________________
१११०] प्रथमः प्रत्यक्षप्रस्ताव
१७९ तद्वादिनां शरीरेन्द्रियादिव्यतिरिक्तजीवसम्बद्धपुद्गलपरिपाकपूर्णकं मिथ्याज्ञानत्वात् मदिराद्युपयोगजनितमिध्याज्ञानवत् । तज्ज्ञानत्व च तस्य प्रत्यक्षादिना बाध्यमानत्वात् । तदुक्तम्
"जीवस्य संविदो भ्रान्तेनिमित्त मदिरादिवत् ।
तत्कर्मागन्तुकं तस्य प्रबन्धोऽनादिरिष्यते ॥" [सिद्धिवि० पृ० ३७३] इति ।
भविष्यति चास्य तृतीये विस्तर इति नेदानी क्रियते । भवत्वेवम् ; तथापि कथम- ५ सतो विषयस्य तत्र प्रतिभासनमिति चेत् ? तज्ज्ञानशक्तित एव, सतोऽपि तस्य तत एव तदु. पपत्तेः । निरूपितं चैतत्पूर्वमिति न निरूप्यते ।
___ यदि प्रतिपत्तिविषयस्याप्यभावो हन्तैवं कथमनेकान्तेऽपि विश्वास इति चेत् ? भवत्वेवम् , यदि प्रतिपत्तिमात्रात्तत्सिद्धिरुच्येत, न चैवम् , तद्विशेषादेवं निर्व्याबाधात् तदभ्युपगमात्, तस्य च प्रमाणैः तत्रोपस्थापनात् । यद्येवमनेकान्तविधिपरैः कथं तैरेकान्तप्रतिषेध इति चेत् ? १० न; प्रतिषेधपरत्वस्यापि तेषु भावात् , अन्यथा तैर्विषयेषु स्वरूपादिवत् पररूपादिनापि विध्युपकल्पनायां नाऽवयवावयव्यादिविभागः, सर्वाभेदापत्तेः। नायं दोषो ब्रह्मवादिनामिति चेत् ; आस्तामेतत् , तन्मतस्य यथावसरं निरूपणात् । एतेन प्रतिषेधपरेष्वपि तेषु विधिपरत्वमप्यवबोद्धव्यम् , अन्यथा तैर्विषयेषु पररूपादिवत् स्वरूपादिनापि प्रतिषेधोपकल्पनायामपि न तद्विभागसिद्धिः सकलविषयनि:स्वभावतापत्तेः। नायं दोपः शून्यवादिनामिति चेत् ; इदमप्यास्तां १५ निरूपितत्वान्निरूपयिष्यमाणत्वाच्च । ततो विषयाणां परस्परतो विवेकमविवेकच स्वतो वदता. मवश्यम्भावी प्रमाणेषु विधिप्रतिषेधपरतया द्वैरूप्याभ्युपगमः । तथा च तान्येव आत्मन्यनेकान्तम् एकान्तविरोधिनं प्रतिपद्यमानानि तत्र परप्रतिज्ञातं तदन्यथाभावं प्रतिषेधन्तीति किन्नः प्रयासेन ? बहिर्विषय एवाचेतने "तद्व्यापारोपदर्शनेन अस्माभिस्तत्प्रतिषेध"विधानात् । तद्व्यापारोऽपि पराभिमतबहिर्विषयानुरूप एवेति चेत् ; किं तत्प्रमाणं यस्यैष व्यापारः ? प्रत्यक्षमेवेति २० चेत् ; न; अस्य अवयवावयव्यायेकान्तभेदे "तददर्शनात् । अन्यथा तत्र न विवादः स्यात् , अस्ति , कैश्चित् तत्रात्यन्ताभेदस्य, अपरैः कथनिद्भेदस्य, योगैरेकान्तभेदस्य च प्रतिपादनात् । स्याद्वादिनामपि यदि कथञ्चिद्भेदे तद्व्यापारः कथं विवाद इति चेत् ? न; सत्यपि "तव्यापारे बलवद्व्यामोहस्यानि (हादनि)श्चयसम्भवात् विवादोपपत्तेः, निश्चयस्यैव विवादविरोधित्वात् । न" चैवं नैयायिकानाम् , तत्प्रत्यक्षस्य निश्चयैकरूपत्वाद् “व्यवसायात्मकं प्रत्य- २५ तम्" [ न्यायसू० १।१।४ ] इति तल्लक्षणश्रवणात् । स्याद्वादिनामपि निर्णयात्मकमेव प्रत्य
१-सम्बन्धपु-भा०,०,१०,स०। २ -वज्ज्ञानत्वं तस्य भा०,०प०, स.। ३ मिथ्याज्ञानत्वम् । ४-न्तेनिमितं स०। ५ अत्र ताडपत्रं त्रुटितम् । भवत्येवं प०,स०। ६ ज्ञानशक्तित एव । ७ प्रतिपत्तिविशेषादेव । ८ प्रमाणः। ९ प्रमाणेषु । १० -ज्ञानं तद-आ०, ब०, ५०, स०। ११ प्रमाणव्यापारोपदर्शनेन । १२ अन्यथाभावनिषेध । १३ तद्दर्शनात् आ०,ब०,१०स०।१४ चैकस्तत्र आ०, ब०,५०,स०।१५ बौद्धैः । १६ जैनैः, कुमारिलभट्टानुसारिभिश्च । १७ तद्यापारबलव-आ०, ब०, ५०,०। प्रमाणव्यापारे । १८ न चैवं वक्त युक्तं नैयायिकानाम् ।