________________
१९६
न्यायविनिश्चयविवरणे
[१२१२ विडम्बनं परोक्षज्ञानवादितिरस्कारेणात्मनः सौगतस्यापि तिरस्कारात् , तदभ्युपगतस्यापि संवेदनस्य 'वस्तुतः परोक्षत्वादिति मन्यते ।
___ यदि चायं निर्बन्धः नापरिज्ञातात् संवेदनादर्थदृष्टिर्भवतीति ; तर्हि कथमव्यवसिता. दपि व्यवसायादर्थव्यवसायः स्यात् ? व्यवसित एव व्यवसायो व्यवसायान्तरेणेति चेत् ; कुत ५ एतत् ? तस्य स्मरणादेव, न ह्यव्यवसितस्य स्मरणमतिप्रसङ्गादिति चेत् ; तर्हि व्यवसायस्यापि व्यवसायेन भवितव्यम् , तत्रापि स्मरणाविशेषादिति व्यवसायमालोपनीता स्यात् । अस्तु को दोष इति चेत् ? कुतस्तर्हि तन्मालाप्रसूतिः ? पूर्वपूर्वस्मात् व्यवसायादिति चेत् ; न; विषयान्तर. सञ्चाराभावप्रसङ्गात्-पूर्वपूर्वव्यवसायस्य स्वविषयापरापरव्यवसायजनन एवोपक्षीणस्य विषयान्त
रव्यवसायं प्रत्यव्यापारात् । न हि जनकत्वेन प्रावलक्षणप्राप्तं वसन्तानसम्बन्धित्वेनान्त१० रणच पूर्वपूर्वव्यवसायं परित्यज्योत्तरोत्तरव्यवसायस्य विषयान्तरव्यापारः सम्भवति । सम्भ.
वत्येवार्थसन्निधौ, अर्थो हि सन्निधो (धौ) व्यवसायस्य पूर्वव्यवसायग्रहणाभिमुख्यं प्रतिबद्ध्य स्वप्रहणाभिमुख्यमेवोपकल्पयतीति चेत् ; न तर्हि व्यवसायस्य व्यवसायः स्यात्, अर्थव्यवसायस्यैव प्राप्तः, तथा च व्यवसायस्य स्मृतिरेव.न स्यात, अव्यवसिते तँदनुपपत्तेः । प्रतिबन्धकस्यार्थ
स्यासन्निधाने भवत्येवेति चेत् ; न; असन्निहितार्थाया व्यवसायदशाया एवासम्भवात्। तथा च १५ निरवद्यप्रतिपत्तिरक्षाविधानविकलतयोत्सन्नमूला एव व्यवसायबुद्धयस्तद्विषयाश्च स्मृतय इत्युज्ज्वलं ताथागतदर्शनम् ! ततो यदुक्तम्ज्ञानस्य-"ज्ञानान्तरेणानुभवो भवेत्तत्रापि च स्मृतिः।
दृष्टा तद्वेदनं केन तस्याप्यन्येन चेदिमाम् ॥ मालां ज्ञानविदां कोऽयं जनयत्यनुबन्धिनीम् । पूर्वा धीः सैव चेन्न स्यात्सश्चारो विषयान्तरे ॥ तां ग्राह्यलक्षणप्राप्तामासन्नां जनिकां धियम् । अगृहीत्वोत्तरज्ञानं गृह्णीयादपरं कथम् १ ॥ बाह्यः सन्निहितोऽप्यर्थस्तां पिबन्धुं (पिबद्ध) नहि प्रभुः । धियं नानुभवेत्कश्चिदन्यथाऽथस्य सन्निधौ ॥ न चासन्निहितार्थास्ति दशा काचिदतो धियः ।
उत्सन्नमूलास्मृतिरप्युत्सन्नेत्युज्ज्वलं मतम् ॥" [प्र०वा० २।५१३-१८]इति; तत्प्रतिक्षिप्तम् ; स्वपक्षेऽप्यनिवारणात् ।
नन्वयं पक्ष एंवाऽसौगतानां यद्व्यवसायस्य व्यवसायान्तरेण व्यवसाय इति, तत्कथमेवमुपक्षेपः कृत इति चेत्न; स्वतस्तद्व्यवसायाभावेव्यवसायान्तरतस्तब्यवसायस्यावश्याभ्युपगमनीयत्वात,
, वस्तुनस्तत्परो-प० । वस्तुतत्परो-आ०, ब०, स०। २ परिज्ञानात्सं-मा०, ब०, ५०, स. ३ तम्मालोपस्मृतिः सः। तन्मालोलाप्रसूपस्मृतिः भा०, ब०, ५०। ४ स्मरणानुपपत्तेः। ५ चौमसमासमिहिमा०,०, ५०, स०।-त्पन्नमू-आ०, ब०, ५०, स.1 • मालाज्ञानविधा मा०,०प०स०।८ पूर्वादिः सै-मा०, २०, ५०,स०। ९-दन्यतोऽर्थ-आ०,०, प., स.। १. एव सौग-मा.ब.प., स.।