________________
२०१
१।१३]
प्रथमः प्रत्यक्षप्रस्ताव: ज्ञानेऽर्थापत्तिः अन्यथानुपपत्तिवले चान्यदिति । तथा च न तयोरन्यतरेणाप्यर्थज्ञानविषयं तद्बलमवगतं भवति, एकत्र प्रवृत्तेनान्यस्याऽपरिज्ञानात् । न चैकेनोभयापरिज्ञाने तद्तो विषयविषयिभावः शक्योऽवगन्तुम् ।
__ स्यादाकूतम्-अर्थापत्तितदन्यरूपतयोभयस्वभावमेकमेवेदं तदुभयविषयं नैकान्तभेदवत्तया प्रमाणद्वयं तदयमप्रसङ्ग इति ; तन्न ; तस्य सप्तमप्रमाणत्वप्रसङ्गात् प्रत्यक्षादिष्वनन्त - ५ वात् । भवतु तद्वलेऽपि तदर्थापत्तिरूपमेवेति चेत् ; न ; तत्प्रसूतिनिबन्धनस्य तद्बलान्तरस्याभावात् । भावे तत एवार्थज्ञानार्थापत्तेः प्राच्यस्य तद्वलस्य वैफल्यं स्यात् । भवत्विति चेत् ; विलुप्रस्तर्हि तदा लोकव्यवहारो विफलतावहारे प्रयोजनाभावात् । तद्बलान्तरेऽपि व्यवहारविलोपनादिरेवं वक्तव्यः-तत्रापि 'तञ्च नापरिझातमेव' इत्यादेः 'विलुप्रस्तर्हि तद्ध्यवहारः' इत्यादिपर्यन्तस्य सुखनिरूपणत्वात् । पुनरपि तद्लान्तरे सर्वोऽपि तत्प्रसङ्गो वक्तव्य १० इति नानवस्थातो मुक्तिः । तन्न परतस्तत्परिज्ञानम् ।
एतेन आत्मनस्तत्परिज्ञानमिति प्रत्युक्तम् । ततोऽपि तद्विषयप्रमाणपर्यायनिरपेक्षात् तदसम्भवात् , प्रमाणकल्पनस्यैव वैफल्यप्रसङ्गात् सकलप्रमाणविषयपरिज्ञानस्यात्मन एवोपपत्तेः। तत्पर्यायसापेक्षादेव तंतस्तत्परिज्ञानमिति चेत् ; न ; तस्यार्थज्ञानादन्यत्वे तदर्थापत्तिरूपत्वस्य तद्दोषस्य॑ च निवेदितत्वात् । अस्तु तर्हि ततोऽर्थज्ञानरूपादेव तत्परिज्ञानमिति चेत् ; न ; तस्य १५ स्वसंवेद्यत्वाभावे ततोऽपि तत्परिज्ञानासम्भवात् । यदि हि तत् परिज्ञातस्वरूपं भवति, भवत्येव ततः स्वविपयतदुलपरिज्ञानं नान्यथा । न हि 'मद्विपयमिदमन्यथानुपपत्तिबलम्' इति परि. ज्ञानम् अनात्मज्ञत्वे ततः सम्भवति । न चापरिज्ञातात ततोऽर्थापत्तिरर्थज्ञानस्येति स्वानुभवप्रत्यक्षवेद्यं तदङ्गीकर्तव्यम् , अन्यथा तस्यानुमानिकत्वायोगादिति सूक्तम्-'अध्यक्षम्' इत्यादि ।
तदयम् 'अन्यथानुपपन्नत्वम्'ईत्याद्यर्थस्य संग्रहः । स्वसंवेदनाभावे खल्वन्यथा- २० नुपपन्नत्वस्य दुरवबोधत्वमनेन प्रतिपाद्यते । तच्च 'अन्यथानुपपन्नत्वम्' इत्यादिनापि प्रतिपादितमेव-अन्यथानुपपन्नत्वम् असिद्धस्य स्वभावप्रत्यक्षावेद्यस्य सम्बन्धि तद्गमकत्वेन न सिद्धयति' इति तद्व्याख्यानभावात् । पुनरप्युक्तस्यैवार्थस्य सोपपत्तिक संग्रहमाह
आन्तरा भोगजन्मानो नार्थाः प्रत्यक्षलक्षणाः ॥१३॥ न धियो नान्यथेत्येते विकल्पा विनिपातिताः । इति ।
अन्तश्चेतसि भवा आन्तराः सुखादयस्ते प्रत्यक्षलक्षणाः प्रत्यक्षं लक्षणं प्रमाणं येषां ते तथोक्ताः । न इति तेषां तथात्वप्रतिषेधे । कथम् ? अन्यथा तत्संवेदनस्य स्वात्मन्यध्यक्षत्वाभावप्रकारेण । ....
२५
१ स्याद्वादिकृतम् । २ अर्थापत्युत्पत्ति । ३ अन्यथानुपपत्तिबलान्तरस्याभावात् । ४-नादिनिरूपणे च वक्तबाब०,५०,०। ५ आत्मनः अन्यथानुपपत्तिबलपरिज्ञानमिति । -स्य निवे-आ०,०,१०,०1 . आत्मनः । ८ परिज्ञातम् मा०, ब०, ५०, स० । १ न्यायवि० श्लो1 10 वेति मा०,ब०,१०,स०।