________________
१८२
न्यायविनिश्चयविवरणे
[ १।१०
1
न सिद्ध्यति ।" [ न्यायवि० श्लो० १२] इति । प्रतिपन्नस्यैव' 'ततस्तंन्निवेदनमित्यप्ययुक्तम् ; यतस्तत्प्रतिपत्तिः तत एव तद्रूपत्वस्यापि प्रतिपत्तेः, तस्यै तदनर्थान्तरत्वात्, अन्यथा तदयोगात् अविनाभावनिवेदनानर्थकत्वस्य तदवस्थत्वात्, खण्डशः प्रतिपत्तेश्च निवारितत्वात् । तन्न तस्य द्रव्यविषयमविनाभावित्वं सप्रयोजनं यतस्तत्कथनमिति स्थितम् ।
1
भवतु 'तग्रहणविषयमेव तस्याविनाभावित्वमिति चेत् तत्रापि स एव दोषः - ' किं तस्य' इत्यादिः । अपि च, यदि तस्यें "तदविनाभावित्वेन तदवभासित्वम् कथं द्रव्ये प्रामाण्यम् ? ''अन्यविषयस्यान्यत्रै तद्योगात् अतिप्रसङ्गात् । प्रामाण्यमपि तस्य तद्ग्रहण एवेति चेत्; न; "प्रतिसन्धानमर्थसिद्धौ प्रमाणम्" [ प्रश०व्यो० पृ० ४५ ] ' इत्यस्य विरोधात् । न च 'द्वाभ्याम्' इत्यादिना तस्य तद्रहणाविनाभावमुपक्रम्य 'प्रतिसन्धानम्' इत्यादिना १० द्रव्ये तत्प्रामाण्योपसंहारं कथं पूर्वापरवेदी विदध्यात्, "उपक्रमोपसंहारयोर्विसंवादादिति चेत् ? सत्यम्; अयमपरः परस्य दोषः । नास्ति दोषः, द्रव्ये तत्प्रामाण्यस्य 'तेंद्र हणप्रामाण्यद्वारोपनीतस्यामुख्यस्य 'प्रतिपादनादिति चेत्; न; द्रव्येन्द्रियसन्निकर्षोपनीतजन्मनस्तस्यै ' "तत्र मुख्यस्यैव प्रामाण्यस्योपपत्तेः । न च तत्सन्निकर्षजत्वं तस्यासिद्धम् ; " इन्द्रियमर्थेषु सविकल्पक ज्ञानोत्पत्तौ सङ्केतस्मरणापेतम्" [ प्रश० व्यो० पृ० ४४ ] इत्यादिना स्वयमेव तत्समर्थनात् । १५ भवतु तर्हि मुख्यत एव प्रतिसन्धानस्य द्रव्यविषयत्वम्, तस्यार्थकार्यस्य सतो निर्विषयत्वस्याप्ययोगादिति चेत्; न; द्विचन्द्रादिवेदनस्यार्थ कार्यस्यापि निर्विषयत्वदर्शनात् । "प्रतिभासवदर्थत्वेन न निर्विषयत्वमिति चेत् ; नन्वत्र प्रतिभासवानर्थो नामावयवी, तस्य च नानुपलब्धपूर्वस्य प्रतिभासनम्, अन्यथा दर्शनस्पर्शनविषयतया तद्ब्रहणायोगात् । न चैवम्, 'यमहम्' इत्यादिना तद्विषयतयैव तस्य कथनात् । उपलब्धपूर्वस्यैव भवतु प्रतिभासनमिति चेत्; न; उपलब्धेर्दर्श२० नादिरूपाया अप्रतिभासे तद्विषयतया तस्य प्रतिभासासम्भवात् । भवतु दर्शनादेरपि प्रतिभास इति चेत् ; कस्तत्रेन्द्रियसन्निकर्षः ? संयोग इति चेत्; न; तस्य गुणत्वेन गुणे वृत्त्यभावात्, गुणदर्शनादिरात्मनः । तत एव न तस्य श्रोत्रे शब्दवच्चक्षुरादौ समवायः; अन्यगुणस्यान्यत्र ४ तदयोगात् । नापि संयुक्तसमवायादिः; चक्षुरादिसंयुक्तेऽवयविनि "तस्य समवायाभावादिति कथमतत्सन्निकृष्टस्य तस्यै प्रतिसन्धाने प्रतिभासनं तत्प्रत्यक्षत्वसमर्थनविरोधात् ? अस्त्येव सम्बद्धविशेषणभावः तत्रापि सन्निकर्षः चक्षुरादिसम्बद्धद्रव्यापेक्षया दर्शनादेर्विशेषणत्वात् तद्भा
२५
१ प्रतिसन्धानस्य । २ अविनाभावकथनेन । ३ तत्परिच्छित्तिरूपत्व निवेदनम् । ४ प्रतिसन्धानप्रतिपत्तिः । ५ तत्परिच्छित्तिरूपत्वस्य । ६ - तू न तस्य आ०, ब०, प०, स० । ७-त्वं न प्र -आ०, ब०, प०, स० 1 ८ द्रव्यप्रहणविषयम् । ९ प्रतिसन्धानस्य । १० प्रतिसन्धानस्य । ११ द्रव्यग्रहणाविनाभावित्वेन । १२ द्रव्य ग्रहणावभासित्वम् । १३ द्रव्यग्रहणविषयस्य । १४ द्रव्ये । १५ " प्रतिसन्धानं द्रव्यसिद्धी प्रमाणम्" - प्रश० ब्यो० । १६ - हारविसं-स० । १७ द्रव्यग्रहण । १८ प्रतिसाधनात् आ०, ब०, प०, स० । १९ प्रतिसन्धानस्य । २० द्रव्ये । २१ प्रतिभासमर्थकार्यत्वेन निर्वि-आ०, ब०, प०, स० । २२- नानुपल-आ०, ब०, प०, स० । २३ दर्शनादौ । २४ समवायायोगात् । २५ ' दर्शनादेः । २६ प्रतिसन्धाने प्रत्यक्षत्वसमर्थनस्य विरोधात् । २७ विशेषणभावस्य ।