वम् अर्थाभिमुखत्वाभावात् , अतिप्रसङ्गात् । भिन्नेनापि तदाभिमुख्येन सम्बन्धात्तदभिमुखतयैव प्रकाश इति चेत् ; नैवम् ; स्वाभिमुखत्वस्यापि सम्भवात् , तत्सन्बन्धस्यापि तत्रोपपत्तेः । तत्प्रकाशमनात्मप्रकाशं ज्ञानम् । न च सविकल्पकस्य प्रत्यक्षस्य तत्राभावे निर्विकल्पकमपि
सम्भवति तस्यैव तत्र प्रमाणत्वात् । तथा च व्योमवता उक्तम्-“अथास्त्वेवं निर्विकल्पकज्ञा१० नस्योत्पत्तिः, सद्भावे तु किं प्रमाणम् ? सविकल्पकज्ञानोत्पत्तिरेव" [प्रश० व्यो० पृ०
५५७ ] इति । ततः सत्यपि निर्विकल्पके सविकल्पकमङ्गीकर्त्तव्यम्, अन्यथा तदसिद्धेः । तस्य च न विषये सञ्चारो न प्रवृत्तिस्तत्कथं तेन तदर्थज्ञानस्य प्रकाशनम् ? तत्रासञ्चार एवं तस्य कस्मादिति चेत् ? अतत्सन्निकर्षजत्वात् , अर्थसन्निकर्षजं हि ज्ञानमर्थे सञ्चारवन्नापरम् ।
न च द्वितीयज्ञानं तत्सन्निकर्षजम् , अर्थज्ञानसन्निकर्षादेवं संयुक्तसमवायलक्षणात्तदुत्पत्तेः। अत१५ मानकर्षजस्यापि तत्र सञ्चारे कथमयमेवास्य विषयो नापर इति व्यवस्था ? तदाह-अनवस्थानम् विषयस्येति यावत् । तन्न प्रत्यक्षादर्थज्ञानस्य ज्ञानत्वपतिपत्तिः।
भवतु तदन्यत एव तत्प्रतिपत्तिर्द्वितीयस्यैव दिकल्पस्योपादानादिति चेत तदन्यत् ? उपमानमिति चेत् ; न; तस्योपलभ्य एव विषये वाच्यत्वोपाधिकत्वेन प्रवृत्तः,
अर्थज्ञानस्य चानुपलभ्यत्वप्रतिपादनात् । आगम इति चेत् ; न; तस्मादप्यपरिज्ञातात्तदप्रतिपत्तेः । २० परिज्ञातादेव भवत्विति चेत् ;
"तज्ज्ञानस्यापि "तज्ज्ञत्वं वेद्यं चेदागमान्तरात्। तत्राप्येवं प्रसङ्गः स्यात्तथा सत्यनवस्थितिः ॥६१४॥ अनुमानं तु नास्त्येव तज्ज्ञानत्वावबोधनम् । प्रत्यक्षपूर्वकत्वेन "तदभावे तदत्ययात् ॥६१५॥ न चास्ति पञ्चमं मानं न्यायतत्त्वविदा मते ।
अर्थबोधस्य बोधत्वं यतः स्यादुपपत्तिमत् ॥६१६॥ ततः किम् ? इत्याह-अविशेष्यविशेषणम् ज्ञानं विशेष्यं तस्य विशेषणमर्थस
37
. चत:
न: कि .
गावि
, "अर्थाभिमुख्यविशेषणरहितम्" -ता. दि. २ -कं प्र-आ०, ब०,१०,स.। ३ सविकल्पस्यैव । ४ निर्विकल्पके । ५ व्योमवतावुक्तं स० । व्योममतैरुकं प० । व्योममतारुक्तं आ०,०। ६ "अन्यथा हि विशिष्टार्थानुपलब्धौ विशिष्टस्य सङ्केतस्मरणस्यानुपपत्तेः सविकल्पकं ज्ञानं न स्यात् , तस्य तत्कार्यत्वात्" -प्रश. म्यो० पृ. ५५७ । ७ च वि- मा०, २०, ५०, स०। ८ -यं ज्ञा- भा०,०, १०, स.। ९ मनःसंयुक्त आत्मनि अर्थज्ञानस्य समवेतत्वात् । १. आगमज्ञानस्यापि । १ अर्थज्ञानज्ञत्वम् । तज्जत्वं भा०,०, स.। तजन्यत्वं प०।१२ प्रत्यक्षाभावे ।