________________
२११९]
प्रथमः प्रत्यक्षप्रस्तावः
१८९
वस्यादोषात् । न तद्दोषः; यावच्छ्रममेव विचारज्ञानप्रबन्धोत्पत्तेः प्रत्युत्पन्ने तु श्रमे तत एव 'तद्विनिवृत्तेः, अभिरुचेस्तन्निवृत्तिवाञ्छया' वा 'तद्विच्छित्तेः । न ह्यनभिरुचितं विचारज्ञानं प्रबन्धु ( प्रबधु ) मर्हति । विषयान्तरसम्पर्काद्वा तवृत्तेः । दृश्यते हि कचिन्नीलज्ञानस्य प्रवर्त्तमानस्यापि पीतादिसन्निधावनवस्थानं पीतादिज्ञानस्यैव तदा प्रादुर्भावात् । तदुक्तम्
" यावच्छ्रमं च तद्बुद्धिस्तत्प्रबन्धे च सत्यपि ।
सैमाच्या (श्रमाद्रुच्या) न्यसम्पर्काद्विच्छेदो विषयेष्विव ॥” [ मी० श्लो ० शून्य ० १९३] इति चेत्; भवत्ययमनवस्थादोषस्य परिहारो न पुनः सकलसंवेदनस्वप्रकाशवैकल्या परिज्ञानदोषस्य, तस्य तदवस्थत्वात् । ततस्तमपि दोषं परिजिहीर्षता सुदूरमनुसृत्यापि विचार - ज्ञानं स्वपरप्रकाशरूपमुररीकर्त्तव्यम्, अन्यथा स्वगतपरोक्षतायास्तेनाप्रतिपत्तेः उक्तदोषापरिहारात् । एतदेव दर्शयितुमाह- 'परोक्ष' इत्यादि । परोक्षं स्त्रप्रकाशविकलं ज्ञानं जानातीति परोक्षज्ञाः १० मीमांसकस्य सम्बोधनमेतत् । विचिप्रत्यये सति एवंरूपसिद्धिः । विषयपरिच्छेदो विषयस्य सकलज्ञानपरोक्षतालक्षणस्य परिच्छेदो विचारः परिच्छिद्यतेऽनेनेति व्युत्पत्तेः, स न परोक्षवत् परोक्षश्चक्षुरादिः स्वप्रकाशवैकल्यात् तद्वन्न तत्समानो न भवति, स्वप्रकाशस्यापि तत्र भावादिति भावः । ततो यथा विचारज्ञानस्य स्वप्रकाशत्वमपि तथैव निर्बाधादनुभावात् तथार्थज्ञानस्यापि तदस्तु तदविशेषात् । तच्छतेरपि तत्र ततैं एव विचारज्ञार्नवदधिगमात् । ततो नेदं पर्या- १५ लोचितवचनम् -'प्रकाशकत्वम्' इत्यादि ।
ज्ञानस्य 'विषयवदात्मन्यपि व्यापारः तर्हि चक्षुरादे रूपादिवद्रसादावपि व्यापारः कुतो नेति चेत् ? ' तथैवेंऽदर्शनात्' इति ब्रूमः । तथा स्वरूपव्यापारस्यादर्शनम्, तद्दर्शनस्य निवेदितत्वात् । तत इदमपि तादृशमेव - 'सति प्रकाशकत्वे च' इत्यादि । तेन 'प्रकाशकत्वेऽपि ' इत्यादि पुनः अनुभवप्रत्यनीकत्वादेव प्रतिविद्दितम् ।
किं वा तदनवबोधे परिहीयते यतस्तदवबोधायान्यप्रतीक्षणम् ? अर्थप्रकाशनमेव, अपरिज्ञा (अपरज्ञा) नादप्यपरिज्ञातादर्थज्ञानप्रकाशना योगात्, " तदपि स्वप्रकाशनाय ज्ञानान्तरं प्रतीक्षेत । " तदपि तदपरं ज्ञानान्तरमित्यप्यरापरज्ञानप्रतीक्षायामेवासंसारं व्यापारान्न प्रथमज्ञानस्य प्रकाशनम्, "तदभावादर्थस्यापि न प्रकाशनमित्युपरतमिदानीं वेद्यवेदकभावेन, ततो दूरमनुसृत्यापि कस्यचिदपरिज्ञातस्यैव" स्वविषयप्रकाशकत्वे प्रथमज्ञानस्यापि तद्वत्तदुपपत्तेः व्यर्थमेतत्परिज्ञानार्थ - २५ मन्यप्रतीक्षणम् । “तन्न अर्थज्ञानापरिज्ञानेऽर्थप्रकाशनस्य " परिहाणिः । अर्थज्ञानस्मरणस्य ि परिहाणिः, अपरिज्ञाते तस्मिन् तदयोगात् तस्य परिज्ञातविषयत्वात् । अस्ति च तज्ज्ञानस्य
१ तद्वचित्र-आ०, ब०, प०, स० । अनवस्थानिवृत्तेः । २ वाञ्छाया सा० । ३ अनवस्थाविच्छित्तेः । ४ अनवस्थाव्यावृत्तेः । ५ समाहृत्या - ०६ - शर्माप आ०, ब०, प०, स० । ७ निर्बाधानुभवादेव । ८ -ज्ञानदधि-आ०, ब०, स० । ज्ञानादधि प० । ९ विषयेवसदात्म-स० । विषयवशादात्म प० । विषयवसदात्मआ०, ब० । १० -ब दर्श-आ०, ब०, प०, स० । ११ अपर्यालोचितमेव । १२ स्वरूपानवबोधे । १३ द्वितीयज्ञानात् । १४ द्वितीयज्ञानमपि । १५ तृतीयं ज्ञानम् । १६ प्रथमज्ञानप्रकाशनाभावे । १७ - रिज्ञानस्यैव स० । १८ तज्ज्ञानार्थज्ञानापरिज्ञाने आ०, ब०, प०, स० । १९ परिहाणेः आ०, ब०, प०, स० । २० प्रथमशाने ।
२०
B