________________
१८७
प्रथमः प्रत्यक्षप्रस्तावः नीलज्ञानादन्यस्य तद्वेदनस्याननुभवात्, तस्य च प्रतिभासनाद्विवादानुपपत्तेः, अन्यथाऽर्थप्रतिभासेऽपि विवादात् न बहिर्नान्तः प्रतिभास इत्यन्धकल्पं जगद्भवेत् । तदाह
परोक्षज्ञानविषयपरिच्छेदः परोक्षवत् । इति ।
परोक्षं स्वप्रकाशविकलम् । ननु परोक्षमस्पष्टमिति प्रसिद्धं तत्कथं 'स्वप्रकाशविकलं तदुच्यते' इति चेत् ? न ; व्युत्पत्तिभेदेनार्थद्वयप्रतिपादनात् । अक्षमिति हीन्द्रियम्, तच्च ५ वैशद्यहेतु, आवरणविगमविशेषाधिष्ठानंजीवप्रदेश एवोच्यते तस्यैव मुख्यत इन्द्रियत्वात्, तत्प्रतिगतं प्रत्यक्षमिति स्पष्टप्रतिपत्तिः, तस्मात्परावृत्तमवैशद्यकारणावरणाधिष्ठानजीवप्रदेशोपनीतं परोक्षमित्यत्रास्पष्टप्रतिपत्तिः । यदा अक्षणम् अर्थवत्स्वरूपस्यापि ग्राहकत्वेन व्यापनम् अक्षः, तस्मात्परावृत्तं परोक्षमिति, तदा स्वप्रकाशवैकल्यप्रतिपत्तिः । अत्र च स्वसंवेदनाभावस्य प्रक्रमादयमेवार्थो गृह्यते नास्पष्टत्वं विपर्ययात् । ततः परोक्षं स्वप्रकाशविकलं ज्ञानं येषां ते परोक्ष-१० ज्ञाना याज्ञिकाः, तेषां विषयपरिच्छेदो परितः छेदो व्यावृत्तिर्यस्य सः परिच्छेदः, विषयश्वासौ परिच्छेदश्च विषयपरिच्छेदो ग्राह्यविशेष इत्यर्थः । परोक्षं विषयि तेन समानं वर्तते इति परोक्षवत् , सोऽपि परोक्ष एव भवति विवादाविशेषादिति भावः ।
लोकप्रसिद्धमप्येतज्ज्ञानानामात्मवेदनम् । याज्ञिकस्य विवादाच्चेन्न भवत्येव तत्त्वतः ॥५५०॥ अर्थवेदनमप्येवं न भवत्येव तादृशम् । तत्रापि विवदन्ते यत्प्रबुद्धा बुद्धशासने ॥५५१॥ अविज्ञाने च बाह्यस्य तद्विशेषैः कथं पुनः । यज्ञं कुर्वीत येनायं याज्ञिकः स्वर्गमाप्नुयात् ? ॥५५२॥ अज्ञातस्यैव यज्ञस्य करणं यदि कल्प्यते । व्यर्थिका धर्मजिज्ञासा किन्न स्यादिवादिनाम् ? ॥५५३॥ अपरिज्ञातमेवास्ति नापि तत्करणं कचित् । सर्वेषां यज्ञकारित्वमन्यथा स्यमदनाकुलम् ॥५५४॥ अर्थग्रहः प्रसिद्धोऽयमबलाबालकेष्वपि । विवादं विदधीतास्मिन्ननुन्मत्तो जनः कथम् ? ॥५५५॥ इत्यपि स्वगृहे तुल्यमुत्तरं निश्चयागतम् ।
तस्मात्स्ववेदनं सर्वज्ञानानामनुपद्रवम् ॥५५६॥ तथा च यदुक्तम्
"यदा तु ग्राह्यमाकारं नीलादि प्रतिपद्यते ।
न तदा ग्राहकाकारसंवित्तिदृश्यते क्वचित् ॥" [मी०श्लोशून्य०७४] इति । १० -त्वं पर्याया-मा०, व., स. । -त्वं पर्यया-प० । २ अपि ज्ञाने आ०, ब०, ५०, स.।