________________
न्यायविनिश्चयविवरणे
[१३१० यदि च रूपस्पर्शात्मकमेकं द्रव्यं न भवेत् ; कथं भ्रान्तेतरस्वभावमेकं प्रतिसन्धानम् ? तदपि मा भूदिति चेत्, न; तस्यैकान्ततो विभ्रमे दर्शनादिविषयत्ववत् द्रव्यस्याप्यसिद्धेः । अविभ्रमे द्रव्यवत्तद्विषयत्वस्यापि परमार्थत एव सिद्धेर्निवेदितत्वात् ।
___ अपि च, यदि न संम्भवत्येव भ्रान्तेतरस्वभावमेकं संवेदनम् ; न तर्हि 'इह प्रामे ५ वृक्षाः' इत्यपि ज्ञानं सम्भवेत् । तद्धि प्रामादावव्यभिचारित्वेनाभ्रान्तं न इहभावे व्यभिचारात् । इहभावाभावे कथं तज्ज्ञानमिति चेत् ? न; अन्तरालादर्शनमात्रेण तद्भावात् । तथा च परस्य वचनम्"दूराद् ग्रामारामयोरन्तरालमपश्यताम् 'इह ग्रामे वृक्षाः' इति ज्ञानं दृष्टम्"[प्रश० व्यो० पृ० १०७] इति । मा भूत्तदपि ज्ञानमिति चेत् ; कथं तर्हि 'दृष्टम्' इत्युक्तम् ? कथं वा सम
वायलक्षणे तद्व्यवच्छेदार्थ सम्बन्धपदम् ? तदपि तदर्थ नेति चेत् ; न ; दृष्टञ्च भ्रान्तेह१० ज्ञानस्य व्यवच्छेदार्थ सम्बन्धपदम्" [प्रशव्यो०पृ० १०७] इत्यस्य विरोधात् ।
_ 'इहाकाशे शकुनिः' इत्यपि ज्ञानमेतेन व्याख्यातम् ; तस्यापि शकुनाकव्यभिचारित्वेनाभ्रान्तत्वेऽपि इहभावे भ्रान्तत्वात् । आकाशस्यातीन्द्रियत्वेन तत्र इहेति प्रत्यक्षप्रत्ययायोगात् । तथा च परस्य वचनम्-""अतीन्द्रियेऽप्याकाशे यत् ‘इह' इत्यपरोक्षज्ञानं तत्केवलं भ्रान्तम्"
[प्रश व्यो पृ० १०७]इति । मा भूत्तदपि ज्ञानमिति चेत् ; तर्हि कथम् "इहाकाशे शकुनि१५ रिति ज्ञानं दृष्टम्”[प्रश०व्योपृ० १०७] इत्युक्तम् ? कथं वा "तद्वयवच्छेदार्थम् आधार्या
धारग्रहणम्"[प्रशयो०पृ० १०७] इत्यभिहितम् ? तन्न भ्रान्तेतराकारज्ञानपरित्यागः परस्य श्रेयान् । तदपरित्यागे च यथा तदाकारयोः परस्परप्रत्यनीकत्वेऽपि कथञ्चिदविवेकस्तथा वर्णस्पर्शयोरपि इति तदविवेक एवावयवी नापर इति नासौ बँहिरर्थो नापि शुद्धावयवमात्रम् , न
च द्रव्यमेकान्तभिन्नं पर्यायेभ्यः; तस्य सर्वस्यापि 'प्रत्यक्षत एव निषेधात् तस्य तद्विरुद्धाव२० भासितत्वात् ।
भवतु तर्हि निर्द्रव्यः पर्याय एव बहिरर्थः। तस्य दीपादिनिदर्शनेन अन्यत्राप्यवगमात् । दीपादौ च निर्विवादं प्रत्यक्षेणैवाधिगमात् । निर्विवादो हि दीपादौ क्षणभङ्गी पर्यायः, प्रत्यक्षादेव बालाबलानामपि तत्र सम्प्रतिपत्तेः । धर्मकीर्तिनापि तदुपदर्शनार्थमेव
"तथा ह्यलिङ्गमावालमसंसृष्टोत्तरोदयम् ।
पश्यन्परिच्छिनत्त्येवं दीपादि नाशिनं जनः॥"[प्रश्वा०२।१०५] इत्यस्याभिधानादिति चेत् ; न; तत्रापि विवादाविशेषात् । कथमन्यथा "न चैकदैकतैलजनित एक एवासौ दीपज्वालाप्रतानः"[प्र०वार्तिकाल०] इति प्रज्ञाकरेण तस्योपदर्शनम् ? अविद्यमानस्य तदयोगात । स्वयमुद्भावितस्योपदर्शनमिति चेत् ; न; उद्भावनस्य प्रयोजनाभावात् ।
प्रतिसन्धानस्य । २ संभवतीत्येव भा०,०प०स०। ३ अन्तरालदर्श-आ०,०,५०,स018 "इष्टव भ्रान्तेह......"-प्रश०व्यो। ५ "अतीन्द्रियेऽप्याकाशे इहेति ज्ञानं केवलं भ्रान्तम्"-प्रश०व्यो। सदामा. ब०,५०,स०। ७ वर्णस्पर्शाद्यभेदः। ८ नैयायिकाभिमतः अवयवात् पृथग्भूतः। ९ बौद्धाभिमतः । १. प्रत्यक्ष एवं भा०,०,५०, स.11 नौलदीपा-आ०,०, प., स.।