________________
१११]
प्रथमः प्रत्यक्षप्रस्तावः
ज्ञानमात्रोन्मुखे तस्मिन् सम्बन्धग्रहनिर्मुखे । अर्थस्य ज्ञानमित्येष व्यवहारः क्षयं व्रजेत् ॥ ५६० ॥ अर्थाभिमुख्ये तस्यापि तत्कृतात्तत्प्रकाशनात् । तज्ज्ञानमपि लभ्येत तत्राप्येवं निरूपणे ॥ ५६१ ॥ अनवस्थानदोषोऽयमनिवार्यः प्रसज्यते । विषयान्तरसञ्चार निषेधक्षमविक्रमः || ५६२॥ ततज्ज्ञानावगाहिन्यः स्मृतयोऽप्यनवस्थिताः । प्राप्नुवन्ति तदन्यार्थस्मृति सञ्चारवारिकाः || ५६३॥ जानन् प्रवर्त्तकं वाक्यं स्मरस्तज्ज्ञानमप्ययम् ।
१९१
कथं तदर्थविद् विप्रस्तज्ज्ञानस्मृतिमान् कथम् १ || ५६४ ॥ येन तद्विषयं कुर्वन्ननुष्ठानमनाकुलम् ।
प्रत्यवायैर्विमुच्येत प्रेत्य चेह च याज्ञिकः || ५६५ ॥
स्यान्मतम् - सत्यम् अर्थाभिमुखस्यैव तस्यार्थज्ञानाभिमुख्यम् अनवगतेऽर्थे 'तस्येदं ज्ञानम्' इत्यवगमायोगात् प्रतियोगिनि पितरि ज्ञात एव ' तस्यायं पुत्रः' इति प्रतिपत्तिदर्शनात् । सम्बन्धग्रहणनिर्मुखतया ज्ञानमात्रस्य तेन ग्रहणे तु 'अर्थस्य ज्ञानम्' इति व्यवहारलोपप्रसङ्गात् । १५ तत्र यद्यपि तत्कृतात्तदर्थं प्रकाशनात्तद्विषयमपि ज्ञानम्, तत्कृतादपि ततस्तद्विषयं ज्ञानमित्यपरापरज्ञानोपकल्पनम्, तथापि नानवस्थानं यावच्छ्रममेव तदुपजननात्, उपजाते तु श्र तदभावात् । तत एव न स्मृतीनामप्यनवस्थानम् ; तासामप्युपजातज्ञानपरम्परामात्रपर्यवसायित्वे' परतः प्रवृत्तेरभावात् । तदुक्तम्
"घटादौ च गृहीतेऽर्थे यदि तावदनन्तरम् । अर्थापत्यावबुध्यन्ते विज्ञानानि पुनः पुनः ॥
93
यावच्छ्रमं ततः पश्चात्तावन्त्येव स्मरिष्यति ॥ " [मी ० इलो ० शून्य ० १९०] इति । ततः प्रवर्त्तकवाक्यरूपाद्विषयान्तरे तदर्थ लक्षणे सञ्चारसम्भवे कथन " तज्ज्ञानं कथं वा न " तज्ज्ञानस्मरणं यतस्तदनुष्ठानासम्भवात् प्रेत्य चेह च याज्ञिकस्य प्रत्यवायनिर्मुक्तिर्न भवेदिति; तदपि न समीचीनम् श्रमापरिज्ञानात् - 'कस्य श्रमः को वा श्रमः ?' इति । अर्थ प्रकाशस्यैव २५ श्रमः, अन्यथानुपपत्तिवैकल्यमेव च श्रम इति चेत्; न; प्रथमस्याप्यर्थज्ञानस्याग्रहणप्रसङ्गात् । न हि तस्याप्यर्थप्रकाशनादन्यतो ग्रहणम् । न चान्यथानुपपत्तिविकलादपरापरज्ञानवत्तस्यापि "
१ वेदवाक्यम् । २ वाक्यज्ञानम् । ३ वाक्यार्थवेत्ता । तदर्थविप्रस्तज्ज्ञानस्य स्मृतिमान् आ०, ब०, प०, स० । ४ यदि तदर्थत्वं नास्ति कथ मनुष्ठानकाले अर्थज्ञानस्मरणं स्यादिति भावः । ५ द्वितीयज्ञानस्य । ६ द्वितीयज्ञानेन । ७ द्वितीयज्ञानकृतात् । ८ प्रथमज्ञानस्य यो विषयः तद्विषयमपि ज्ञानम् । ९ तृतीयज्ञानकृतादपि । तत्कृतस्वादपि आ०, ब०, प०, स० । १० द्वितीयज्ञानस्य यो विषयः तद्विषयमपि ज्ञानम् । ११ - र्यवसितत्वेन आ०, ब०, प०, स० । १२ वाक्यार्थज्ञानम् । १३ वाक्यार्थ ज्ञानस्मरणम् । १४ - वैकल्यश्रममेव च श्रमः -आ०, ब०, स० ।-वैकल्यश्रमः प० । १५ प्रथमज्ञानस्यापि ।
२०