________________
१।१०]
प्रथमः प्रत्यक्षप्रस्तावः परिहारः प्रयोजनमिति चेत् : नन्वेवमनुद्भावनमेव न्याय्यम् , उद्भाव्यसमाधानस्य खात्वा समीकरणवत अबुद्धिमल्लोकव्यवहारत्वात् । तन्नायं स्वयमुद्भावितः, परेषामेव भावात् । यदि तत्रापि विवादः कथम् 'अलिङ्गम्' इत्युक्तम् ? विवादव्यवच्छेदस्य लिङ्गादेव भावात्, अन्यतस्तदभावस्यानन्तरमेव निवेदयिष्यमाणत्वात् , तस्मादलिङ्गवचनादविवाद एव दीपादौ तत्पर्यायः । तद्विवादोपदर्शनं तु शास्त्रविरुद्धमेव निबन्धनकारस्येति चेत् ; सत्यम् ; अस्त्ययं तस्य दोषः । ५ नास्ति दोषः, सत्यप्यलिङ्गत्वे विवादव्यवच्छेदस्य अन्यत एव भावादिति चेत् ; किं पुनस्तदन्यदन्यत्र प्रत्यक्षात् ? तदेवास्तु इति चेत् ; न; तदतद्विषयविकल्पानतिक्रमात् । तद्विषयादेवेति चेत् ; न; दीपादिवदन्यत्रापि प्रत्यक्षत एव तत्तद्विवादनिवृत्तेः अनुमानवैफल्यात् । अन्यत्र तेस्यैव विवादनिमित्तत्वान्न ततस्तद्व्यवच्छेद इति चेत्; कुतस्तस्य तन्निमित्तत्वम् ? समानाकारगोचरत्वादिति चेत्, न; दीपादावपि तदविशेषात् । समानाकाराभावान्नेति चेत् ; न; "केवलं तु १० सादृश्यात् समानसामग्रीतो वा स एवायमिति व्यवहारः" [प्र० वार्तिकाल. ] इति तत्सादृश्यानुवादिन्या अलङ्कारचूर्णेविरोधात् । तन्न तद्विषयादेव प्रत्यक्षात्तब्यवच्छेदः । तदन्यविषयात् ; इत्यप्यसङ्गतम् ; अतिप्रसङ्गात्-नीलप्रत्यक्षादेव लोहिते पीतव्यवच्छेदापत्तेः। तन्न प्रत्यक्षत्वे (क्षं) तदन्यन् । तर्हि तदुत्तरकालभावी विकल्प एव तदन्यः, तत एव तद्व्यवच्छेद इति चेत् ; न; ततोऽपि अप्रमाणात्तदयोगात् , अतिप्रसङ्गात् , प्रमाणसिद्धिप्रयासवैफल्याच्च । प्रमाण- १५ मेवासौ प्रत्यक्षत्वेनेति चेत्, न; उक्तोत्तरत्वात् । तृतीयप्रमाणत्वे च प्रमाणसङ्ख्यानियमव्यापत्तेः। ततः 'एकदा' इत्यादेविवादस्य यव्यवच्छेदकमुक्तम्
"यदि प्रथमसम्पातमात्रादुत्पन्न एव सः।
कालान्तरव्यापितया वृथा तैलाद्यतः परम् ।।" [प्र०वार्तिकाल० २।१०५] इति; तदपाकृतम् । तस्य प्रत्यक्षत्वे तद्बलभाविविकल्पत्वे च दोषस्योक्तत्वात् । अनुमानविकल्प एवायं २० विकल्पः कश्चिदिति चेत् ; ननु तद्विकल्पस्य लिङ्गायत्तत्वात् लिङ्गादेव तद्व्यवच्छेद इत्यायातम् , तथा च स एव "शास्त्रविरोधः, तत्रालिङ्गवचनेन विवादाभावस्य प्रतिपादनात् , निबन्धनकृता" तु विवादस्य लिङ्गतस्तव्यवच्छेदस्य चाभिधानात् ।।
स्यान्मतम्-अलिङ्गवचनानिर्विवादत्वं चरमसमय एव शास्त्राभिप्रेतं तत्र बालादेरप्यविवादस्यैव नाशदर्शनस्य भावात् । न च तत्रैव विवादः, लिङ्गसस्तव्यवच्छेदो वा निबन्धन कृता निरूप्यते, पूर्वपूर्वतत्पर्यायेष्वेव तन्निरूपणात् तत्रैव दर्शनस्य सादृश्यविषयत्वेन विवाद. निमित्तत्वात् , न चरमपर्याये तत्र तदुत्तस्पर्यायस्यानुत्पत्तेः, दर्शनस्य तत्सादृश्यविषयत्वाभावात् तत्कथं शास्त्रविरोध इति ? तन्न; 'नाशिनम्' इत्यस्य मध्यमपर्यायापेक्षयैव व्याख्यानात् "अतादवस्थ्यं विनाशोऽनित्यतेति च व्यपदिश्यते" [प्र. वार्तिकाल० ] इति । तदपि
१ खनित्वा । २ तदवभासनस्य आ०,ब०,५०,स०। ३ प्रज्ञाकरस्य । ४ तदेवास्तीति आ०,ब०,५०,स। ५ प्रत्यक्षस्यैव । ६ विवादनिमित्तत्वम् । ७ विवादव्यवच्छेदः । ८ विकल्पः । ९ "कालान्तरस्थायितया"-प्र.वार्तिकाह.। १. प्रमाणवार्तिक । ११ प्रज्ञाकरगुप्तेन अलङ्कारकृता ।
२४