________________
न्यायविनिश्चयविवरणे
[ १।१२
स्मरणमिति चेत्; न; 'निश्चिते' तस्मिन् तदनुस्मरणम्, तदनुस्मरणे च तद्योजनया न्निश्चयः ' इति परस्पराश्रयस्य सुव्यक्तत्वात् । ततः स्वहेतुसामर्थ्यादेव क्षयोपशमविशेषलक्षणात् संशयादिव्यवच्छेदस्वभावतैयोत्पत्तेः व्यवसायानां तत्त्वमवतिष्ठते नान्यथा । तथा च देवस्यान्यत्र वचनम् - " व्यवसायात्मकं ज्ञानं प्रत्यक्षं स्वत एव नः । अभिधानाद्यपेक्षायां भवेदन्योऽन्यसंश्रयः || ” [ ततो यदुक्तम्
] इति ।
"रूपं रूपमितीक्षेत तद्भियं किमितीक्षते ।
" तस्या
"
अस्ति चानुभवस्तस्याः सँविकल्पः कथं भवेत् ॥” [ प्र०वा० २।१७७]इति ; तत्प्रतिविहितम् ; अभिजल्पसम्बन्धेन हि व्यवसाये रूपव्यवसायसमये तद्बुद्धिव्यवसायो न १० भवेत्, युगपदभिजल्पद्वयसम्बन्धाप्रतिवेदनात् । अस्ति च तदापि तदनुभवः, स च कथं व्यवसायात्मकप्रत्यक्षवादिनइति भवत्ययं पर्यनुयोगः । न चैवम्, अन्यथैव व्यवसायस्य व्यवस्थापनात् । ततो व्यवसायात्मकमेव व्यवसायानां स्वसंवेदनम् । तच्च न " परस्य प्रत्यक्षम् ; व्यवसायस्वभावतयाऽभ्युपगमात् । नाप्यनुमानम् ; साध्यादर्थान्तरस्यानुमानत्वात्, स्वसंवेदनस्य च व्यवसायेभ्यो भेदाभावात् । नाप्यन्यत्प्रमाणम् ; प्रमाणद्वयनियमव्याघातात् । न चाप्रमाणम् ; १५ अप्रमाणाद्व्यवसायसिद्धेरयोगात् प्रमाणचिन्ता वैफल्यापत्तेः । " अतो वरमस्वसंवेदनमेव व्यवसायानाम् । न चेदमपि शोभनम् अव्यवसितैर्व्यवसायैरर्थव्यवसायायोगात, अन्यथा अपरिच्छिन्नैरपि ज्ञानैरर्थ परिच्छित्तिप्रसङ्गात् । नन्वेवं सन्तानान्तरज्ञानैरर्थ परिच्छित्तिः किन्न भवि अपरिच्छिन्नत्वाविशेषात्, तथा च प्रतिसन्तानं निष्फलमेव ज्ञानभेदकल्पनम्, एकसन्तानज्ञान - रेव सर्वेषां बहिरर्थपरिच्छेदोपपत्तेरिति चेत्; व्यवसि तिरप्यर्थानामन्यसन्तानव्यवसायैः कस्मान्न २० भवति अव्यवसितत्वाविशेषात् ? तथा च प्रतिसन्तानं तद्भेदकल्पनमपि निष्फलमेव, एकसन्तानव्यवसायैरेव सर्वेषां बाह्यव्यवसायोपपत्तेः । अव्यवसितैरपि स्वव्यवसायैरेव स्वयमर्थावसायो न परव्यवसायैरिति चेत्; न; 'अननुभूतैरपि स्वानुभवैरेव स्वयमर्थानुभवो न परानुभवैः' इत्यपि प्रसङ्गात् । अननुभूतानां तेषां स्वानुभवत्वमेव कुतोऽवगतं येनैवमुच्यते ? " तादृशानामिन्द्रियाणां कथमात्मीयत्वमगम्यत इति चेत् ? मा भूत्तदवगमः, न काचित्क्षति: ? २५ कथं "तैरर्थावगमइति चेत् ? न; तदभावात् । कथं तथा व्यवहार इति चेत् ? न; तस्य भाक्तत्वात्, रूपादिविषयानुभवहेतुत्वेन तदुपपत्तेः । अनुभवस्य तु न भाक्तमर्थप्रतिपत्तिनिबन्धनत्वम्, तस्यानुभवान्तरनिमित्तत्वाभावादनवस्थापत्तेः । तस्मादनुभवहेतू नामप्रसिद्धिर्न दोषाय नानुभवानाम्, तदप्रसिद्धौ विषयाप्रसिद्धेः, अन्यथा सर्वदा सर्वविषयप्रसिद्धिप्रसङ्गात् । तदुक्तम्
1
१९८
१- तेऽस्मिन् आ०, ब०, प०, स० । २ शब्दानुस्मरणम् । ३ शब्दयोजनया । ४ अर्थनिश्चयः । ५- तयोपज्ञायते व्य-आ०, ब०, प०, स० । ६ सोऽविकल्पः आ०, ब०, प०, स० प्र०वा० । ७ रूपव्यवसायकाले रूपबुद्ध्यनुभवः । ८ कथमव्यवसा - भा०, ब०, प०, स० ९ - यस्यैव व्यव-आ०, ब०, प०, स० । १० बौद्धस्य । ११ प्रत्यचस्य । १२ अतोsपरमस्व - भा०, ब०, प०, स० १३ व्यवसायभेद । १४ अननुभूतानाम् । १५ इन्द्रियैः । १६ चक्षुषा पश्यामीत्यादिव्यवहारः । १७ इन्द्रियाणाम् ।