________________
२०५
१०
प्रथमः प्रत्यक्षप्रस्ताव भांग: लयं यदि परितोपागात्मा तदा तेनैव तदपरपरितोपाद्यकरणेऽपि प्रत्यक्षभोगप्रतिपत्तिमत इवानुमानभोगप्रतिपनिमतोऽपि परितोपादिमत्वोपपत्तेः कथन्न कस्यचिद्भोगेन तदपरस्यापि 'भोगवत्त्वं भतेन ? परितोपाद्यात्मत्वमपि तस्यादृष्टशक्तितः कन्चिदेव नापरं प्रतीति चेत् ; कुत पतन ? केनचिदेव तस्य तद्रूपेण प्रतिपत्तेरिति चेत् ; न ; परेणापि तस्य तद्रूपेणैव प्रतिपत्तेः। रूपान्तरेण प्रतिपत्तिस्तु न तत्प्रतिपत्तिः अतिप्रसङ्गात् । रूपान्तरमपि तस्मादभिन्नमे. ५ वेति चेत् ; व्याहतमेतत्-'तदन्तरञ्च तदभिन्नं च' इति । “भेदैकान्तानुपाश्रयाददोषश्चेत् ; एवमपि तत्प्रतिपत्तौ यदि न परितोषादिप्रतिपत्तिः, अप्रतिपन्न एव परसुखादिर्भवेत् परितोषादिनैव तस्य सुखादित्वोपपत्तेः, अन्यथा सत्त्वादिमात्रेणापि तत्त्वप्रसङ्गात् । तदात्मना तत्प्रतिपत्तौ तु कथन्न परोऽपि परितोषादिमान् यतः कस्यचिद्भोगेन परोऽपि तद्वान्न भवेत् ? तन्न स्वयं परितोषाद्यात्मत्वे भोगस्य प्रत्यात्मं तत्प्रतिनियमः।।
___ स्वयं तदनात्मकत्वे तु कथं तस्य भोगत्वम् ? परितोषादिकरणादिति चेत् ; न; स्रक्चन्दनादेरपि तत्त्वप्रसङ्गात् तेनापि तत्करणात् । अस्त्येवोपचारात्तस्यापि तत्त्वमिति चेत् ; उपचारत इति कुतः ? स्वयमपरितोषादिरूपत्वादिति चेत् ; न; तत एव सुखादेरप्युपचारत एव तत्त्वापत्तेः । न चैवम् ; तस्य स्वत एव भोगत्वेन सर्वप्राणभृतां प्रसिद्धत्वात् । एतदर्थञ्च 'भोगजन्मानः' इति वचनम् । “तस्योपचारभोगत्वे वा मुख्यो भोगो वक्तव्यः, तेने विना १५ उपचारस्यासम्भवात् । तत्कृतपरितोषादिमुख्य इति चेत् ; सोऽपि यद्यर्थान्तरज्ञान विषयतया कस्यचिद्भोगः, तदपरस्यापि स्यात, तेनापि तत्परिज्ञानाविशेषात् "तदविशेषेऽपि तस्य परितोषा. द्यात्मत्वम् अदृष्टवशात् कञ्चिदेव नापरं प्रतीति चेत् ; न; तत्रापि 'कुत एतत्' इत्याद्यनुबन्धादावृत्तिदोषस्यानवस्थितस्य प्रसङ्गात् । तन्न परतः सुखादीनां प्रत्यक्षत्वानुभवनमुपपन्नम्, "प्रत्यात्म तन्नियमाभावप्रसङ्गात् ।
अस्तु र्हि स्वत एव तेषां" तदनुभवनमिति चेत् ; अपरोक्षं तर्हि तद्वदनं वक्तव्यम्, अन्यथा "तदनन्तरत्वेन तेषामपि परोक्षत्वेन ततो हर्षाद्यनुदयप्रसङ्गात् । वक्ष्यति चैतत् 'सुख-दुःखादिसंवित्तेः' इत्यादिना । ततः सूक्तमिदम्-'सुखादिवेदनम् आत्मनि प्रत्यक्षम् अन्यथा सुखादीनामपि प्रत्यक्षत्वानुपपत्तेः' इति ।
पुनरप्यात्मनि ज्ञानस्य प्रत्यक्षत्वमुपपादयतीति-प्रत्यक्षमात्मनि ज्ञानम् । कुत एतत् ? २५ अर्थाः प्रत्यक्षलक्षणाः नान्यथा इति । अन्यथा ज्ञानस्यात्मनि स्वतः प्रत्यक्षत्वाभाव. प्रकारेण अर्था नीलधवलादयः प्रत्यक्षलक्षणाः प्रत्यक्षप्रमाणा न भवेयुः । यदि
२०
-गत्वं मा०, ब०, प., स.२ तस्यादृष्टदृष्टशक्तितः किञ्चिदेव भा०,०,१०,। ३ भोगस्य । १ परितोषादिरूपेण । ५ भेदैकान्तानपाश्र-आ०, ब०, ५०, स०। ६ सुखादित्व। . तदात्मकत्वे मा०,०, ५०स०। परितोषाचनात्मकत्वे । ८ भोगत्वम् । ९ सुखादेः १० सुखादेः । । मुख्येन । १२ तदपि विशेषेऽपि तस्यापरि-आ०,०,५०, स०। १३ सुखादेः । १४ प्रत्यात्म नि-आ०, ब०, ५०, स०।१५ सुखादीनाम् । १६ परोपज्ञानाऽभिन्नत्वेन । १७ न्यायवि० श्लो. १४।