________________
१२१२] प्रथमः प्रत्यक्षप्रस्ताव:
१९७ अन्यथा ततोऽर्थव्यवसायस्य तत्स्मरणस्य चासम्भवात् । स्वसंवेदनवेद्यत्वात्तस्य ततोऽर्थव्यवसाय[:] स्मरणश्च तस्य, न व्यवसायान्तरवेद्यत्वादिति चेत् ; कीदृशं तत्स्वसंवेदनम् ? अव्यवसायस्वभावमिति चेत् ; न तर्हि व्यवसायस्य तत् स्वसंवेदनं तस्याव्यवसायस्वभावाभावात् । व्यवसायस्वभावमेव हि संवेदनं तत्स्वसंवेदनं न तद्विपरीतम् , अन्यथा सुखस्वभावमपि स्वसंवेदनं दुःखस्वसंवेदनं भवेत् । सुखदुःखयोर्भेदान्नेति चेत् ; न ; व्यवसायेतरयोरपि तदविशेषात् । माभूतत्तस्य स्व- ५ संवेदनम् अन्यदेवास्त्विति चेत् ; तदपि यद्यव्यवसायस्वभावम् ; स एव प्रसङ्ग:-'न तर्हि' इत्यादिः । पुनरपि तथाविधस्वसंवेदनकल्पनायामनवस्था । व्यवसायस्यैव कथञ्चिदव्यवसाय. स्वभाव इति चेत् ; भवत्वेवम् , तथापि तस्याव्यवसायस्वभावेनैव बहिर्विषयत्वं तेनैव प्रतिपन्नत्वान्नापरेण विपर्ययात् । को दोष इति चेत् ? अर्थव्यवसायाभाव एव । न ह्यव्यवसायस्वभावसंवेदनविषयतामुपगतस्य व्यवसितत्वं नॉम, अव्यवसितस्यैव कस्यचिदभावापत्तेः । १० तत्स्वभावमपि संवेदनमर्थव्यवसायमुपनयति व्यवसायस्वभावात् कथञ्चिदनन्तरत्वादिति चेत् ; स्वव्यवसायं किमेवं नोपनयति तदविशेषात् ? आत्मव्यवसायं प्रति तदनन्तरत्वमनङ्गमिति चेत् ; अर्थव्यवसायं प्रति कथमङ्गमिति न किञ्चिदेतत् ? तन्नाव्यवसायस्वभावं तत्स्वसंवेदनम् । , भवतु व्यवसायस्वभावमेव तदिति चेत् ; न ; अभिजल्पसंसर्गाभावात् । अभिजल्पसंसर्गे हि व्यवसायोऽवकल्प्यते । न च स्वरूपे तत्संसर्गोऽस्ति बहिर्व्यवसायाभावप्रसङ्गात्- १५ बहिर्व्यवसायोऽपि सत्येव "तत्संसर्गे भवति, साम्प्रतं यदि स्वरूपे संसर्गः न बहिः स्यात् , युगपदभिजल्पद्वयसम्बन्धस्याप्रतिवेदनादनभ्युपगमाञ्च । क्रमेणैकत्र ज्ञाने तद्वयसंसर्ग इति चेत् ; न ; एकस्य क्रमाभावात्" क्षणभङ्गवादव्यापत्तेः । नाभिजल्पसम्बन्धाद् व्यवसायानां "ताद्रूष्यं येनायं प्रसङ्गः, किन्तु संशयादिव्यवच्छेदस्वभावत्वात् । तदपि नाभिजल्पसम्बन्धात् , अपि "तु स्वहेतुविशेषात् तच्छक्तित्वेन तेषामुत्पत्तेः । तस्मात् स्वशक्तित एव स्वरूपाधिष्ठान. २० संशयादिव्यवच्छेदस्वभावत्वात् व्यवसायस्वभावमेव व्यवसायानां स्वसंवेदनमिति चेत् ; उपपन्नमेवैतत् एवमेव व्यवसायानां तत्त्वव्यवस्थितेः, अन्यथा तदसम्भवात् । तथा हि-नाभिजल्पस्याननुस्मृतस्य योजनम् , न चादृष्टे तद्विषये" - "तदनुस्मरणम् अतिप्रसङ्गात् । दृष्टेऽपि न चानिश्चिते"; क्षणभङ्गाद्यभिजल्पस्याप्यनुस्मरणापत्तेः, तथा च तदर्शनानन्तरमेव तदभिजल्पानुविद्धस्य “तद्व्यवसायस्योत्पत्तेर्नीलादिवत् , न "तत्रानुमानस्य साफल्यमुत्पश्यामः, "व्यवसिते २५ विपरीतारोपस्यानुत्पत्तेः तद्व्यवच्छेदस्याप्यसम्भवात् । निश्चित एव तर्हि तद्विषये तदभिजल्पा
. व्यवसायात् । २ व्यवसायस्य । ३-स्वभावात् व्य-आ०, ब०, ५०, स०। ५ तस्वसंवेदनान आ०, ब०,१०, स०। ५-भूत्तस्य प०,-स०। ६ अव्यवसायस्वभावेनैव ज्ञातत्वात् । ७ नाम व्यव-आ०, ब०, प०, स.। ८ अव्यवसायस्वभावमपि । ९ स्वस्य व्यव-आ०, ब०,५०,०। १० शब्दसंसर्गे।"-त् लक्षणभाव्या. मा०,०, प.स. १२ व्यवसायात्मकत्वम् । १३ तु विशेषात् आ०, ब०, प., स.11" शब्दविषये । १५ शब्दस्मरणम् । १६ शब्दस्मरणं भवतीति शेषः । १७ क्षणभङ्गदर्शनानन्तरमेव । १८ क्षणिकमिदमिति क्षण. भजविकल्पस्योत्पत्तेः । १९ क्षणभङ्गे सर्व क्षणिक सरवादित्यनुमानस्य । २० विपरीतारोपनिषेधार्थ मनुमानसाफल्यं स्यादित्याशङ्कायामाह।