________________
१।२०]
प्रथमः प्रत्यक्षप्रस्तावः ज्ञानस्यानात्मवेदित्वे तस्यायं विषयो घटः । इति स्वेच्छानिबद्धोऽयमर्थात्मा नोपपत्तिमान् ॥६०४॥ स्वेच्छानिबद्धाः सर्वेऽपि तस्यैव विषया न किम् १ । यतो विवक्षितादादन्यत्रापि न तद्गतिः ॥६०५॥ स्यान्मतं घटविज्ञानं यदि सर्वत्र वर्तते । . सर्वत्र व्यवहारोऽयं भवेदानयनादिकम् ॥६०६॥ न चैवं नियतार्थस्य व्यवहारस्य दर्शनात् । ततोऽपि नियतार्थत्वं ज्ञानस्यानात्मवेदिनः ॥६०७॥ इति तन्नेष्टभूमित्वाब्यवहारस्य देहिनाम् । बहूनां दर्शनेऽप्यर्थे कचिदिष्टे तदीक्षणात् ॥६०८॥ नियतार्थनिबद्धश्च व्यवहारः कुतो गतः । तष्टेश्चेन्न तत्रापि चोद्यस्यास्य प्रवर्तनात् ॥६०९॥
अस्वप्रकाशात्तदृष्टेरपि तस्याः कथं भवान् । 'विषये व्यवहारोऽयं नान्य इत्यपि कल्पयेत् ॥६१०॥ अन्यतस्तन्नियमाच्चेन्नन्वेवमनवस्थितिः । सर्वस्यापि प्रसङ्गस्य प्राच्यस्यात्रोपबृंहणात् ॥६११॥ तदस्वसंविदो बुद्धरर्थानां नियमास्थितेः ।
व्यवहारः क्वचित्सिद्ध्यन् तदन्यत्रापि सिद्धयति ॥६१२॥ तदेवाहअसञ्चारो न वः [स्थानमविशेष्यविशेषणम्।] इति ।
'अन्यतः' इत्यनुवर्तते । विवक्षितादन्यत्रापि विषये समीचीनं चरणं सन्चारः संव्यवहारः तदभावः असञ्चारः स न व इति पूर्ववत् । तन्न व्यवहारनियमादपि ज्ञानस्य विषयनियमः तस्यैवासिद्धेः।
तदेवं सर्वविज्ञानसर्वार्थत्वे प्रसञ्जिते ।
स्याद्वः सर्वज्ञकिञ्चिज्ज्ञविभागविकला स्थितिः ॥६१३॥
तदाह-'स्थानमविशेष्यविशेषणम्' इति । विशेष्याश्च सर्वज्ञाः सकलवेदनलक्षणविशेषणाधारत्वात् विशेषणाश्च किञ्चिज्ज्ञाः तदभावात् , विशेष्यविशेषणा न विद्यन्ते यस्मिंस्तद् अविशेष्यविशेषणं स्थानम् ।
स्यान्मतम्-न कारणनियमान्नापि कार्यनियमात् दर्शनस्य नियतविषयाभिमुख्यं येनैवं स्यात्, अपि तु अनुभवादेव । सर्वविषयत्वे हि 'सर्व दृष्टम्' इत्यनुभवः स्यात् । न चैवम्, ३०
२०
-पि न यथार्थत्वं आ०, ब०, ५०, स.। २ विषयव्य- आ०,०, प., स.। मा०, २०, ५०।-बाधारणत्वात् सः।
-बाधारत्वात