________________
२००
[ १।१२
तदेवं प्रासङ्गिकं प्रतिपाद्य 'परोक्ष' इत्यादिकस्यैवार्थम् ' अध्यक्षम्' इत्यादिभिः सङ्गृहीतुकामः प्रथमं परप्रसिद्धेनैव अर्थज्ञानानुमानेन अर्थज्ञानस्य स्वसंवेदनविषयतां
व्यवस्थापयन्नाह
२५
न्यायविनिश्चयविवरणे
अध्यक्षमात्मनि ज्ञानमपरत्रानुमानिकम् ॥ १२ ॥ नान्यथा विषयालोकव्यवहार बिलोपनः । इति ।
अध्यक्षं स्वानुभवप्रत्यक्षवेद्यत्वात् न प्रत्यक्षान्तरवेद्यत्वात् तस्य निराकरणात् । किं तत् ? ज्ञानं नीलादिवेदनम् । कस्मिन् ? आत्मनि । कीदृशे तस्मिन् ? अपरत्र अनर्थान्तरे स्वात्मनीति यावत् । कुत एतत् ? आनुमानिकम् इति । अनुमानमत्रार्थापत्तिरेव, " ज्ञाते त्वनुपानादवगच्छति” [ शावर भा० १।१५ ] इत्यत्र अर्थापत्तेरेवानुमानशब्दे - १० नाभिधानात् । अनुमानेन गृह्यत इत्यानुमानिकम् । हेतुपदं चैतत् । तदयमर्थः - स्वात्मनि स्वसंवेदनप्रत्यक्षम् अर्थज्ञानम्, आनुमानिकत्वादिति । किं पुनरानुमानिकत्वं स्वसंवेदनासावे न भवति ? न भवत्येव । तदाह - 'नान्यथा' इति । अन्यथा स्वसंवेदनाभावप्रकारेण आनुमानिकं स्वात्मनि ज्ञानं न भवतीति । एतदेव कुतः ? इत्यत्राह - 'विषय' इत्यादि । अत्रापि 'अन्यथा' इत्यनुवर्त्तयितव्यम्, अन्यथा अर्थज्ञानस्याध्यक्षत्वाभावप्रकारेण विषयः अन१५ म्यत्रभावः स चान्यथानुपपत्तिरेव तस्य आलोको दर्शनं स एव व्यवहारो व्यवसायरूपत्वात्, तस्य विलुप्तिर्विलोपस्तस्मात्तत इति । तथा हि- अर्थापत्तिस्तावदन्यथानुपपत्तिबलादेव । तच्च नापरिज्ञातमेव तत्प्रसूतिनिबन्धनम् अपरिज्ञातसमयस्यापि ततस्तत्प्रसूतिप्रसङ्गात्, तथा च निर्विवादं भवेत् । न हि अर्थापत्तित एवार्थज्ञानं प्रतिपद्यमानस्तत्र विप्रतिपत्तुमर्हति । प्रत्यक्षान्तरवेद्यमिति भवति चात्र विप्रतिपत्तिः - स्वानुभवप्रत्यक्षवेद्यमर्थज्ञानमिति जैनादेः,
२० वैशेषिकादेः, अर्थापत्तिवेद्यमिति च मीमांसकस्य तद्दर्शनात् ।
भवतु परिज्ञातादेव तेंदूलात्तत्प्रसूतिरिति चेत्; कुतस्तत्परिज्ञानम् ? - अर्थज्ञानादन्यत एव कुतश्चिदिति चेत्; तेनापि यद्यर्थज्ञानस्याऽपरिज्ञानं कथं तद्विषयस्य तद्बलस्य ततः परिज्ञानम् ? सर्वापरिज्ञानवतोऽपि कुतश्चित् सर्वविषयपुरुष विशेषज्ञानस्य परिज्ञानप्रसङ्गीत, तथा च दुर्भाषितमेतत्
"सर्वज्ञोऽयमिति ह्येवं तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ॥” [मी० श्लो० १।१।२, श्लो०१३४]इति। भवतु ततोऽर्थज्ञानस्यापि परिज्ञानमिति चेत्; अर्थापत्तिरूपं तत्र तदभ्युपगन्तव्यम्, अन्यतस्तत्परिज्ञानायोगात्, "अनुमानादवगच्छति" इति वचनात् । अभ्युपगम्यत एवेति चेत ; तदुबले तर्हि तत् किन्नाम प्रमाणम् ? अन्यदेव किमपीति चेत्; तर्हि प्राप्तमर्थ -
१ न्यायवि० इको० १० २ अनन्यत्राभावः आ०, ब०, प० । नाभ्यत्राभावः स० । ३ -तस्य यस्यापि आ०, ब०, प०, स० । ४ भवतु चात्र आ०, ब०, प०, स० । ५ अन्यथानुपपत्तिबलात् । ६ तद्बलेन तर्हि स॰ । अन्यथानुपपत्तिबले ।