________________
२०४
न्यायविनिश्चयविवरण
[१।१४ आत्मधर्मत्वतस्तस्य यद्यन्येनाप्रवेदनम् । अचेतनः कथन्नाम तद्धर्मो मृद्विकारवत् ।।५९३॥ तद्धर्मत्वेने वा मा भूत्तस्याध्यक्षेण वेदनम् । अनुमानेन तद्वित्तिः, परस्यापि कथन्न वः ।।५९४॥ ततोऽनुमानवेद्येन भोगेनैकस्य कस्यचित् । । तदन्यस्यापि भोगित्वं निर्विवादमुपस्थितम् ॥५९५॥ "सामान्यमनुमावेद्यं तच्चाहादाधनात्मकम् । नास्ति तत्ते भोगित्वं परस्येत्युपकल्पने ॥५९६॥ सामान्यं यदि तद्वस्तु हादाद्यात्मैव तन्न किम् ? । अवस्तु यदि ; तज्ज्ञानं प्रमाणमनुमा कथम् ? ॥५९७॥ विशेषाग्रहणे तच्च सामान्यं गृह्यते कथम् ? । न हविज्ञातखण्डादेर्गोत्वं शक्यप्रवेदनम् ॥५९८॥ विशेषग्रहणे सिद्धं भोगित्वमनुमावतः । विशेषस्यापि सामान्यरूपेण Jहणान्न चेत् ॥५९९॥ कथं तस्यान्यरूपेण ग्रहणम् ? यदि विभ्रमात् । विभ्रान्तस्य प्रमाणत्वमनुमानस्य तत्कथम् ? ॥६००॥ "तस्य सामान्यतादात्म्यात्तद्रूपेण प्रवेदने । प्रत्यक्षेणापि "तस्यास्तु तथैवे प्रतिवेदनम् ॥६०१॥ "अन्यथा "तेन "तद्वित्तौ भ्रान्तिः प्रत्यक्षमाश्रयेत् । तज्जगन्मान्यमानत्वगौरवक्षयकारिणी ॥६०२॥ प्रत्यक्षानुमयोरेवमभिन्ने विषयग्रहे।
भोगाध्यक्षीव भोगी स्यात्किन्न भोगानुमानकृत् १ ॥६०३॥
स्यान्मतम्-स्पष्टोपलम्भविषय एव भोगः परितोषादिनिबन्धनं तदुपलम्भश्च प्रत्यक्षत एव नानुमानात्, तस्य अस्पष्टप्रतिभासत्वात् । न चापरितोषादिकारिणा भोगेन भोगवत्त्वं तदनु२५ मानवतस्तदयमप्रसङ्ग इति; तन्न; अस्पष्टोपलम्भविषयस्यापि मनोज्ञादिरूपस्य परितोषादिकारि
त्वोपलम्भात्। अन्यभोगस्यात्मीयत्वेनाप्रतिपत्तेन तेन परितोषादिः' इत्यप्यनेन प्रतिविहितम् ; नवयुवतिवदनकमलकमनीयरूपादेरनात्मीयत्वेन दर्शनेऽपि परितोषाधुपलम्भात् । प्रतिपत्तिविषयोऽपि "कुतश्चिददृष्टशक्तिवशात् कश्चिद्भोगः कस्यचिदेव परितोषादिहेतुर्न तदपरस्येति चेत् ; उच्यते
20
भोगस्य । २-न मा वा भू-ता। आत्मधर्मस्खेन । ३ भोगेनकेन क-मा०,०,१०, स.। ४ भोगित्वे स्वीक्रियमाणे । ५ भोगत्वादिरूपम् । ६ अनुमानवेद्येन भोगसामान्येन । • ग्रहणं न चेत् भा०, ब०, प०,स016 भोगित्वं परस्य । ९विशेषस्य सामान्यरूपेण । १.विशेषस्य । "सामान्यरूपेण । १२विशेषस्य । ३ सामान्यरूपेण । सामान्यरूपेण । १५ प्रत्यक्षेण । विशेषज्ञाने। १० कुतश्चिदृष्ट-मा०,०,०,सा