________________
१९१६८ ]
प्रथमः प्रत्यक्ष प्रस्तावः
दिकमपि विज्ञानम् । साध्यज्ञानादुत्तरज्ञानस्यैव तत्त्वोपपत्तेः तत्र सम्बन्धसम्भवेन तत्सम्भावनस्य सम्भवात् । आदिशब्देन अनुक्तपरिग्रहः । अनुक्तश्च परिच्छिन्नो विषयः, तत्परिच्छेदो वा स्यात् ? । सोऽपि आत्मसम्वित्तेः मीमांसकज्ञानस्य अहेतुः अगमक: इत्याहअसिद्धसिद्धि(द्धे) रप्यर्थः सिद्धश्चेदखिलं जगत् ॥ १७ ॥
२
सिद्धम् [ तरिकमतो ज्ञेयं सैव किन्नानुपाधिका । ] इति ।
५
परिच्छिन्नस्य विषयस्य तत्परिच्छेदस्य वा नापरिज्ञातस्यैव तद्धेतुत्वम् ; अतिप्रसङ्गात् । न चापरिज्ञातज्ञानस्तद्विषयः तत्परिच्छेदो वा 'परिज्ञातः ' इत्युपपन्नम् ; 'अखिलं जगत्परिज्ञातम्' इत्यप्युपपत्तेः । परिज्ञायत एव स्वतो मुख्यतोऽर्थविशेषणत्वेन वा तत्परिच्छेद इति चेत् ; सोऽपि यदि ज्ञानधर्मः; तत्राह - 'तत्किमतो ज्ञेयम्' इति । तत् अर्थज्ञानम् अतः परिच्छेदात् किम् नैव ज्ञेयम् अनुमातत्र्यम्, परिच्छेदपरिज्ञानादेव तदनर्थान्तरत्वेन ज्ञानस्यापि १० स्वत एव परिज्ञातत्वादिति भावः । भवतु वार्थस्यैव धर्म इति चेत्; आह-सैव किन्नानुपाधिका ? सैव परिच्छित्तिरेव सिद्धिशब्दवाच्या किं न भवत्येव अनुपाधिका विषयज्ञानविशेषणशून्या ? परिच्छित्तेः स्वतः प्रत्यक्षायाः अव्यतिरेकेणार्थस्यापि तत एव प्रत्यक्षत्वात् विफलमेव ज्ञानम्, अतो विरुद्धो हेतु:, ज्ञानसाधनाय प्रयुक्तेन तदभावस्यैव साधनादिति तात्पर्यम् । तदयं 'परोक्षज्ञान' इत्यादेः संग्रहः ।
तदेव दूषणमन्यत्राप्यतिदिशन्नाह
एतेन येsपि मन्येरन्नप्रत्यक्षं धियोऽपरम् ॥ १८ ॥ संवेदनं न तेभ्योऽपि प्रायशो दत्तमुत्तरम् । इति ।
२०९
"
एतेन परोक्षेत्यादिना मीमांसक दूषणेन तेभ्योऽपि नाऽदत्तं किन्तु दत्तमेवोत्तरम् । कथम् ? प्रायशो बाहुल्येन, परस्याप्युत्तरस्य वक्ष्यमाणत्वात् । सर्वात्मना तद्दाने तदनुपपत्तेः । २० तेभ्यो येsपि साङ्ख्या मन्येरन् । किम् ? संवेदनम् चैतन्यम् । कीदृशम् ? अप्रत्यक्षम् प्रत्यक्षस्य प्रमाणविशेषत्वात्, प्रामाण्यस्य च चित्तधर्मत्वात् चित्ताच्च संवेदनस्य भिन्नत्वेन प्रत्यक्षत्वानुपपत्तेः । अत एवाह-धियो व्यवसायात्मिकाया बुद्धेः अपरं भिन्नभिति । तात्प मत्र परोक्ष संवेदनेन यदि बुद्धिप्रतिबिम्बितार्थानुभवनं विषयानुभवनमेव किन्न स्यात् यतो न मीमांसकमतम् ? आक्षेपसमाधानयोरुभयत्रापि समानत्वादिति । एते सङ्ग्रहश्लोकाः । नैयायिकत्वाह- अर्थ प्रकाशनमेव ज्ञानं नात्मप्रकाशनं तत्सिद्धावुपायाभावात् । अर्थप्रकाशनमेव तत्रोपायः तस्यै तदन्तरेणानुपपत्तेः । अत एव कस्यचिद्वचनम् - " अप्रत्यक्षोपलम्भस्य नाथदृष्टिः प्रसिद्ध्यति ।" [ ] इति । इति चेत्; केयमर्थदृष्टेः प्रसिद्धि:किमुत्पत्तिः, आहोस्विदुपलब्धिः ? कश्चोपलम्भोऽपि यस्याप्रत्यक्षत्वे सत्यर्थदृष्टिर्न प्रसिर्द्धति - किं
१५
१ लिङ्गत्वोपपत्तेः । २ विषयपरिच्छेदः । ३ 'प्रायशः' इति वचनानुपपत्त ेः । '४' अन्यथानुपपन्नत्वम्' इत्यारभ्य 'एतेन येऽपि' इत्यन्तमष्टौ संग्रहश्लोकाः, 'परोक्षज्ञानविषय' इत्यादिकस्य अर्थस्य एभिः संग्रहात् । ५ आत्मप्रकाशने । ६ अर्थ प्रकाशनस्य । ७ आत्म प्रकाशनं विना । ८-द्ध्यतीति सैव आ०, ब०, प०, स० ।
२७
२५