________________
२१० न्यायविनिश्चयविवरणे
[१२१९ सैवार्थदृष्टिः, उत तजनकं ज्ञानमिति ? तत्र यद्यभिमतिः सैवार्थदृष्टिरुपलम्भः, तस्याप्रत्यक्षत्वे सत्युत्पत्तिर्न सम्भवतीति; तदयुक्तम्; उत्पादे सति पश्चादर्थदृष्टेः प्रत्यक्षत्वं युक्तं न पूर्वमेव, अन्यथा अतिप्रङ्गात् । अथ अर्थदृष्टिजनकं ज्ञानमुपलम्भः, तस्याप्रत्यक्षत्वेऽर्थदृष्टि!त्पद्यते इति; तदयुक्तम्; चक्षुरादिवदप्रत्यक्षस्याप्युत्पादकत्वसम्भवात् , तीव्रस्पर्शादिना सुषुप्तप्रेबोधे पूर्वज्ञानासंवे५ दनात् । अथार्थदृष्टेः प्रसिद्धिरुपलब्धिः; तदाप्ययं स्याद्वाक्यार्थो भवति-अप्रत्यक्षोपलम्भस्य नार्थोपलम्भैः प्रत्यक्ष इति । न चानेन किञ्चित्साधितं-भवति । अथ दृश्यत इति दृष्टिः अर्थ एव, ततश्चाप्रत्यक्षोपलम्भास्यार्थोऽपि प्रत्यक्षो न भवतीत्यं वाक्यार्थः; न; उपलम्भादर्थान्तर• त्वात् । न चैकस्याप्रत्यक्षत्वेन अन्यस्याप्यप्रत्यक्षत्वम् ; अतिप्रसङ्गात् । अथोपलम्भस्याप्रत्यक्षत्वे
सति अर्थो दृष्य इत्येवम्प्रतीतिर्न भवतीत्यभिमतमेतदस्माकम्, नागृहीतं विशेषणं विशिष्ट१० प्रतीतौ निमित्तम् । न च सर्वत्र दर्शनविशिष्ट एवार्थो गृह्यते । न हि 'शुक्लो गच्छति
गौः' इत्यत्र गोदर्शनमनुभूयते, अपितु गुणक्रियाविशिष्टो गौरेवानुभूयते । ततो नार्थदर्शनस्य स्वसंवेदनसिद्धावुपायत्वम् , अन्यथानुपपत्तिवैधुर्यादिति । तदेतत् व्यामोहविजृम्भितं भासर्वज्ञस्य ; स्वप्रकाशनाभावे ज्ञानस्य विषयनियमानुपपत्तेः 'नार्थदृष्टिः' इति निवेदनात् ।
न ह्यस्वप्रकाशस्य तस्य 'अयमेव विषयो नान्यः' इति शक्योपपादनम् । तत्कारणस्य १५ विषयप्रतिनियमात् तस्यापि तन्नियमः, प्रतिनियतविषयं हि तत्कारणम् इन्द्रियसन्निकर्षादिकम् ,
अतस्तदुपजनितं ज्ञानमपि प्रतिनियतविषयमेवेति चेत् ; कुतः कारणस्य तंन्नियमः ? ज्ञानस्य तन्नियमादिति चेत्, न; परस्पराश्रयस्य॑ सुव्यक्तत्वात् । कारणस्य तज्ज्ञानादेव"तन्नियम इति चेत् ; न; तस्याप्यस्वप्रकाशस्य तन्नियम एव विषयो नातन्नियम इत्यशक्योपपादत्वात् । तत्कारणस्य
तद्विषयनियमात्तस्यापि तन्नियम इति चेत् ; न; 'कुतः कारणस्य तन्नियमः' इत्याद्यनुबन्धादन२० वस्थापत्तेश्च । ततो नाऽनात्मवेदनस्य ज्ञानस्य विषयप्रतिनियमो विवक्षितवदन्यत्रापि तस्य प्रवृत्तिसम्भवात् । तदेवाह
विमुखज्ञानसंवेदो विरुद्धो व्यक्तिरन्यतः ॥१९॥ इति
मुखं स्वसंवेदनम् अर्थप्रकाशस्य विषयनियमे तस्यैवोपायत्वेनाधुनैव निवेदनात, तस्याभावो विमुखम्-अर्थाभावेऽव्ययीभावविधानात् , तज्जानन्तीति विमुखज्ञाः, नैयायि२५ कानां सम्बोधनमेतत। न संवेदः समीचीनं वेदनं संवेदो न सम्भवति युष्माकम् । 'व:'
इत्यस्य वक्ष्यमाणस्य सिंहाविलोकिते सम्बन्धात् । कीदृशः संवेदो न सम्भवति ? विरुद्धः विषयप्रतिनियमेन स्वीकृतः । कुत इति चेत् ? व्यक्तिरन्यतः विवक्षितार्थवदन्यत्रापि तत्संवेदनरूपा व्यक्तिः सम्भवति यत इत्यर्थः । तात्पर्यमत्र
तजन्मकमिति सैव आ०,ब०,१०,स०।२-प्रबोधपूर्व-आ०, ब०, ५०, स०।३-नादयथार्थ-आ०, ब०,५०,स०।४ -म्भप्रत्य- आ०,ब०,०स० ।५-हज़-ता०। -स्य प्रका-भा०, ब०, ५०, स०। . विषयप्रतिनियमः । ८ सति कारणस्य विषयप्रतिनियमें ज्ञानस्य तन्नियमः, तस्मिंश्च कारणस्य विषयप्रतिनियम इति । ९ कारणज्ञानादेव । १० विषयप्रतिनियमः ।