________________
२०६ न्यायविनिश्चयविवरणे
[११४ भवेयुः को दोष इति चेत् ? तल्लक्षणत्वापरिज्ञानमेवेति ब्रूमः । 'तल्लक्षणत्वं हि तेषां' स्वतः, परतो वा परिज्ञायते ? न तावत् स्वतः ; तस्यार्थधर्मत्वाभावप्रसङ्गात् । अर्थधर्मत्वे हि तस्यार्थस्यापि स्वतः परिज्ञेयत्वं भवेत् धर्मधर्मिणोरभेदनयाभ्यनुज्ञानात् । न चैवम ,
अतो न तस्यार्थधर्मत्वम् । नापि ज्ञानधर्मत्वम् ; ज्ञानस्यापरोक्षत्वापत्तेः, स्वतः परिज्ञानविषय५ त्वेनापरोक्षात् 'तल्लक्षणत्वाव्यतिरेकात् । तद्धर्मत्वे वा तेन कथमर्थस्तल्लक्षणो भवेत्
अतिप्रसङ्गात् । तेनापि तस्य तल्लक्षणत्वकरणादिति चेत् ; न ; तस्यापि प्राच्यवत् ज्ञानधर्मत्वात् , तेनाप्यर्थस्य तल्लक्षणत्वानुपपत्तेः । पुनस्तेनापि तस्यापरतल्लक्षणत्वकरणे परिनिष्ठाभावप्रसङ्गात् । एतेन तस्यात्मधर्मत्वं प्रतिविहितम् ; समानत्वान्न्यायस्य । तन्न स्वतस्तस्य परिज्ञानम् । परत इति चेत् ; किं तत्परम् ? अर्थज्ञानादन्यदेव ज्ञानमिति चेत् ; कुत एतत् ? तत्कृतस्य परिज्ञेयत्वस्य तत्र दर्शनादिति चेत् ; न ; तस्य स्वतो दर्शने पूर्ववद्दोषात् । परतो दर्शने 'किं तत्परम् ?' इत्यादिप्रसङ्गस्यानिवृत्तेरव्यवस्थापत्तेः। एतेन 'आत्मा परः' इति प्रत्युक्तम् ; अनवस्थादोषस्याविशेषात् ।
___अर्थज्ञानादेवतंत्परिज्ञानमिति चेत् ;"तेनापि "यद्यतत्कृतत्वेन तत्परिज्ञानम् ; भ्रान्तमेव तद्भवेत् ;अर्थानां तल्लक्षणत्वस्य 'तत्कृतत्वात् ,तस्य चान्यथा तेर्ने परिज्ञानात् । तत्कृतत्वेन तु तेन १५ तत्परिज्ञाने सिद्धं तस्य स्वतः प्रत्यक्षत्वम् ,अन्यथा तत्कृतस्य तल्लक्षणत्वस्य तेन परिज्ञानायोगात् ।
न हि तदेवाजानतः शक्यं “तत्कृतत्वपरिज्ञानम् । अपरिज्ञात (परिज्ञात) तलक्षणत्वमेव "तेषां मा भूदिति चेत् ;कथमिदानी "यागाद्यङ्गत्वेन तेषां स्वर्गादिसुखादिभोगहेतुत्वम् , अतल्लक्षणानां" तदङ्गभावस्य कर्तुमशक्यत्वात् ? भोगहेतवश्वार्थाः परस्याप्यभिमताः । तत एवाह-'भोग
जन्मानः' इति । भोगस्य स्वर्गसुखादेर्जन्म येभ्यस्ते भोगजन्मानोऽर्था इति । ततो२० ऽश्वयम्भाविनि तेषां तल्लक्षणत्वे तत्परिज्ञाने च तदन्यथानुपपत्तिबलादेव स्वतः प्रत्यक्षमर्थज्ञानमभ्यु.
पगन्तव्यम् । अतश्च तत्तथाऽभ्युपगन्तव्यम्-न, यतः, अन्यथा तथा तदभ्युपगमाभावप्रकारेण धियो" बुद्धयः । बुद्धय एव कीदृश्यः ? प्रत्यक्षलक्षणाः। प्रत्यक्षस्य लक्षणं सत्सम्प्र. योगजत्वं तद्विद्यते आसामिति तल्लक्षणाः, मत्त्वर्थीयाकारप्रत्यये सति एवंरूपत्वात् , प्रत्यक्षबुद्धय
इति यावत् । कुतस्ता न भवन्तीति चेत् ? प्रमाणाभावात् । यद्यपि न प्रत्यक्षं तत्र प्रमाण२५ [मनुमान] मस्त्येवेति चेत् ; न ; तस्य 'विषयेन्द्रिय'इत्यादिना निषेधात् । मा भूवन तर्हि
तद्धिय इति चेत् ; न ; तासामर्थपरिच्छेदरूपं भोगं प्रति हेतुत्वविरोधात् , असतीनां गगनकुसुमस्रजामिव तदयोगात् , तद्धेतवश्च ताः । तदाह-'भोगजन्मानः' इति । व्याख्यातमेतत् ।
प्रत्यक्षलक्षणत्वम् । २ नीलधवलादीनाम् । ३ प्रत्यक्षलक्षणत्वस्य । ४ प्रत्यक्षलक्षणत्वात् । ५ ज्ञानधर्मत्वे । ६ ज्ञानधर्मेण प्रत्यक्षलक्षणत्वेनापि अर्थस्य अपरप्रत्यक्षलक्षणत्वकरणादिति चेत् ।। . अपरप्रत्यक्षलक्षणत्वे. नापि । ८ तत्परमार्थज्ञा-आ.,ब०,५०,स०। ९ प्रत्यक्षलक्षणत्वपरिज्ञानम् । १० अर्थज्ञानेनापि । ११ अर्थाकृत. स्वेन । १२ अर्थकृतत्वात् । १३ अतत्कृतत्वेन रूपेण । १४ अर्थज्ञानेन । १५ अर्थस्य । १६ तस्कृतपरि-आ०,०, प०, स०।१७ अपरिज्ञानं त-मा०,०,५०, स.। १८ अर्थानाम् । १९ योगाद्य-मा०, २०, ५०,स। २. प्रत्यक्षलक्षणत्वशन्यानाम् । २१-यो बुद्धय एव ता० । २२ न्यायवि० श्लो. १६।