________________
१८६ न्यायविनिश्चयविवरण
[१।१० चरमपर्यायापेक्षमेवेति चेत् ; न; "न च प्रदीपादीनां तादवस्थ्यम् अपि तु परापरतैलोपादानजन्यमाना परापरैव प्रदीपज्वाला' [प्र. वार्तिकाल० ] इति तत्रैव तद्व्याख्यानस्य समर्थनात् । चरमपर्यायापेक्षायां परापरेत्यनुपपत्तेश्वरमविरोधात् । ततो दुरुत्तर एवायं शास्त्रविरोधः परस्येत्यलं तन्निर्बन्धेन । विवादस्तु विद्यत एव, तत्कथं सति तस्मिन् दर्शनादेव दीपादौ ५ क्षणभङ्गसिद्धिः अतिप्रसङ्गात् ? व्यवच्छिन्ने विवादे भवत्येवेति चेत् ; कुतस्तद्ध्यवच्छेदः ? यदीत्यादेविचारादिति चेत् ; न; कथञ्चिदक्षणिकत्वेऽपि प्रदीपादेरपरापरतैलादिना तत्रैवापरापरस्यातिशयस्योपकल्पनात् । न च तस्य तस्मादेकान्तेन भेदो यतः सम्बन्धाभावान्न तस्येति व्यपदिश्येत, तेनं वा तँदन्तरस्य करणेऽनवस्थानं भवेत् , अपि तु अभेद एव । सोऽपि नैकान्तिकः, येन
प्रदीपादिवत्तदतिशयस्यापि तदात्मनः प्रथमतैलादिसम्पातादेवोत्पत्तेरपरापरतत्सम्पातस्य वैयर्थ्यम, १० तदतिशयवद्वा प्रदीपादेरपि तदात्मत्वेनापरापरस्वभावत्वादैकान्तिकमनित्यत्वमापद्येत भेदाभेदयो
रनेकान्तेनाभ्यनुज्ञानात् । न चैतद्वचनमात्रम्; प्रत्यक्षेणैव भेदेतरात्मना प्रसिद्धत्वात् । न च तस्य तदात्मत्वमसिद्धम्; अनुभवसिद्धत्वात् । यदीत्यादिविचारस्याप्यन्यथानुपपत्तेः । निरूपितं चैतत् 'आत्मनाऽनेकरूपेण' "इत्यादौ । तन्न विचाराद्विवादव्यवच्छेदः तस्य तदनुकूलत्वात् । ततो न क्वचिदपि प्रत्यक्षानिर्विवादात् क्षणभङ्गसिद्धिः, यतो निर्द्रव्यः पर्याय एव बहिरर्थोऽ१५ वतिष्ठेत, सद्रव्यस्यैव तस्यावस्थानात्, तत्रैव प्रत्यक्षस्य निर्विवादत्वोपवर्णनात् । चरमक्षणेऽपि किमेवं नावतिष्ठत इति चेत् ? क एवमाह 'नावतिष्ठते' इति ? तर्हि कुतस्तदुत्तरक्षणे नोपलभ्यत इति चेत् ? अनुपलभ्यत्वेन परिणामादेवं । अविद्यमानत्वादेवानुपलभ्यत्वं किन्नेति चेत् ? न; चरमक्षणस्यावस्तुत्वप्रसङ्गात् अकार्यकारित्वात् । स्वविषयज्ञानकरणान्नैवमिति चेत् ; न; सजातीय
करण एव विजातीयकरणं नान्यथेति निवेदयिष्यमाणत्वात् । तन्न प्रत्यक्षं पराभिमतबहिर्विष२० यानुरूपं तस्यानेकान्तानुरूपस्यैवोपलम्भात् । नापि प्रमाणान्तरम; तस्याप्यनेकान्तनियतत्वेन
निवेदयिष्यमाणत्वात् । तथा चानेकान्तस्यैकान्तनिषेधात्मकत्वेन प्रमाणैः तद्विधेरेव "तनिषेधत्वो. पपत्तेरुपपन्नमेतत्
प्रतिज्ञातोऽन्यथाभावः प्रमाणैः प्रतिषिध्यते ॥१०॥ इति ।
तदेवं "व्याख्यातमिन्द्रियप्रत्यक्षं व्यवसायात्मकम् । तत एव च निदर्शनात् अनिन्द्रिय२५ प्रत्यक्षमपि स्वसंवेदनापरसज्ञकं व्यवसायात्मकमवगन्तव्यम् । तथा हि-व्यवसायात्मकं
स्वसंवेदनं प्रत्यक्षत्वात् इन्द्रियप्रत्यक्षवत् । न चेदमाश्रयासिद्धं साधनम् ; सर्वज्ञानानां स्वरूपवेदनस्यान्यनिरपेक्षप्रतिभासत्वेनालङ्घनार्हत्वात् । तत्प्रतिभासत्व एव विवाद इति चेत् ; न;
१ तमिबन्धेन आ०,०प०स०। २ यदित्या-आ०, २०, ५०, स० । 'यदि प्रथमसम्पातमात्रादुत्पन्न' इत्यादिविचारात् । ३ -रतैलादीनामौवा-प०:-रतैलादिनामत्रैवा-आ०,ब०,स०। ४ अतिशयस्य । ५ दीपादेः । १ अतिशयेन । ७ अतिशयान्तरस्य। ८ प्रदीपात्मनः। ९ अतिशयात्मकत्वेन । १० प्रत्यक्षस्य । ११ न्यायवि. इलो० ८। १२ “उक्तञ्च-सतो न नाशो दीपस्तमःपुद्गलभावतोऽस्ति"-ता. टि.। १३ -यकरणान्नान्यआ०, ब०, ५०, स० । १४ तनिषेधोप-आ०, ब०, ५०, स०। १५ व्याख्यानमि-आ०, ब०, ५०, स० ।