________________
न्यायविनिश्चयविवरणे
[ ११ च्छेदात्स्वबुद्ध्यनुमानं पुरुषान्तरज्ञानकृतादपि 'ततस्तदनुमानप्रसङ्गात् । तस्य तदन्यथानुपपत्तिनियमानिश्चयान्नेति चेत् ; न; स्वबुद्धिकृतस्याप्यसिद्धस्य तदनिश्चयाविशेषादिति एतदेव वक्ति । 'अन्यथा' इत्यादिना निवेदनात् तत्कस्तवातिशयो दूषणाभिधाने परसामर्थ्यमुपजीवत इति ? तत्राह
मिथ्याविकल्पकस्यैतव्यक्तमात्मविडम्बनम् । इति ।
अत्रेदमैदम्पर्यम्-भवेदेवेदं भवत्सामर्थ्य यदि दूषणे भवतोऽधिकारः स्यात् । न चैवम् , अनुपायत्वात्। “दृष्टं (अदृष्ट) दृष्टयः" [प्र०वा० २।४६८] इत्यादिर्विकल्प एव तत्रोपायः, तेनास्वसंविदितज्ञानेऽर्थगोचरत्वनिषेधस्य दूपणस्यापादनादिति चेत् ; न ; तस्य निर्विषयत्वात् ,
"विकल्पोऽवस्तुनिर्भासात्" [ ] इत्यभिधानात् । न च तादृशात्कस्यचित्क्वचिदा१० पादनम् ; अतिप्रसङ्गात् ।।
अस्वसंविदितज्ञानादर्थदृष्टेनिषेधनम् । अवस्तुज्ञाद्विकल्पाच्चत् ; ततः कस्मान्न तद्विधिः ॥ ५६७ ॥ निषेध एव "तस्यास्ति प्रतिबन्धो विधौ न चेत् । सोऽपि तद्वै'यनिर्ज्ञानाभावे केनावगम्यताम् ?॥ ५६८ ॥ तस्मादेव न तज्ज्ञानं तस्य "स्वांशव्यवस्थितः । न विकल्पान्तरात्तस्याप्येतदोषानतिक्रमात ॥ ५६९ ॥ न चोभयापरिज्ञाने तत्सम्बन्धप्रवेदनम् । "द्विष्ठसम्बन्धसंवित्तिः” इत्यादिवचनक्षतेः ॥ ५७० ॥ सम्बन्धोऽपि यदि द्विष्ठो विकल्पस्येह गोचरः । तदवस्तुविनिर्भासप्रवाद[:]स्थितिमान् कथम् ? ॥ ५७१ ॥ सोऽपि तत्प्रतिबन्धाच्चेत्तब्यवस्थानिबन्धनम् । तस्यापि प्रतिबन्धस्य विकल्पादन्यतः स्थितौ ॥ ५७२ ॥ परापरविकल्पानामासंसारमुपस्थितेः ।
अनवस्थानदोषः स्यादलध्यस्त्रिदशैरपि ।। ५७३ ॥ ततो निराकृतमेतत्
"लिङ्गलिङ्गिधियोरेवं पारम्पर्येण वस्तुनि । प्रतिबन्धात्तदाभासशून्ययोरप्यवञ्चनम् ॥" [प्र०वा० २।८२ ] इति ,
१ अर्थपरिच्छेदात् । २-न्नैदिति भा०,व०प०,स०। ३ अस्वसंविदितस्य। ४ अन्यथानुपपत्तिनियमनिश्चयाभावाविशेषात् । ५ अत्रेदमेव तात्पर्यम् आ०,०,१०,स०। ६ दृढदृष्टयः आ०,ब०,५०,०। "अदृष्टदृष्टयोऽन्येन द्रष्टा दृष्टा न हि क्वचित् । = हि यस्माददृष्टा दृष्टिज्ञानं येषां तेऽर्थाः क्वचिदन्येन द्रष्ट्रा दृष्टा इति न, दृष्टा निश्चयविषयाः स्यु ।"-प्र. वा. म. २१४६८ । ७ विकल्पस्य । ८ निर्विषयविकल्पात् । ९ अर्थदृष्टिविधानम् ।।. विकल्पस्य । ११-यविज्ञाना-भा०, ब०,५०। १२ स्वांशे व्यवस्थिते आ०, ब०,५०, स.। १३"द्विष्ठसम्बन्धसवित्तिर्नेकरूपप्रवेदनात् । द्वयस्वरूपग्रहणे सति सम्बन्धवेदनम् ॥"-प्र. वार्तिकाल.११।