________________
२०११
प्रथमः प्रत्यक्ष प्रस्तावः
१९३
तत्प्रकाशस्यापि ज्ञानान्तरात्सिद्भावनवस्थानात् । तन्न सिद्धस्य तस्यान्यथानुपपत्तिपरिज्ञानम् । नाप्यसिद्धस्यैव; न ह्यप्रतिपन्ने धूमे तस्य पावकापेक्षं 'सुपरिज्ञानम् अन्यथाऽनुपपन्नत्वम् । तदेवाह - अन्यथानुपपन्नत्वमसिद्धस्य न सिद्ध्यति ॥ ११ ॥ इति ।
अन्यथा अर्थज्ञानाभावप्रकारेण अनुपपन्नत्वम् अघटनम् उक्तप्रकारेण असिद्धस्य विषयप्रकाशस्य न सिध्यति ।
अपि च, अर्थधर्मः सन् कथं बुद्धिमनुमापयति ? तत्कृतत्वादिति चेत्; सौ यथात्मनः कथं तथा तदवेदने तत्कृतत्ववेदनम् ? तस्या एव ततोऽनुमानादिति चेत्; एतदपि कुत: ? तथा संवेदनादिति चेत्; किं तत्संवेदनम् ? तदेवानुमानमिति चेत्; किं पुनस्तस्य स्वसंवेदनमस्ति ? न चेत्; कथं ततस्तथा संवेदनम् ? अप्रतिविदितादेव तस्मात्तस्य प्रतिनियत पुरुषबुद्धिगोचरत्वस्य दुरवबोधत्वात् । माभूत्तस्य स्वसंवेदनम्, अन्येन तु वेद्यमानं तथाविधमेव तद्वेद्यत १० इति चेत्; तस्यापि तथाविधतद्वेदनविषयत्वं कुतः ? तथा संवेदनादिति चेत्; किं तत्संवेदनं तदेव ? अन्यदिति चेत्; न; अत्रापि किं पुनस्तस्य' इत्यादेरनुबन्धात् अनवस्थानोत्तरस्य चक्र स्थापत्तेः । एतेन 'परस्य सा बुद्धिर्बुद्धिमात्रम्' इत्यपि प्रत्युक्तम् ; न्यायस्य समानत्वात् । तन्न बुद्धिकृतत्वमर्थ प्रकाशस्य ।
५
अहेतुकत्वे कथं सत्त्वमेव "तस्येति चेत्; न; अर्थहेतोरेव तदुपपत्तेः, यावदर्थभावि - १५ त्वं तस्य नीलत्वादिवत् । ततः कादाचित्कत्वं न स्यादिति चेत्; किं पुनस्तद्रहितोऽपि कदाचिदर्थोऽस्ति ? तथा चेत्; कुत एतत् ? तथादर्शनादिति चेत्; ननु तत्प्रकाश एव तद्दर्शनम्, तत्कथं 'स एवास्ति, स एव नास्ति' इत्युपपन्नं व्याघातात् ? चिरद्रष्टव्यान्तरालास्तित्वं प्रकाशरहितमेव पञ्चात्प्रत्यभिज्ञायत इति चेत्; प्रत्यभिज्ञायां यदि तन्न प्रकाशते कथं तस्यास्तद्विषयत्वम् अतिप्रसङ्गात् । प्रकाशते चेत्; कथं तस्य प्रकाशरहितत्वं व्याघातस्योक्तत्वात् ? प्रत्यभि - २० ज्ञायाः पूर्वमप्रकाशमेव तदस्तित्वमिति चेत्; न; तदपरिज्ञाने 'तदप्रकाशमन्यथा वा' इति दुरवबोधत्वात् । अर्थकारणात् भवतस्तत्प्रकाशस्यै कथन्न सर्वप्रतिपत्तृसाधारणत्वं नीलवदिति चेत्; न; ज्ञानात्परोक्षात् भावेऽपि समानत्वात्, अन्यथा "अज्ञानाधीनस्य नीलस्यापि तदभावप्रसङ्गात् । न चापरिज्ञातस्य तस्य कादाचित्कत्ववेदनम् । नापि परिज्ञातस्य ; अर्थज्ञानादन्यतश्च तत्परिज्ञानाभावस्य निवेदितत्वात् ।
1
तस्मात्परोक्षत्वे ज्ञानस्य तत्कृतो विषयपरिच्छेदोऽपि परोक्ष एव पुरुषान्तरज्ञानकृततत्परिच्छेदवदिति । एतदेव निवेदयति- 'परोक्ष' इत्यादिना । 'परोक्षवत्' इति । परं पुरुपान्तरज्ञानं तदुक्षस्तस्कृतो विषयपरिच्छेदस्तद्वदिति असिद्ध इति यावत् । न च ' तथाविधात्परि
१ स्वपरिज्ञा-आ०, ब०, प०, स० । २ प्रकाशनस्य आ०, ब०, प०, स० । ३ अर्थप्रकाशः । ४ बुद्धिः । ५ आत्मन इयं बुद्धिरित्यवेदने । ६ किन्न संवे- भा०, ब०, प०, स० । ७ तदा आ०, ब०, प०, स०।८ अन्यस्यापि । ९ किं पुनः संवे-आ०, ब०, प०, स० । १० - कस्योपपत्तेः आ०, ब०, प०, स० । ११ अर्थप्रकाशस्य । १२ अर्थ प्रकाशरहितोऽपि । १३ प्रत्यभिज्ञाया अन्तरालविषयत्वम् । १४ अर्थप्रकाशस्य । १५ जडाधीनस्य । १६ सर्वप्रतिपत्तृसाधारणत्वाभाव । १७ परपुरुषा - आ०, ब०, प०, स० । १८ तथाविधात्तत्परि-आ०, ब०, प०, स० ।
२५
२५