________________
१२२
न्यायविनिश्चयविवरण
[११११ ततो' ग्रहणमुपपन्नम् ; अतिप्रसङ्गात् । तन्न तत्प्रकाशस्य श्रमः । आत्मनः श्रम इति चेत् ; कस्तस्यापि श्रमः ? अर्थज्ञानतज्ज्ञानादिप्रबन्धप्रतिपत्तावभिरुचिवैकल्यमिति चेत् ; न ; तवैकल्येऽपि सामग्रीसद्भावे तत्प्रतिपत्तेरवश्यम्भावात् अशुचिप्रतिपत्तिवत् । तहि सामग्रीवैकल्यमेव तस्य श्रम इति चेत् ; ननु अर्थप्रकाश एव सामग्री, स च विद्यत एव, कथं तवैकल्यम् ? न ५ तन्मात्रमेव सामग्री येनैवम्, अपि त्वन्यथानुपपन्नतया तत्परिज्ञानमपि, न च तत्सर्वस्मिन्नपरापरे
तत्प्रकाशे विद्यते, त्रिचतुरादितत्प्रकाशं एव तद्भावात् तत्कथमनवस्थानमिति चेत् ? न तर्हि प्रथमस्याप्यर्थज्ञानस्य ग्रहणम् , तत्राप्यन्यथानुपपत्तिपरिज्ञानाभावस्य वक्ष्यमाणत्वात् । ततो न प्रतीक्ष्यमाणस्यापि ज्ञातज्ञानस्य कुतश्चित्सम्भवः । तदेवाह-'परोक्ष' इत्यादि । परोक्षज्ञानम्
आद्यमर्थज्ञानं तस्य विषयो विषयप्रकाशः तास्थ्यात्ताच्छद्योपपत्तेः । तेन परिच्छेदोपहणम् , १० परोक्षवत् परः पश्चाद्भाव्यक्षो बोधस्तस्येव तद्वदिति ।
आद्यस्याप्यर्थबोधस्य र्ग्रहणं नार्थदर्शनात् ।
अन्यथासम्भवाज्ञानादुत्तरज्ञानतानवत् ॥५६६॥ तन्न अर्थप्रकाशादेवार्थज्ञानं ग्रहणम् । अन्यथानुपपन्नतया परिज्ञातात् तंतस्तद्हणमिति चेत् ;
सिद्धस्य, असिद्धस्य वा "तस्य तत्परिज्ञानम् ? सिद्धस्येति चेत् ; कुतः सिद्धिः ? १५ स्वत इति चेत् ; ज्ञानधर्मस्य, अर्थधर्मस्य वा ? ज्ञानधर्मस्य चेत् ; न; ज्ञानस्यैव
खतस्सिद्धिप्रसङ्गात् तस्य तत्प्रकाशादव्यतिरेकात् , तथा च व्यथं तस्यान्यथानुपपत्तिपरिज्ञानम् , तस्य ज्ञानप्रतिपत्त्यर्थत्वात् , तस्याश्च स्वत एव सिद्धत्वात् । अन्यत एव तत्सिद्धिरिति चेत् ; तदपि कुतः सिद्धम् ? तत्कृतात्प्रकाशादिति चेत् ; न; तस्यापि तज्ज्ञानधर्मत्वे स्वतः सिद्धत्वे च"पूर्ववदोषात् , पुनरन्यतस्तत्सिद्धि कल्पनायामप्यनवस्थापत्तेः। तन्न ज्ञानधर्मस्य कुतश्चित्सिद्धिः। __अर्थधर्मस्यैवेति चेत् ; न; तस्यापि स्वतःसिद्धावर्थस्यापि तत एव सिद्धर्ज्ञानकल्पनावैफल्यम्। विज्ञानवादप्रत्युज्जीवनश्च , स्वसंविदिततत्प्रकाशानन्तरत्वे विषयस्य तज्ज्ञानत्वापत्तेनिर्विवादत्वात् । न च याज्ञिकस्य तदभ्युपगमः श्रेयान , बहिरर्थाभावे तन्निबन्धनस्य यागादेरभावप्रसङ्गात् । तन्न स्वतस्तत्सिद्धिः । नाप्यन्यतः; तदभावात् । अर्थज्ञानं तदस्तीति चेत् ; न; ततोऽर्थस्यैव सिद्धेः ।
"तसिद्धेरपि 'तत एव सिद्धिरिति चेत् ; न; तस्यार्थसिद्धिं प्रत्युपक्षीणस्य तत्सिद्धिं प्रत्यव्यापारात् । २५ व्यापारे चानवस्थानात् , अपरापरतत्सिद्धौ तस्यैवासंसारं व्यापारात् । मा भूदर्थज्ञानात्तत्सिद्धिः,
तदन्यत एव तद्भावादिति चेत् ; न; ततोऽप्यनर्थविषयात् तत्प्रकाशग्रहणायोगात् । अर्थविषयमेव तदिति चेत; कुतस्तदपि "ज्ञातम् ? तत्कृतादेवार्थप्रकाशादिति चेत् ; न; प्राक्तनाथज्ञानवदोषात् ,
१ अर्थप्रकाशात् । २-पत्तिर्हि वर्तिनी सा-आ०, ब०, स०।-पतिर्हि वर्मनि सा-प० । ३ श्रम इति चेन्नार्थ-आ०, ब०, ५०, स.। ४ अन्यथानुपपन्नतया परिज्ञानमपि । ५-शत एव आ०, ब०, ५०, सः।
प्रहणानार्थ-आ०,०,०,स०। ७ प्रबन्धवत् । ८ परिज्ञानात्-आ०, ब०, ५०, स०। ९ अर्थप्रकाशात् । १. अर्थप्रकाशस्य । 11 पूर्वदोषात् आ०, ब०, ५०, स. । १२ -यामव्यवस्था-सा०। १३ अर्थप्रकाशसिद्धिः । १५ अर्थप्रकाशसिद्धरपि । १५ अर्थज्ञानादेव । १६ अर्थप्रकाशसिद्धिं प्रति । १७ ज्ञानम् आ०, ब., स.।