________________
१1१० ]
प्रथमः प्रत्यक्ष प्रस्तावः
१८१
इति श्रवणात् तेषामपि संशयः - 'कः पुनरसौ ? सम्यग्ज्ञानवचनस्य विषयः ?' इति । तत्र नापरस्तद्विषयः किन्तु यदेवेदं भवतां सुप्रसिद्धमात्मार्थवेदनं तदेवेति तद्वचनविषयसंशयव्युदासार्थमिदमभिहितम्-‘आत्मार्थवेदनं प्रत्यक्षलक्षणम्' इति । एवं परोक्षलक्षणेऽपि वक्तव्यम् । 'येषां तोऽपि क्वचिन्निर्णयस्यानुत्कृष्टत्वादपरिदृढो व्यामोहस्तेषां तव्यापारोपदर्शनादेव व्यामोह - प्रध्वंसे निर्विवादत्वसम्भवात् । तत्प्रयोजनपरमिदमपि वचनमनवद्यमेव देवस्य -
༥
" न पश्यामः क्वचित्किञ्चित्सामान्यं वा स्वलक्षणम् ।
जात्यन्तरं तु पश्यामस्ततोऽनेकान्तसाधनम् ॥” [सिद्धिवि०पृ०१२१] इति । न चैवं नैयायिकानां तद्भेदैकान्ते प्रत्यक्षस्यानिर्णयत्वमनुत्कृष्टनिर्णयत्वं वा युक्तम्; अवयव्यादि - मात्रेऽपि तत्प्रसङ्गात् अनेकान्तविद्वेषित्वेन तत्र निर्णयानिर्णयेयोः निर्णयोत्कर्षानुत्कर्षयोरप्यसम्भवात् । ततः स्थितम् - नै तद्भेदैकान्ते प्रत्यक्षव्यापारो विवादादिति । ततो यदुक्तं व्योम- १० शिवेन – 'प्रत्यक्षेण रूपादिव्यतिरिक्तस्य द्रव्यस्यावधारणात्तद्विपर्ययव्युदासः " [प्र०व्यो ० पृ० ४४] इति; तत्प्रतिव्यूढम् ; एकान्ततस्तद्व्यतिरिक्तस्य तेनानवधारणात्, अन्यथा विवा - दानवतारप्रसङ्गात् । अवधारिते तदयोगादित्युक्तत्वात् ।
यदप्यपरमुक्तं तेनैव - " द्वीन्द्रियग्राह्यं तु द्रव्यम्, कथमेतत् ? प्रतिसन्धानात् । तथा हि- 'यमहमद्राक्षं चक्षुषा तमेतर्हि स्पृशामि यं चास्प्राक्षं तं पश्यामि' इति । न च १५ द्वाभ्यामिन्द्रियाभ्यामेकार्थग्रहणं विना प्रतिसन्धानं न्याय्यम् " [ प्रश० व्यो० पृ० ४४ ] इति ; तत्रापि प्रतिसन्धानस्य किंविषयमविनाभावित्वम् - किं द्रव्यविषयम्, किं वा तद्ग्रहणविषयम् ? द्रव्यविषयमिति चेत्; अत्रापि किं तस्यै तदविनाभावकथने प्रयोजनम् ? निश्चिताविनाभावात्ततः तत्परिज्ञानमेवेति चेत् ; तदपि द्रव्यस्येति कुत: ? ' तंदविनाभावादिति चेत्, तर्हि " ततोऽप्यन्यदेव "तत्परिज्ञानम् । तस्यापि तदविनाभावात्तत्सम्बन्धित्वे" "ततोऽपि " तत्परिज्ञानम- २० परमेवेति न वयमवधारयामः क पुनरिदमनवस्थादोषदूरं द्रव्यपरिज्ञानं लभ्यत इति । तन्नाविनाभावात् तत्तस्येति युक्तम् । स्वयं “ तत्परिच्छित्तिरूपत्वादिति चेत्; न; प्रतिसन्धानस्यापि " तत एव तत्सम्बन्धित्वापत्तेः । इष्टमेवैतत् औलूक्यस्येति चेत्; तर्हि किमर्थं तस्य " तदविनाभावकथनम् ? तत्परिच्छित्तिरूपत्वनिवेदनार्थमिति चेत्; न; अप्रतिपन्नस्य तनिवेदनायोगात्, अविनाभावस्यैव तत्रासिद्धेर्धूमादिवत् । वक्ष्यते चैतत् - " अन्यथानुपपन्नत्वमसिद्धस्य २५
1
१ तेषां तु आ०, ब०, प० । एतेषां तु स० । २ - ययोरुत्कर्षा - आ०, ब०, प०, स० । ३ न भेदैका -आ०, ब०, प०, स० । ४ रूपादिव्यतिरिकस्य द्रव्यस्य । ५ प्रत्यक्षेण । ६ प्रतिसन्धानस्य । ७ द्रव्यविषयाविनाभावकथने । ८ प्रतिसन्धानतः । ९ द्रव्यपरिज्ञानम् । १० द्रव्याविनाभावात् । ११ द्रव्यपरिज्ञानादपि । १२ द्रव्यपरिज्ञानं द्रव्याविनाभावीति परिज्ञानम् । १३ अन्यपरिज्ञानस्यापि । १४ त्वेन ततोऽपि आ०, ब०, प०, स० । १५ अन्य परिज्ञानादपि । १६ अन्यपरिज्ञानं तदविनाभावीति तृतीयपरिज्ञानम् । १७ द्रव्यपरिज्ञानं द्रव्यस्येति । -वात्तस्येति आ०, ब०, प०, स० । १८ द्रव्यपरिच्छित्ति । १९ तत्परिच्छित्तिरूपत्वादेव । २० प्रतिसन्धानस्य । २१ द्रव्याविनाभावित्वकथनम् ।