________________
११० ]
प्रथमः प्रत्यक्ष प्रस्तावः
१८३
वस्य च तद्विशिष्टद्रव्यज्ञानान्यथानुपपत्त्यैवाधिगमात् । 'द्रव्येणासम्बद्धं दर्शनादि कथं तद्विशेषणमपि' इत्यपि वार्त्तम् ; 'संयुक्त' समवेतं वा विशेषणम्' इति नियमानभ्युपगमादिति चेत् ; न; गुणादीनां सम्बन्धाभावे विशेषणभावस्य स्वयमेव निराकरणात् । " नैतदेवम् ; गुणकर्मसामान्यानां समवेतानामेव विशेषणतोपलब्धेः " [ प्रश० व्यो०० ५०] इति वचनात् ।
स्यान्मतम् - प्रतिसन्धानसमये दर्शनादेरपक्रमादपक्रान्त एव तद्विषयभावः, केवलं तदु- ५ पजनित संस्काराभिव्यक्तिवशादविद्यमानस्यैव तस्य प्रतिभासनम्, तत्र च भ्रान्तमेव प्रतिसन्धानम्, शुद्ध एव द्रव्ये तदविभ्रमोपगमादिति । तत्रेदमुच्यते-र्तंगावाद् द्रव्यमविविक्तं चेत् ; तदपि तद्वदविद्यमानमेवेति न प्रतिसन्धानात्तत्सिद्धि:, तद्भावस्य च द्रव्यादविवेके तस्यापि द्व विद्यमानतैवेति कथं तत्र प्रतिसन्धानस्य भ्रान्तत्वम् ? अपरित्यक्तसदसत्स्वभावयोः परस्परमविवेकादयमप्रसङ्ग इति चेत्; न; रूपस्पर्शयोरप्यनुन्मुक्त तदात्मनोरेवान्योन्यमविविक्तत्वा- १० पत्तेः । नियतेन्द्रियग्राह्यत्वान्नेति चेत्; न; प्रोच्ययोरपि भेदप्रतिभासविषयत्वेन तद्भावानुषङ्गात् । यथैव हि नयनस्पर्शनाभ्यां रूपस्पर्शयोर्ग्रहणमेवं तद्भाव द्रव्ययोरपि भ्रान्तेतरप्रतिभासाभ्यामिति न विशेषं पश्यामः । तदुभयप्रतिभासात्मकमेकमेव तद्विज्ञानं तद्विषयत्वादविरुद्ध एव तयोरविवेक इति चेत्; न; नयनस्पर्शनोपज नितप्रतिभासभेदेऽपि तदात्मकस्य ज्ञानस्यैकत्वात् तद्विषयत्वेन रूपस्पर्शाविवेकस्याप्यविरोधोपपत्तेः । अस्तु को दोष इति चेत् ? न; तस्यैव द्रव्यत्वस्थापनात् । १५ विविक्तमेव तद्विषयभावाद् द्रव्यमिति चेत्; तस्यै यदि 'तथा प्रतिभासनं न तर्हि तद्भावप्रतिभासनम्, न हि पीतविविक्तशङ्खावभासने पीतावभासनमुपलब्धम् । तथा चोत्सन्न एव 'यमहम् ' इत्यादिरूपः प्रतिभासव्यवहारः स्यात् । नास्ति 'तैथा तस्यै प्रतिभासनमिति चेत्; न; द्रव्यरूपेणाप्यप्रतिभासनप्रसङ्गात् । सम्मूच्छित सत्प्रतिभासेतरस्वभावद्वयं तदेकमेव द्रव्यमिति चेत्; न; सम्मूर्च्छितरूपस्पर्शस्वभावद्वयस्यापि ” द्रव्यस्यैकस्याभ्युपगमप्रसङ्गात् । तथा च तदेवावयविद्रव्यं तस्यैव प्रतिसन्धाने प्रतिभासनात्, "अस्प्राक्षम्' इति तल्लीनस्य स्पर्शस्य 'पश्यामि' इति रूपस्य 'यं तम्' इति च तदविवेकस्वभावस्यावयविनस्तत्राध्यवसायात् नापरं विपर्ययात् । वक्ष्यति चैतत् -
२०
3
“स्पर्शोऽयं चाक्षुषत्वान्न न रूपं स्पर्शनग्रहात् ।
२५
रूपादीनि निरस्यान्यन्न चाप्युपलभेमहि ||" [ न्यायवि० श्लो०२८५] इति । ततो निराकृतमेतत् - "रूपस्पर्शयोश्च प्रतिनियतेन्द्रियग्राह्यत्वादेतत्प्रतिसन्धानं न सम्भवति" [ प्रश० व्यो० पृ० ४४ ] इति ; तत्रैव तत्सम्भवस्य प्रतिपादनात् ।
१ दर्शनादिः घटविशेषणम् 'घटदर्शनम्' इत्यादिविशिष्टज्ञानान्यथानुपपत्तेः । २ "संयुक्तं समवेतं वा विशेषणमिति नियमानभ्युपगमाच" - प्रश० व्यो० पृ० ५० । ३- लब्धिरिति आ०, ब०, प०, स० । ४ दर्शनविषयस्य । ५ विद्यमान एव । ६ दर्शन विषयभावात् । ७ सद्भावस्यापि । ८ द्रव्यवत् । ९ प्राप्ययोरपि चैतत्प्र-आ०, ब०, प०, स०| द्रव्यदर्शनविषयभावयोरपि । १० द्रव्यस्य । ११ तद्विषयभावविविक्तत्वेन । १२ नं तदभाव-आ०, ब०, प०, स० । १३ विविक्तत्वेन । १४ द्रव्यस्य । १५ - शेखरूपद्वयस्यापि भा०, ब०, प० । १६ असंस्पार्शम् आ०, ब० । असंस्पार्क्षम् स० । असंस्पर्शम् प० ।