________________
१११५ ]
प्रथमः प्रत्यक्ष प्रस्तावः
1
तस्मादवश्यम्भाविन्यर्थपरिच्छेदे सत्य एव तद्बुद्धयो वक्तव्याः । तत्र च स्वानुभवप्रत्यक्षमेव प्रमाणम् अनुमानस्यापि तन्नान्तरीयकत्वात् । वक्ष्यति चैतत् ' तावत्' इत्यादिना' । ततः स्वात्मनि तत्प्रत्यक्षैवेद्या एव प्रत्यक्षधियो वक्तव्याः । इति एवम् एते अनन्तरोक्ता विकल्पाः भेदाः सुखादयो नीलादयश्च बुद्धयश्च ज्ञानस्याप्रत्यक्षत्वे प्रत्यक्षलक्षणा न भवन्तीति विचार्य विनिपातिताः निराकृताः 'परोक्ष' इत्यादिकारिकार्थेन, तेनाप्यस्यैवार्थस्याभिधानात् । ५ तदनेन तदर्थस्यैवायं सङ्ग्रह इंति दर्शयति ।
२०७
यत्पुनरेतत् - मा भूत् सुखादीनां प्रत्यक्षत्वमिति । तत्राह
सुखदुःखादिसंवित्तेरवित्तेर्न हर्षादयः ॥ १४ ॥ इति ।
सुखदुःखादीनां संवित्तेः परोक्षत्वेन यदि अवित्तिः तदा तेपामपि तदनथन्तरत्वात्, तदनर्थान्तरत्वेऽप्यर्थे वेदनोक्तन्यायेनावित्तिरेवेति कथं तेभ्यो हर्षादयः कस्यचित्, १० अतिप्रसङ्गात् ? हर्षादय इति संयोगपरत्वेऽपि न पश्चमस्यें लघुत्वहानिः कचिच्छन्दोविचितिवेदिनां तदङ्गीकारात् " कोषनिषण्णस्य प्रकृतिमलिनस्य" [ ] इतिवत् । प्रत्यक्षेण तेषामवेदनेऽप्यनुमानेन वेदनात्तेभ्यो हर्षादय इति चेत्; न; तस्यैवासम्भवात् लिङ्गाभावान् । सुखादीनां परिच्छेद एव लिङ्गमिति चेत्; न; तबुद्ध्यसिद्धौ तदसिद्धत्वस्योक्तत्वान् ।
अभ्युपगम्याप्याह
आनुमानिक भोगस्याप्यन्य भोगाविशेषतः । इति ।
अनुमानेन यो गृह्यते भोगः सुखाद्यनुभवस्तस्य अपिशब्देन तदभ्युपगमं दर्शयति, पुरुषान्तरभोगाविशेषात् न ततो हर्षादय इति । तथा हि-न विवक्षितो भोगो हर्षादिहेतुः आनुमानिकत्वात् आत्मान्तरभोगवत् । पुत्रादिभोगेन व्यभिचारः साधनस्य तस्यानुमानिकत्वेऽपि पित्रादेर्हर्षादिकारणत्वादिति चेत्; न; असिद्धत्वात् । न हि तस्य तद्भोगानुमानादेव हर्षादयः; २० अपि तु तदनुमाने सति स्नेहपरवशस्य स्वयमेव स्वानुभवसंवेद्यभोगरूपेण परिणामात्, अन्यथा वैरीभूर्तपुत्रादिभोगानुमानादपि तस्य " तत्प्रसङ्गात् । ततो न सुखादिबुद्धेरप्रत्यक्षत्वं न्याय्यम् ।
इतश्च न तन्न्याय्यमित्याह -
तावत्परत्र " शक्तोऽयमनुमातुं कथं धियम् ॥ १५ ॥ यावदात्मनि तच्चेष्टासम्बन्धं न प्रपद्यते । इति ।
परोक्षज्ञानवादिनोऽपि मीमांसकस्य परबोधप्रतिपत्तिरवश्यकर्तव्या ब्रतबन्धविद्योपदेशादेरम्यथानुपपत्तेः । न च परबोधस्य प्रत्यक्षतो वित्तिः ; " अनिन्द्रियसम्प्रयोगात् । अनुमानतस्तद्वित्तिस्तु लिङ्गतस्तत्सम्बन्धपरिज्ञानसव्यपेक्षा । न चाप्रत्यक्षे बोधे तत्सम्बन्धो लिङ्गस्य
'१ म्यायवि० श्लो० १५ । २ -क्षत्रेय एव आ०, ब०, प०, स० । ३-चार्य निपा-आ०, ब०, प०, स० । ४ न्यायवि० श्लो०१० | ५ सुखदुःखादीनामपि । ६ पञ्चमाक्षरस्य हृकारस्य । ७ पित्रादेः । ८ - पुरुषपित्रादि -आ०, ब०, प०, स० । ९ पित्रादेः । १० हर्षादि ११ शब्दोऽयम् आ०, ब०, प०, स० । १२ मी-आ०, ब०, प०, स० । १३ व्या तत्र बन्धवि-आ०, ब०, प०, स० । १४ इन्द्रियसम्प्रयोगाभावात् ।
१५
२५