________________
१८०
न्यायविनिश्चयविवरणे
[१/१०
क्षम् "व्यवसायात्मकं ज्ञानं प्रत्यक्षम् ” [ ] इति तल्लक्षणस्यापि श्रवणादिति चेत्; न; एकान्ततस्तदात्मकत्वाभावात्, व्यवसायात्मनोऽपि तस्य कथञ्चिदव्यवसायस्यापि सम्भवात् । एकान्तव्यवसायध्वभावाभ्युपगमे हि तत्र तेषां स्याद्वादित्वस्याभावापत्तेः कथन्न स्वमतव्यापत्तिः ? न चैवं नैयायिकानां तदेकान्तभेदे प्रत्यक्षमनिर्णयस्वभावमित्युपपन्नम्, अवयवावय५ व्यादावपि तस्यै तत्स्वभावत्वापत्तेः कचिदपि व्यवसायाभावप्रसङ्गात् । न चैतन्न्याय्यम्, " व्यवसायात्मकम्” इति तल्लक्षणस्यासम्भवदोषानुषङ्गात् । ' तदेकान्तभेद एव तदव्यवसायं नावयव्यादौ' इत्यप्यनुपपन्नम् ; व्यवसायेतरस्वभावतया उभयात्मकस्य तत्प्रत्यश्चस्याभ्यनुज्ञाने * तेषामनेकान्त विद्वेषाभावप्रसङ्गात् । तस्मात् व्यवसायैकस्वभावमध्यक्षमाचक्षाणानाम् अवयव्यादिवत् तद्विषयेण तदेकान्तभेदेनापि व्यवसितेनैव भवितव्यमिति कुतस्तत्र विवादप्रवृत्तिः ?
१०
१५
स्यान्मतम् - यथा प्रत्यक्षनिर्णीतेऽप्यवयवादौ सौगतस्य विवादस्तथा यदि तदेकान्तभेदेsपि को दोष इति ? तन्न; विवादस्यानन्त्यापत्तेः । तथा हि
२०
विवादस्य निवृत्तिर्हि निर्णयादेव नान्यतः | निर्णीतेऽपि विवादश्चेत्कुतः स्यात्तन्निवर्त्तनम् ? ॥ ५४६॥ अध्यक्षादनिर्वृत्तश्च सोऽनुमानादितः कथम् ? निवर्त्तेत न तस्यापि निर्णयादपरं बलम् ||५४७॥ तदशक्यव्यवच्छेदो विवादोऽनन्ततां व्रजन् । कथारम्भस्य नैष्फल्यं व्यक्तं वक्ति प्रवादिनाम् ॥५४८॥ विवादस्तन्न निर्णीते युक्तो न्यायविदामयम् । निश्चयश्च विवादश्चेत्यन्योन्यपरिपीडनात् ॥ ५४९॥
यत्तूक्तम् - " यथेत्यादि निदर्शनम् ; तदयुक्तम्; अवयव्यादौ निर्णीते स्थूलादितया सौग - तस्य विवादाभावात् । तत्परमार्थसत्त्वे विवाद इति चेत्; न तर्हि निर्णीते विवादः, तस्य तत्सरखे निर्णयाभावात् स्थूलादावेव तद्भावात् । "यद्येवं न बहिरर्थपरमार्थसत्त्वं प्रत्यक्षविषय इति`कथमिदमुक्तम्-‘अर्थवेदनं प्रत्यक्षलक्षणम्' इति । इति चेत्; न; व्यामोहविकलप्रति पत्र पेक्षया तद्वचनात् तेषां प्रत्यक्षलक्षणत एव तत्सत्वनिश्चयात् । तर्हि तान् प्रति निरर्थकमेव तद्वचनं २५ विवादाभावेन तन्निवर्त्तनस्य तत्फलस्याभावात, प्रत्यक्ष स्वरूप निर्णयस्यै च स्वत एव भावादिति चेत्; सत्यम् ; न तान्प्रति तद्वचनस्य तत्स्वरूपनिर्णयनार्थत्वं * नापि तद्विषयविवादनिवर्तन फलत्वम्, तथापि न वैफल्यं संशयविशेषव्यवच्छेदार्थत्वात् । तथा हि - 'सम्यग्ज्ञानं निःश्रेयसकारणम् M
"
१ प्रत्यक्षस्य । २ अनिर्णयस्वभावत्वापत्तेः । ३ यदेका-आ०, ब०, प०, स० । अवयवावयव्याद्येकान्तभेदे । ४ नैयायिकानाम् । ५-क्षं नि-आ, ब०, प०, स० ६ - वृत्तिश्च आ०, ब०, प०, स० ७ अनुमानादेरपि । ८ व्रजेत् आ०, ब०, प०, स० । ९ व्यक्ति आ०, ब०, प०, स० । १० यदेत्या - आ०, ब०, प० । ११ यदैवं आ०, ब०, प०, स० । १२ न्यायविनिश्चये तृतीयश्लोके । १३ -स्य वस्तुत एत्र आ०, ब०, प०, स० । १४ निर्णयार्थत्वं स० । १५ - सकरणम् स० ।