________________
१।१२] प्रथमः प्रत्यक्षप्रस्तावः
१९५ प्रतिबन्धस्यैव दुरवबोधत्वात्। तस्मात् मिथ्या वस्तुतो निर्विषयत्वादसत्यो विकल्पः "अदृष्टदृष्टयः” इत्यादिर्विचारो यस्य तस्य मिथ्याविकल्पकस्य सौगतस्य एतत् परोक्षज्ञानदोषोद्रावनं व्यक्तं परिस्फुटं यथा भवति तथा आत्मविडम्बनम् , आत्मतिरस्करणम् असाधनाङ्गवचनान्निग्रहावाप्तेः।
अपि च, अप्रत्यक्षज्ञानादर्थदृष्टेः प्रतिषेधो यदि 'तुच्छः कथं तत्र अनन्तरविकल्पस्य ५ प्रतिबन्धः तत्तादात्म्याभावात् , अन्यथा विकल्पस्यापि तुच्छतापत्तेः, तत्कार्यत्वाभावाच्च तत्प्रतिषेधस्य तुच्छत्वेनाहेतुत्वात् । प्रत्यक्षज्ञानादेर्थदृष्टिरेव पर्युदासवृत्त्या तैद्विपरीतात्तदृष्टिप्रतिषेध इति चेत् ; तदपि यथाप्रतिभासम् , यथाभ्युपगम वा स्यात् ? आद्येऽपि विकल्पे यदि तद्विषयाकारम् ; तर्हि परस्परविविक्तानेकनीलपीताद्याकारं तदेकमभ्युपगन्तव्यम्-“चित्रप्रतिभासेऽप्येकैव घुद्धिः"[प्र० वार्तिकाल० २।२२०] इति वचनात् । तच्चाक्रमवत् क्रमेणापि तथाविधत्वं न १० परित्यजति अशक्यविवेचनत्वस्य तत्रापि निरूपणादिति सम्भवक्रमाभ्यां सविकल्पकं तत्माप्त विविधानुविधानस्यैव "विकल्पलक्षणत्वात् , शब्दसंसर्गस्य तु तल्लक्षणस्य 'अभिलापतदंशानाम्'इत्यादौ” निषेधात् । अविषयाकारं चेत् ; न; तथाप्यनेकशक्तिकत्वस्याशक्यनिषेधत्वात् , अन्यथा युगपदनेकार्थप्राहकत्वानुपपत्तेः सञ्चितालम्बनत्वविरोधात् । "सम्भवानेकान्ताच्च "पर्यायानेकान्तस्य व्यवस्थानात् सिद्धं तथापि सम्भवक्रमाभ्यां सविकल्पकत्वम् । न च १५ "सविकल्पस्यार्थज्ञानत्वम् ; तस्यावस्तुविषयत्वेनाभ्युपगमात् , तत्कथं प्रत्यक्षात्तस्मादर्थदर्शनमेव तद्विपरीतात्तन्निषेधो यतस्तत्र विचारविकल्पस्य प्रतिबन्धः प्रत्यक्षस्य वा "ततः स्वसंवेदनसाधनं भवेत् ? तदाह-'मिथ्या इत्यादि । मिथ्या निर्विषयो विकल्प एकमनेकाकारमेकमनेकशक्तिकं वा ज्ञानं यस्य तस्य सौगतस्य एतत् अर्थदर्शनान्यथानुपपत्त्या तद्विकल्पस्वसंवेदनसाधनं व्यक्तमात्मविडम्बनं विकल्पस्यानर्थविषयत्वेनार्थदर्शनलक्षणस्य हेतोरेवासिद्धत्वा- २० दिति भावः । तन्न यथाप्रतिभासं तत्प्रत्यक्षसंवेदनम् ।
तर्हि यथाभ्युपगमं तदस्त्विति चेत् ; न ; निरंशस्य 'तस्य साकारस्य निराकारस्य चाननुभवात् , विकल्पोपसंहारवेलायामपि चित्रावभासस्यैव तस्य प्रतिसंवेदनात् , तदुपसंहारव्युत्थाने तथैवानुस्मरणाच्च । ततस्तत्र व्योमकुसुमवत् स्वसंवेदनसाधनं प्रयासमात्रकमेव । 'तेदाह-'मिथ्या' इत्यादि । अविकल्पकस्य निरंशदर्शनस्य एतत् स्वसंवेदनसाधनं मिथ्या २५ न समीचीनं अनुपायत्वेनाशक्यत्वात् निरंशार्थदर्शनस्य तल्लिङ्गस्यासिद्धः, अतश्च व्यक्तमात्म
१ विकल्पत्वान्निर्विषयः । २-दर्थदृष्टेरेव आ०, ब०, प०, स०। ३ अप्रत्यक्षज्ञानात् अर्थदृष्टिप्रतिषेधः । ४ प्रत्यक्षज्ञानम् । ५ प्रत्यक्षज्ञानम् । ६. एकत्वम् । ७ "चित्राभासापि बुद्धिरेकैव बाह्यचित्रविलक्षणत्वात् , शक्यविवेचनं चित्रमनेकम् , अशक्यविवेचनाश्च बुद्धीलादयः।"-प्र. वार्तिकाल० २।२२०। ८ युगपत्कमाभ्याम् । ९ प्रत्यक्षज्ञानम् ।१. "विविधानुविधानस्य विकल्पनान्तरीयकत्वात्"-प्रमाणस पृ०९८ ११ न्यायवि०श्लो०६ । १२ युगपदनेकधर्मात्मकत्वात् । १३ क्रमेण अनेकपर्यायात्मकस्य । पर्यायोऽनेका-आ०,ब०,१०,स०। १४ तथा हि मा०, २०, ५०, स०। १५ सविकल्पकस्या-आ०,०,५०स०। १६ विचारात् । १७ तदस्तीति आ०, ब०, प०, स.। १८ प्रत्यक्षस्य । १९ तथाह मा०, ब०,५०, स० ।