________________
१९०
न्यायविनिश्चय विवरणे
[ १११
स्मरणम् 'परिज्ञातो मया घट:' इत्यत्र विषय [ वत् ] विषयिणोऽपि प्रतिभासनात्, ततस्तदन्यथानुपपत्त्या अर्थज्ञानस्य परिज्ञानमवगम्यत इति चेत्; न; भ्रान्तस्य तस्यासत्यपि तत्परिज्ञाने सम्भवात्, कचिदज्ञातपूर्वेऽपि 'स' इति स्मरणविभ्रमस्योपलम्भात् । अभ्रान्तव स्मरणमिति चेत्; कुत एतत् ? सत्येव तत्परिज्ञाने भावादिति चेत ; सत्येवेति कुतः ? स्मरण५ स्याभ्रान्तत्वादिति चेत्; न; परस्पराश्रयात् - 'सिद्धेन तत्सेवेन तद्भ्रान्तत्वसिद्धिः, ततश्च तत्सस्वसिद्धिः' इति । अन्यत एव तत्सत्त्वसिद्धिरिति चेत्; न; स्मरणवैयर्थ्यापत्तेः ।
अपि च, अन्यदपि तद्विषयं यदि न भवेत् किं तस्य परिहीयेत ? स्वविषयप्रकाशनमिति चेत्; न; दत्तोत्तरत्वात् । स्मरणमेव तद्विषयं परिहीयते सत्येव तस्मिन् तदुपपत्तेरिति चेत्; न; ' भ्रान्तस्य तस्य' इत्यादेः पुनरनुबन्धात् अनवस्थावाहिनश्च ककस्यापत्तेः । अभ्रान्तत्वं १० स्मरणस्य निर्बाधत्वादवगम्यते न द्वितीयज्ञानभावात् ततोऽयमदोष इति चेत्; न; तन्निर्बाधत्वस्य स्वतो दुरवबोधत्वात् स्वसंवेदनवादप्रत्युज्जीवनापत्तेः । अन्यतस्तदवबोध इति चेत्; न; ततोऽपि भ्रान्तात्तद्योगात् । ' अभ्रान्तमेव तदिति चेत्; कुत एतत् ? सत्येव तं निर्बाधत्वे भावादिति चेत् ; सत्येवेति कुतः ? तस्याभ्रान्तत्वादिति चेत्; न; पूर्ववत्परस्पराश्रयदोषात् । न तद्दोष:, तन्निर्बाधत्वस्यान्यत एवावगमादिति चेत्; न; प्राच्यस्यान्यस्य वैयर्थ्यापत्तेः ।
अपि च, अन्यदपि द्वितीयं यदि भ्रान्तम्; कुतस्ततोऽपि तदवगमः अतिप्रसङ्गात् । अभ्रान्तमेव तदपीति चेत्; न; 'कुत एतत्' इत्यादेरावृत्त्या परिनिष्ठाशून्यस्य "परिभ्रमणस्योपनिपातात् । तदनेनार्थज्ञानस्यापि निर्बाधत्वं दुरवबोधमिति प्रतिपादितं प्रतिपत्तव्यं समानत्वान्न्यायस्य । तत इदमसम्भव्येव "लक्षणं ' वाधवर्जितं प्रमाणम्' इति । स्वसंवेदनवादिनां तु नायं दोषः, कस्यचित्क्वचिदद्भ्यासपाटवातिशयाधिष्ठानस्य देशकालनरान्तरापेक्षयापि निर्बाध - २० त्वस्य स्वत एवाध्यवसायात्, अन्यथा सकलप्रवृत्त्यादिव्यवहारविलोपपत्तेरिति निरूपितम्, निरूपयिष्यते च यथास्थानम् । ततो न स्मरणस्यापि परिहाणिः यतस्तद्बलेनार्थज्ञानस्य स्वज्ञानायान्यप्रतीक्षणमुपपाद्येत । अपि च
१५
२५
प्रतीक्ष्यमाणमप्यन्यत्तावता लभ्यते कथम् ।
* हि विप्रेच्छया लब्धिर्घृतपूरस्य दृश्यते ॥ ५५७ ॥ अर्थ प्रकाशतस्तच्चेदन्यथानुपपत्तिकात् । तस्यापि निर्मुखस्यार्थे तज्ज्ञानोन्मुखता कथम् ? ॥ ५५८ ॥ तत्स्वरूपे हि निर्ज्ञाते तस्येदं बुद्धिरुद्भवेत् ।
ज्ञात एव पितर्येष पुत्रस्तस्येति निर्णयात् ॥ ५५९ ॥
१ स्मरणस्य । २ तत्परिज्ञानसत्वेन । ३ प्रथमज्ञानस्य परिज्ञानसत्त्वसिद्धिः । ४ द्वितीयज्ञानम् । ५ प्रथमज्ञानविषयम् । ६ प्रथमज्ञानस्य । ७ - बोधनमिति आ०, ब०, प०, स० । ८ अभ्रान्तेरेव त-आ०, ब०, प०, स० । ९ पूर्वज्ञानस्य निर्बाधत्वे । १० पूर्वज्ञानस्य निर्बाधत्वावगमः । ११ चक्रक। १२ एतच्च विशेषणत्रयमुपाददानेन सूत्रकारेण कारणदोषबाधकरहितमगृहीतग्राहि ज्ञानं प्रमाणमिति प्रमाणलक्षणं सूचितम् ।" - शास्त्रदी० १।१।५ । १३ एव व्यवसा-आ०, ब०, प०, स० । १४ तर्हि वि-आ०, ब०, प०, स० ।