________________
म्यायविनिश्चयविवरणे
[ १ १६
शक्यपरिज्ञानः, ततो यावत् असौ आत्मनि प्रत्यक्षत एव बोधपूर्वत्वं व्याहार्न प्रतिपद्येत न तावत्पुरुषान्तरबोधमनुमातुमर्हतीति कथमस्य परार्थ किमपि चेष्टितमिष्टं भवेत् ? आत्मन्यपि बोधमनुमिमान एव तत्पूर्वकत्वं व्याहारादेरवगच्छतीति चेत् ; तदनुमानं यदि तस्मादेव लिङ्गात् ; तदा ' ततः सम्बन्धपरिज्ञानम्, परिज्ञातसम्बन्धाच्च लिङ्गात्तत्' इति सुव्यक्त५ मुभयथा प्रक्लृप्तिनिबन्धनमन्योन्याश्रयणम् । अन्यत एव लिङ्गोत्तदिति चेत्; न; तत्सम्बन्धस्याप्यन्यतोऽनुमानादवगैमः, तदपि लिङ्गात्, तत्सम्बन्धस्यापि तदनुमानादवगम इत्यनवस्थादोषात् । तन्नात्मनि बोधज्ञानमनुमानात् लिङ्गाभावाच्च । तदाह
२०८
विषयेन्द्रियविज्ञानमनस्कारादिलक्षणः ॥ १६ ॥ अहेतुरात्मसंवित्ते सिद्धेर्व्यभिचारतः । इति ।
आत्मनि बोधानुमाने हि विषयेन्द्रियादीनामन्यतमस्यैव लिङ्गत्वं सम्बन्धसम्भवात्, नापरस्य विपर्ययात् । तत्र न तावद्विषयेन्द्रियान्तःकरणानां लिङ्गत्वम् ; तेषां बोधं प्रति हेतुत्वेन व्यभिचारसम्भवात् । अप्रतिबद्धशैक्तित्वेनाव्यभिचार एवेति चेत्; न; कार्यादर्शने तस्यैवापरिसजातीय कार्याज्ञानात् । विद्युदादिचरमक्षणस्य तददर्शनेऽपि तत्परिज्ञानमिति चेत्; सत्यम् ; क्षया तत्सत्त्वादेव तत्परिज्ञानं तस्ये "ना (तन्ना) न्तरीयकत्वात्, "अन्यथा तत्सन्तानस्यैव १५ अवस्तुत्वापत्तेरित्युत्तरत्र विस्तरविधानात् । न चैवं विजातीयकार्यापेक्षयापि ततस्तत्परिज्ञानं बहुलं " तदभावेऽपि भावसस्वस्योपलम्भात् । विजातीय कार्यं विषयादीनां बोधस्तत्कथं त " तेषामप्रतिहतशक्तिकत्वमिति सम्भवव्यभिचारत्वान्न लिङ्गत्वम् । असिद्धत्वाच । असिद्धा हि विषयादयः परोक्षज्ञानवादिनाम्, तदपरिज्ञानस्य निवेदितत्वात् ।
एतेन विज्ञानस्यापि तत्रालिङ्गत्वमुक्तम्; स्वत एव परोक्षज्ञानवादिनां " तदसिद्धत्वस्य २० सुप्रसिद्धत्वात् । किं पुनरिदं विज्ञानं नाम ? स एव साध्यो बोध इति चेत्; न; तत्र लिङ्गत्वसम्भावनस्याप्यसम्भवात् । न हि साध्यमेव कश्चिदनुन्मत्तो लिङ्गं सम्भावयति अनित्यत्ववत् । सति तत्सम्भावने तत्र दूषणवचनम्, अन्यथाऽतिप्रसङ्गात् । अर्थापत्तिरनुमानं वा विज्ञानमिति चेत्; न; तद्वयस्यापि 'द्विषयत्वे 'तंत्रापि 'तत्सम्भावनाऽभावात्, 'प्रत्यक्षेऽपि प्रसङ्गात् न कश्चित्प्रत्यक्षवेद्यो भावः स्यात् । अतद्विषयत्वे" तदुद्भवानुमाने तत्सम्भावनप्रसङ्गः " २५ तथा तत्प्रभवानुमानेऽपीति न कचिद्व्यवस्थितिर्यतोऽनुमानवेद्यो बोधो भवेत् । ततो दूरमनुसृत्यापि यदि तस्य स्वतस्तद्विषयत्वान्न तत्सम्भावना, आद्यस्यापि न स्यादविशेषात् इति नाथपस्या
२२
१०
१ लिङ्गादिति आ०, ब०, प०, स० । २ -स्यान्य-आ०, ब०, प०, स० । ३ - गमनं त-आ०, ब०, प०, स० । ४ -क्तिकेनाव्य-आ०, ब०, प०, स० । ५ अप्रतिबद्ध शक्ति कत्वस्यैव । ६ कार्यादर्शनेऽपि । ७ कार्यसस्वादेव । ८ अप्रतिबद्धशक्तित्वपरिज्ञानम् । ९ कार्यस्य । १० अप्रतिबद्धशक्तिकत्वाविनाभावित्वात् । ११ चरमणस्य कार्यकर्तृत्वाभावे । १२ विजातीयकार्याभावेऽपि । १३ बोधे । १४ विषयादीनाम् । १५ विज्ञानासिद्धत्वस्य । १६ स्वस्वरूपविषयत्वे । १७ साध्यात्मक बोधेऽपि । १८ लिङ्गत्वसम्भावनाऽभावात् । अर्थापत्त्यनुमानयोरपि बोधस्यापि ज्ञानत्वेन स्वरूपविषयत्वादिति भावः । १९ स्वरूपविषयत्वेन प्रत्यक्षत्वेऽपि लिङ्गसम्भावनायाम् सर्वत्र प्रत्यचविषयीभूतेऽर्थे। २० सर्व एव अनुमेयः स्यादिति भावः । २१ स्वस्वरूपाविषयत्वे । २२ यतः तस्य स्वरूपाविषयत्वात् । २३ लिङ्गसम्भावना |