________________
१/१४ ]
प्रथमः प्रत्यक्षगस्तायः
कारशिष्ट्यं न स्वतः शक्यनिर्णयम् ।
तत्रापि तद्विवेकः स्यात्तद्विदां वचनक्रमात् ॥ ५८१ ॥ नैवं भोगपुरात्रमाकाराच्छक्यवेदनम् । तथाप्रतीतिवैधुर्यादविगानपदं गतात् ॥ ५८२ | न चैकात्मसुखादीनां द्रष्टा कश्चिदिहापरः । यतस्तद्वचनात्तेषां पूर्वभावः प्रतीयताम् ||५८३|| तस्मादविदितो भोगः क्षणेऽपि यदि सम्भवेत् । सर्वदानतत्सत्त्वं दुर्निवारं प्रसज्यते ॥ ५८४ ॥ अग्निहोत्राद्यनुष्ठानं स्वर्ग भोगाय तदृथा । नित्यसिद्धे हि तद्भोगे किं निमित्तव्यपेक्षया ।। ५८५ ।। तदभिव्यक्तये तच्चेदनुष्ठानमभीप्सितम् । इन्द्रियज्ञानमध्येवं तद्धेतोर्व्यङ्ग्यमिष्यताम् ॥ ५८६ ॥ यत् 'बुद्धिजन्म प्रत्यक्षम् ' इति सूत्रस्थितिः कथम् ? जन्मश्रुतिर्यतो लोके नास्त्यभिव्यक्तिवाचिनी ॥५८७ ॥ तदपि व्यङ्ग्यमिचेत् सर्वकार्यं तथा भवेत् ।
ततः साङ्ख्यमतं तच्च यथास्थानं निषेत्स्यते ॥ ५८८ ॥ तस्मादप्रतिपन्नस्य न यथा सर्वकालता ।
"
२०३
भोगेनैकेन सर्वेषां भोगवत्त्वं तनुभृताम् । दुर्निवारप्रसङ्गं स्यादचिद्भोगविदां मते ॥ ५९० ॥ यो येन वेद्यते भोगो भोगी तेन स एव चेत् । अन्येन वेदने तस्य सोऽपि स्यात्तेन भोगवान् ।। ५९१ ॥ अन्येन तस्य वित्तवेन देहान्तर्गतत्वतः ।
देहान्तर्गत एवान्यः किन्न स्यात्तत्प्रवेदकः १ ॥ ५९२ ॥
भोगस्य क्षणकालत्वमपि नैवं प्रकल्प्यताम् ॥ ५८९ ॥
भवतु तर्हि संवित्तिसमय एव सुखादिरिति चेत ; तथापि कथं तस्याचिद्रूपत्वे भोगरूपत्वं मृद्विकारवत् ? अचेतनत्वेऽपि यथा किञ्चिन्नीलं धवलञ्च किञ्चित्, तथा किञ्चिदनु- २० ग्रहरूपं पीडारूपं किञ्चित् किमिति विरुद्धम्, यतोऽचेतनमपि भोगरूपं न भवतीति चेत् ? न सारमेतत् ; नीलादिवद्भोगस्यापि साधारणत्वप्रसङ्गात् । अचेतनं हि नीलादि देवदत्तमिव अन्यान् प्रत्यपि नीलाद्येव न पीतादीनामन्यतमम् एवमचेतनो भोगोऽपि किञ्चिदिव सर्वा - प्रत्यपि भोग एव स्यान्नाऽभोगः । तथा च
१०
१ सद्भवेत् ता । २ तन्न तत्स- भा०, ब०, प०, स० । ३ "सत्सम्प्रयोगे पुरुषस्येन्द्रियार्णा बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात् ।" - मी० सू० १|१|४ | ४ जन्मशब्दः ।
१५
२५
३०