________________
१९१
प्रथमः प्रत्यक्षप्रस्ताव "आत्मानुभूतं प्रत्यक्षं नानुभूतं परैर्यदि । आत्मानुभूतिः सा सिद्धा कुतो येनैवमुच्यते ॥ व्यक्तिहेत्वप्रसिद्धिः स्यान्न व्यक्तेर्व्यक्तमिच्छतः ।
व्यक्त्यसिद्धावपि व्यक्त यदि व्यक्तमिदं जगत् ॥"[प्र०वा० २।५४०.४१] इति चेत् ; न ; व्यवसायेष्वपि समानत्वात् । तेऽपि हि कथमव्यवसिता आत्मीयत्वेनाव- ५ गम्यन्ते ? तद्धेतवोऽनुभवादयस्तादृशा एव कथं तथावगम्यन्त इति चेत् ? माभूत्तथा तदवगमो न काचित् क्षतिः। कथं तैरर्थावसाय इति चेत् ? न; तदभावात् । कथं तथा व्यवहार इति चेत् ? न; तस्य भाक्तत्वात् , बहिर्व्यवसायहेतुत्वेन तदुपपत्तेः । व्यवसायानां तु न भाक्तमर्थव्यवसायनिबन्धनत्वं तेषां तद्व्यवसायान्तरनिबन्धनत्वाभावादनवस्थापत्तेः । तस्मात् व्यवसायहेतूनामव्यवसायो न दोषाय न व्यवसायानाम् , तदव्यवसाये विषयाव्यवस्थितः, अन्यथा १० सर्वदा सर्वविषयव्यवसायापत्तेः । तदज्ञानमप्येवं ( तदत्राप्येवं ) वक्तव्यम्
आत्मनिश्चितमेव स्यानिश्चितं नान्यनिश्चितम् । यद्यात्मनिश्चयः सिद्धः कुतो येनैवमुच्यते ॥५७४॥ मा भून्निश्चयहेतूनां निश्चयस्तेन का क्षतिः । न बाह्यनिश्चयः सिद्ध्येन्निश्चयैरप्यनिश्चितैः ।।५७५।। अनिश्चयेऽपि तेषां चेदर्थो निश्चीयते परैः ।
तदा सर्वं जगत्प्राप्तं सुनिश्चयपथं गतम् ॥५७६॥ इति ।
प्रत्युक्तञ्च व्यवसायानां स्वतः परतश्च व्यवसायः । ततो मिथ्यैवेदं यत्-"अव्यवसितैरपि व्यवसायैर्बाह्य व्यवसीयते"[ ] इति । तदाह-'मिथ्याविकल्पकस्यैतत्' इति । न विद्यते विकल्पनं विकल्पो व्यवसायो यस्य तत् अविकल्पं तश्च तत् कं च ज्ञानं २० तस्य कार्यत्वेन सम्बन्धि । किं तत् ? एतत् । बाह्यं व्यवसितमिति । अस्यैव परचेतसि स्थितत्वेनैतच्छब्देन परामर्शात् । तत्किम् ? मिथ्या, न सम्यक् । अन्यथा 'अव्यक्तेनाप्यनुभवेन बाह्यं व्यक्तम्' इत्यपि न मिथ्या स्यात् । ततः किम् ? इत्यत्राह-'व्यक्तम्' इत्यादि । 'एतत्' इत्यत्रापि सम्बन्धनीयम् । एतत् परेणोच्यमानं "व्यक्त्यसिद्धावपि व्यक्तं यदि व्यक्तमिदं जगत्" इति तत् व्यक्तं स्पष्टम् आत्मविडम्बनम् आत्मतिरस्करणम् , अदोषे २५ दोषोद्भावनात् । ततो न सौगतस्य दूषणवचनसामर्थ्यम् असदूषणवादित्वात् । तत्कथं तदुपजीवनं स्याद्वादिन इति कारिकाखण्डस्य तात्पर्यम् ।
१"ननु चक्षुरादावननुभूते चक्षुरादिना रूपाद्यनुभूतमिति यथा तथा ज्ञानाननुभवेऽप्यर्थो ज्ञात इति भविष्यतीत्याह-अर्थव्यक्तिहेतोश्चक्षुरादेरर्थदर्शनेऽप्यप्रसिद्धिरव्यक्तिः स्यात् , यतो न कारणदर्शनपूर्वकं कार्यदर्शनम् । न तु व्यक्तरुपलब्धेः व्यक्त नमिच्छतो व्यक्त्यसिद्धियुक्का। यदि पुनर्व्यक्तरसिद्धावपि व्यक्तं वस्तूच्यते तदा सर्वमिदं जगत् व्यक्तं स्यात् , अव्यक्तव्यक्तिकत्वेन विशेषाभावात् ।"-प्र०वा०म० पृ. २०१। २ अननुभूताः । ३ आत्मीयस्वेन । ४ अनुभवादिभिः । ५ व्यवहारहेतू-आ०,ब०,०,स० । अनुभवादीनाम् । ६ तत्किं आ०,०,१०,स।