________________
१८८ न्यायविनिश्चयविवरण
[१११ तत्र कीदृशस्य तदाकारस्य संवित्तिर्न दृश्यते ? नीलादेव्यतिरिक्तस्येति चेत् ; न काचित क्षतिः अस्माकमपि तदनिष्टेः । व्यतिरिक्तस्येति चेत् ; न; नीलवदहमिति तदाकारस्यापि दर्शनात् । अहम्बुद्धावात्मन एव दर्शनं न नीलबेदनस्येति चेत् ; न; नीलग्रहणस्वभावस्यैव
तत्रं दर्शनात , अन्यथा नीलस्य कर्मत्वेन प्रतिभासविरोधात् । तद्वैहणस्वभावत्वमप्यात्मन ५ एवेति चेत् ; अनर्थकमेव तर्हि ज्ञानं तत्प्रयोजनस्य विषयपरिच्छेदस्यात्मन एव भावात्। ज्ञानस्य
तत्र करणत्वान्नानर्थकत्वमिति चेत् ; न ; कार्यस्यैव करणापेक्षणात् । न चात्मा कार्यम् ; तस्य नित्यत्वात् । अनित्य एव विषयपरिच्छेदपर्यायस्तस्येति चेत् ; न ; तत्रापि चक्षुरादेरेव प्रतीतस्य करणत्वोपपत्तेः । ततो दुर्भाषितमेतत् - "परोक्षात्मनो बुद्धिः"[ ] इति; बुद्धरेवाभावात् ।
तेत्पर्याय एव बुद्धिरिति चेत् ; न तर्हि तस्य परोक्षत्वम् अहम्बुद्धौ प्रत्यवभासनात् । तत्रापि १० न शक्तिरूपेण प्रतिभासनमिति चेत् ; अस्तु तस्यैवं परोक्षत्वं तत्पर्यायस्य तु कथम् ? तस्यापि
तदव्यतिरेकादिति चेत् ; न तर्हि नीलादेरपि प्रत्यक्षत्वं तच्छक्तिरूपात्तस्याप्यव्यतिरेकात् । प्रत्यक्ष. मेव तस्य तद्रूपमिति चेत् ; न ; तस्यातीन्द्रियत्वोपगमात् । अन्यथा “तत्र प्रत्यक्षतो ज्ञाताद्दाहादहनशक्तता" [ मी० श्लो० अर्था०३] इत्यादेरापत्तेफल्यात् । तथा चेमपि दुर्भाषित
मेवं-"प्रत्यक्षोऽर्थः" [ ] इति । ततो यथा परोक्षत्वेऽपि तद्रूपस्य प्रत्यक्षमेव १५ नीलादिकं तथैवानुभवात् , तथा तत्पर्यायोऽपि", तत्रापि तथाऽनुभवस्याविशेषात् । "कुतश्चेदं निश्चितम् 'सकलं ज्ञानं स्वप्रकाशविकलम्' इति ?
"व्यापृतं चार्थसंवित्तौ "नात्मानं ज्ञातुमर्हति । तेन प्रकाशकत्वेऽपि बोधायान्यत्प्रतीक्ष्यते ॥ "ईदृशं वा प्रकाशत्वं तस्यार्थानुभवात्मकम् । सति प्रकाशकत्वे च व्यवस्था दृश्यते यथा ॥ रूपादौ चक्षुरादीनां तथात्रापि भविष्यति ।
प्रकाशकत्वं बाह्येऽर्थे शक्त्यभावात्तु नात्मनि।" [मी० श्लो॰शून्य०१८४-८७] इत्यादेविचारादिति चेत् ; उच्यते-यद्ययं विचारः सकलज्ञानान्तःपातिनमात्मानमपि"स्वप्र
काशविकलमवैति; कथं सकलमपि ज्ञानं स्वप्रकाशविकलं विचारज्ञानस्य स्वप्रकाशप्रसिद्धः" ? २५ अथ नावैति; कथं सकलज्ञानानां स्वप्रकाशवैकल्यमवगतम् , विचारज्ञानस्य तदनवगमात् ?
तस्यापि विचारज्ञानान्तरात्तदवगम इति चेत् ; न; "तदन्तरस्याप्यपरतदन्तरात् तदवगमेऽन
१ अहम्बुद्धौ । २ नीलग्रहणस्वभावत्वमपि । ३ आत्मनः । ४ "तस्मादप्रत्यक्षा बुद्धिः"-शाबरभा०॥ १५। ५ आत्मपर्याय एव । ६ शक्तिरूपस्यैव । ७ नीलादेः । ८ शक्तिरूपम् । ९ 'आकारवान् बाह्योऽर्थः, सहि बहिर्देशसम्बद्धः प्रत्यक्षमुपलभ्यते ।"-शाबरभा०११.५। १० शक्तिरूपस्य । " आत्मपर्यायोऽपि । १२ कुतश्चिदनि-आ०,ब०,०स० १३ "ज्ञानं नात्मानमृच्छति'-मी. श्लो०।१४ "ईदृशं वा प्रकाशत्वं तस्यार्थानुभवात्मकम् । न चात्मानुभवोऽस्त्यस्येत्यात्मनो न प्रकाशकम्॥"-मी०३लो. १५ विचारस्वात्मानपि । १६ खात्मानं स्वप्रकाशविकलमनुभवतो विचारस्य स्वप्रकाशत्वमेवायातमिति भावः। १७ तदनन्तरस्या-आ०,०, १०, स.।