________________
२१२
न्यायविनिश्चयविवरणे
[ १।२०
'घटो दृष्टः पटो दृष्टः' इति विषयनियमेनैव तस्यानुभवात् । योगिदर्शनस्य तु सर्वार्थत्वमुपपनमेव सर्वत्रापि त्वेनैव तदनुभवोद्भवात्, तत्कथमविशेष्यविशेषणं नैयायिकानामेवस्थानम् अनुभवबलादेव सकलेतरविषय संवेदनभेदव्यवस्थितौ सर्वज्ञकिञ्चिज्ज्ञ विभागोपपत्तेः सविशेष्यविशेषणस्यैव तदवस्थानस्य सम्भवादिति ? तत्रोच्यते - कोऽयमनुभवो येन दर्शनस्य तदाभिमु ५ ख्यम् ? तदेव दर्शनमिति चेत्; स्वतस्तर्हि तस्य तदाभिमुख्यवगन्तव्यम् । तथा चेत्; न; स्वसंवेदनप्रत्युज्जीवनेन तदभावप्रतिज्ञाविरोधात् । तदेवाह - 'विमुखज्ञानसंवेदो विरुद्धः ' इति । विमुखं च तत् विषयान्तरनिर्मुखत्वात् ज्ञानञ्च घटादिदर्शनं विमुखज्ञानं तस्य यः स्वत एव संवेदः अन्यतः संवेदनस्य वच्यमाणोत्तरत्वात् । स विरुद्धो विरोधवान् स्वप्रकाशविकलस कलेज्ञानप्रतिज्ञयेति यावत् ।
भवतु तर्हि तदन्यदेव ज्ञानं तदनुभव इति । तदेवाह - 'व्यक्तिरन्यतः' इति । दर्शनस्य यत्तदाभिमुख्यं तस्य अन्यतः दर्शनविषयादेव ज्ञानात् व्यक्तिः प्राकट्यमिति । अत्रेदमाह - 'असञ्चारः' इति । समीचीनश्चारो ज्ञानं तदाभिमुख्यस्य तदभावः असञ्चारः तदन्यतोऽपि तस्य न सम्यक् परिज्ञानमित्यर्थः । तथा हि- तस्याप्याभिमुख्यं 'नियताभिमुख एव दर्शने न सर्वाभिमुखे' इति कुतः परिज्ञानं येनैवमुच्यते नियताभिमुखमेव दर्शनं दृष्टमित्यनु१५ भवात्, अन्यथा च तदभावादिति चेत् ? न ; तत्रापि 'कोऽयमनुभवः' इत्यादि प्रबन्धस्यानुबन्धादनवस्थानदोषानुषञ्जनात् । तदेवाह - 'अनवस्थानम्' इति ।
१०
अवस्थानमदृष्टशक्तः, ईश्वरानुग्रहात्, अन्यतो वा भवतीति चेत्; यस्य तर्हि ज्ञास्य स्वतः परतश्च न परिज्ञानं तद्व्यापारस्येत्थम्भावेनानिरूपणात् न तद्विषयस्य ज्ञानस्येत्थम्भावनिर्णयः तदभावे च तद्विषयस्य इति तावद्वक्तव्यं यावदर्थदर्शनस्य नियताभिमुख्यं निर्णयदूरं २० भवति । ततो न तदाभिमुख्यं विशेषणं तद्दर्शनञ्च विशेष्यमित्युपपन्नम् । एतदाह-अविशेविशेषणम् । विशेष्यविशेषण योरुक्तरूपयोरभाव एव स्यादित्यर्थः । ततोऽनुभव बलम पि दर्शनस्य नियतविषयत्वे निबन्धनमिति कॅल्पनैव केवलमवशिष्यते तस्याश्च सर्वत्राविशेषात्सर्वा - भिमुखमपि तत्प्राप्तम् । ततो यदुक्तं व्योमवता ( ? ) - " यस्मिन्नेव विषये ज्ञानमुत्पन्नं स एवोपलभ्यो नेतर इति विषयविषयिभावस्य नियामकत्वम्" [ प्रश० व्यो० पृ० ५२८ ] २५ इति ; तदत्यन्तबालभाषितम् ; विषयविषयिभावस्यैवातिप्रसङ्गेन पर्यनुयुक्तत्वात् । न हि दोषेण पर्यनुयुक्तस्यैव तत्परिहारायोपदर्शनमुपपन्नम्, अन्यथा विप्रतिपत्या पर्यनुयुक्तस्य अनित्यत्वादेरेव तत्परिहारायोपदर्शनसम्भवात्तदर्थं कृतकत्वाद्युपदर्शनमुपपन्नं न भवेत् । न चैवं कस्यचिदिष्टा - प्रसिद्धिः, विवादविषयमेवोपदर्श्य तत्परिहारस्य सम्भवे प्रयासरहितस्यैव स्वपक्षव्यवस्थापनस्य सम्भवात् । तदस्मादशक्यप्रतिषेधमेव दर्शनस्य सर्वविषयत्वम् ।
अपि च, कस्यचित् तेन द्रष्टृत्वे परस्यापि स्यात् तदनात्मप्रकाशस्याविशेषात् । नायं
३०
१- मनवस्था - आ०, ब०, प०, स० २ तथाभि- आ०, ब०, प०, स० । ३ - लप्रतिज्ञानप्रति आ०, ब०, प०, स० । ४ अनव-आ०, ब०, प०, स० । ५ कल्पः नैव आ०, ब०, प०, स० । ६ व्योममती आ०, ब०, प०, स० ।