________________
१३२०] प्रथमः प्रत्यक्षप्रस्ताव
२१३ दोषः, सम्बन्धस्य नियामकत्वात् । अनात्मप्रकाशस्यापि यत्रैव तस्य सम्बन्धस्तस्यैव तद्विषयदर्शनं भवति न परस्य । तथा च परस्य वचनम्-“यस्मिन्नात्मनि समवेतं ज्ञानमुपजातं स एव द्रष्टा नान्यः । तत्र विवक्षितज्ञानासमवायात् ।” [प्रश० व्यो० पृ० ५२९ ] इति चेत् ; न; समवायनियमस्य दुरवबोधत्वात् । तथाहि-कुत इदमवगन्तव्यम्- 'कचिदेवात्मनि दर्शनस्य समवायो नान्यत्र' इति ? तत एव दर्शनादिति चेत् ; न ; स्वसंवेदनप्रत्युज्जीवनात् । ५ तस्य च तदभावप्रतिज्ञया विरोधात् । तदाह-'विमुखज्ञानसंवेदो विरुद्धः' इति । व्याख्यानं पूर्ववत् । इयान्विशेष:-'विमुखत्वं पूर्व विषयान्तरं प्रति, अधुना तु आत्मान्तरसम्बन्धं प्रति' इति ।
_____ भवतु तर्हि ज्ञानादन्यत एव तस्य तन्नियमावगमः । तदाह-व्यक्तिरन्यतः तनिय. मस्येति । तत्राह-असञ्चारः असम्प्रतिपत्तिः तन्नियमस्य । कुतः ? इत्याह-अनवस्थानं १० यत इति । तथाहि-तैदपि ज्ञानं तदात्मन्येव समवेतं तद्विषयम् "एकात्मसमवेतानन्तरज्ञानवेद्यमर्थज्ञानम्" [ ] इत्यभ्युपगमात् । तस्यापि कुतस्तनियमावँगमः ? तत एवेति चेत् ; न; 'स्वसंवेदनप्रत्युज्जीवनात्' इत्याद्यनुबन्धादनवस्थोपस्थानस्य व्यक्तत्वात् । तदुपस्थानमाकामानिवृत्त्या नियम्यत इति चेत् ; न तर्हि चरमस्य तंन्नियमपरिज्ञानं तदभावान्न "तत्पूवस्येति [ न ] दर्शनस्य कचित्समवायनियमः स्वतोऽन्यतश्च तदपरिज्ञानादिति न तज्ज्ञानं १५ विशेष्यं नापि तस्य नियतात्मत्वसमवेतत्वं विशेषणमित्यायातम् । तदेवाह-अविशेष्यविशेषणम् । विशेष्यविशेषणे व्याख्याते, तयोरभावः अविशेष्यविशेषणम् अर्थाभावेऽव्ययीभावात् ।
___ अपि च, अनात्मप्रकाशने ज्ञानस्य ज्ञानत्वमेव कथम् ? कथं च न स्यात् ? तत्प्रतिपत्त्युपायाभावात् । "तदेव तत्रोपाय इति चेत् ; न, स्वसंवेदनप्रत्युज्जीवनेने तदभावप्रतिज्ञावि. २० रोधात् । तदाह-'विमुखज्ञानसंवेदो विरुद्धः' इति । व्याख्यातं विमुखं तस्य ज्ञानेन ज्ञानात्मना स्वतः संवेदो विरुद्धः पूर्ववत् ।
व्यक्तिस्तर्हि तज्ज्ञानत्वस्य अन्यतस्तद्विषयाज्ज्ञानादिति परः; तत्राह-'असञ्चार' इति । तात्पर्यमत्र यत्तदन्यज्ज्ञानं तत्प्रत्यक्षम्, अन्यद्वा भवेत् ? प्रत्यक्षमपि यद्यर्थप्रकाशनं न भवति कथं तदभिमुखस्य ज्ञानस्य प्रकाशनं विषयाप्रकाशने तदाभिमुख्यास्याशक्यप्रकाशनत्वात् ? २५ तदप्रकाशने तद्विशिष्टतयैव ज्ञानस्याप्रकाशनम् , अतो मा भूत्तद्विषयं सविकल्पकं प्रत्यक्षं तस्य सविशेषणवस्तुप्रतिपत्तिरूपत्वेन विशेषणाप्रतिपत्तावनुत्पत्तेः, निर्विकल्पकं तु तत्स्वरूपमात्रालोचनरूपं प्रत्यक्षं तदप्रतिपत्तावपि भवत्येवेति चेत् ; न; तदभिमुखतयैव तस्य ज्ञानत्वप्रतिल
1-तिज्ञाया मा०, २०, ५०,०।२ पूर्वविष- मा०,०, ५०, स. ।३ -रसम्बद्धं प्रति मा०,५०, प०, स.। ४-मापगमः भा०, ब०, ५०, स०। ५ तदपरिज्ञानं बा०, ब०, ५०, स.। एकार्थसममा०,०,५०, स.। -मापगमः भा०,०, ५०, स०। ८ अनवस्थोपस्थानम् । ९ समवायनियम । १० उपचरमस्य । ज्ञानमेव स्वसिद्धी उपायः। १२-वने तद-ब.। विशेषणाप्रतिपत्तावपि ।