________________
२०२ न्यायविनिश्चयविवरणे
[१।१४ तदयमत्र प्रयोगः-स्वात्मनि सुखादिसंवेदनं प्रत्यक्षम्, अन्यथा सुखादीनामपि प्रत्यक्ष. त्वानुपपत्तेः । तथा हि-सुखादयः प्रत्यक्षविषयतामनुभवन्तः स्वतः, अन्यतो वाऽनुभवेयुः ? अन्यत एवेति चेत् ; तदपि तद्वदनं नियतम् , अनियतं वा भवेत् ? नियतमेवेति चेत् ; कुत एतत् ? सुखादीनामवश्यसंवेद्यत्वात् , तदपि सत्त्वादिति चेत् ; न ; सर्वस्य सर्ववेदित्वापत्तेः, ५ विषयान्तरसञ्चाराभावप्रसङ्गाच-सुखादिवत्तद्विषयस्य संवेदनस्यापि सत्त्वेन अवश्यसंवेद्यत्वात् , तथा तत्संवेदनस्यापीत्यासंसारं तत्संवेदनप्रबन्धस्यैव प्रादुर्भावान विषयान्तरसञ्चारः संवेदनस्य स्यात् । सति विषयान्तरसन्निधाने भवत्येव तत्र तस्य सञ्चार इति चेत् ; न तर्हि सतोऽवश्यसंवेद्यत्वम् , तच्चरमसंवेदनस्य सत्त्वेऽपि तैदभावात् ।
अपि च, तत्संवेदनं यदि सुखादिमात्रात् ; न प्रत्यक्षं स्यात् इन्द्रियसम्प्रयोगजस्य तत्त्वात्। १० नाप्यनुमानादि ; लिङ्गादिनिरपेक्षत्वात् । अपि तु प्रमाणान्तरमेव सप्तमं भवेत् । भवत्विति चेत् ;
ननु तेनापि पश्चाद्भाविना तात्कालिकस्यैव सुखादेवेंदनं न पौर्वकालिकस्य । तत्र च दोपं वक्ष्यामः । तात्कालिक एव सुखादिर्न पौर्वकालिक इति चेत् ; न; सर्वथा समानकालत्वे सुखादितत्संवेदनयोर्युवतिनयनयोरिव हेतुफलभावाभावापत्तेः । तन्न सुखादिमात्रात्तत्प्रत्यक्षम् । यदि पुनस्त
न्मनःसम्प्रयोगजमेव तदिति मतम् ; तदपि न समीचीनम् ; तत्सम्प्रयोगस्यानियमेन तत्संवेदन१५ स्याप्यनियमापत्तेः । नियत एव तत्सम्प्रयोग इति चेत् ; न; बहिर्विषयेष्वेवमदर्शनात् । अन्त
विपयेष्वेवमेवेति चेत् ; न; सुखादिवत् तत्संवेदन-तत्संवेदनसंवेदनादिष्वपि तन्नियमेन तद्वेदनस्यापि नियमप्रसङ्गात् विषयान्तरसञ्चाराभावस्य तदवस्थत्वात् । तन्न तत्र नियतं किश्चित् वेदनम् ।
___अनियतमेव भवत्विति चेत् ; किं पुनरेवं कदाचित्सुखादेरसंवेदनमप्यस्ति ? तथा चेत् ; न; तस्य भोगरूपत्वाभावापत्ते, असंवेदने तदयोगात , भोगरूपश्च सुखादिः । अत एवाह२० 'भोगजन्मानः' इति । भोगो भुक्तिर्वेदनारूपः स एव जन्म प्रादुर्भावो येषां ते तथोक्ता इति । न च स्वतोऽन्यतश्चाऽवेदने तस्य भोगरूपत्वमुपपन्नमतिप्रसङ्गात् । तथा हि
अविज्ञातोऽपि भोगश्चत्सुखादिः परिकल्प्यते । सर्वदा सुखदुःखादिभोगाकान्तं जगद्भवेत् ॥५७७॥ संवित्तिसमये भोगसत्त्वस्य नियमो यदि । स्तम्भादेः संविदः पूर्वमपि सत्त्वं कथं भवेत् ? ॥५७८॥ इत्यचोद्यं पुराभावः तत्र यच्छक्यकल्पनः । आकारभेदनिर्णीतेर्वचनादपि तद्विदाम् ॥५७९ ।। प्रत्यमोऽयं पुराणो वा गृहस्तम्भादिरित्यलम् । जानन्त्येव तदाकारदर्शनादेव देहिनः ॥५८०॥
. अवश्यसंवेद्यस्वाभावात् । २ प्रत्यक्षत्वात् । ३ सुखादिसंवेदनम् । ४ मनःसम्प्रयोगः । ५-तेः संवेश्रा, ब०, ५०,०। ६ स्तम्भादौ । ७-ल्पना आ०,व०,५०, स०। ८ तद्विधाम् आ०, बा, प०, स.।