________________
१७८
न्यायविनिश्चयविवरण
[१२१० तस्मिन् इति, तस्मानिमित्तादिति यावत् । परप्रसिद्धं निदर्शनमाह-अभिलापवत् अभि समन्ताल्लानं खण्डनमभिला तामाप्नोतीत्यभिलापं स्वलक्षणं तस्येव तदिति । तदयमत्र सङ्ग्रहः
स्थूलाकारावभासोऽयमर्थसन्निधिसम्भवात् ।
अमानसोऽवगन्तव्यः स्वालक्षण्यावभासवत् ॥५४५॥ इति ।
तदेवं स्पर्शादिनानावयवाधिष्ठानस्य तदक्वेिकलक्षणस्यावयविनः पारमार्थिकस्यैव भावादुपपन्नं तस्य प्रत्यक्षविषयत्वम् । ततः सूक्तम्-'बहिरर्थस्य ग्रहणम्' इति ।
न केवलमवयविन एव तस्य तद्विषयत्वमपि तु द्रव्यस्यापि अक्रमवत् क्रमेणापि परापरपर्यायाविष्वग्भावस्वभावस्य द्रव्यसंज्ञितस्य स्तम्भादेरविरोधात् । एतदेवाह
परमार्थंकनानात्वपरिणामाविघातिनः ॥९॥ इति ।
एकं च नाना च एकनाना तयोर्भाव एकनानात्वम् 'एकत्वं च नानात्वं च' इत्यर्थः, भावप्रत्ययस्य प्रत्येकमभिसम्बन्धात् , स एव परिणामो विवर्त्तः । परमार्थश्चासौ अकल्पित. त्वात् एकनानात्वपरिणामश्च स तथोक्तः, तस्य अविघातः प्रमाणैरप्रतिक्षेपः स विद्यतेऽस्मिनिति परमार्थंकनानात्वपरिणामाविघाती बहिरर्थस्तस्य 'प्रतिभासः' इति सम्बन्धः । कुतस्तत्प्रतिभास इति चेत् ? न ; प्रत्यक्षादेव चक्षुरादिजनितात् क्रमानेकस्वभावादिति , निवेदितत्वात् ।
स्यान्मतम्-अवयवेभ्यो भिन्न एवावयवी, पर्यायेभ्यश्च द्रव्यमर्थान्तरमेव बहिरर्थः, अवयवा एव वा, निरवयविनो निद्रव्या एव वा पर्यायाः बहिरर्थः, ततस्तस्यैव प्रत्यक्षात्प्रतिभासो न क्रमाक्रमानेकस्वभावस्येति । तत्राह
प्रतिज्ञातोऽन्यथाभावः प्रमाणैः प्रतिषिध्यते । इति ।
अन्यथा पूर्वोक्तादन्येन प्रकारेण भावः सत्त्वं बहिरर्थस्य प्रतिज्ञातः परैरङ्गीकृतः प्रमाणः प्रत्यक्षादिभिः प्रतिषिध्यते प्रतिक्षिप्यते इति । ततो न तथा बहिरर्थ इति भावः । यदि तस्यान्यथाभावो न प्रतिपन्नः कथं प्रतिषेधः तस्यै निर्विषयत्वायोगात् ? प्रतिपन्नश्चेत् । तत्रापि यदा तत्प्रतिपत्तिर्न तदा तत्प्रतिषेधः प्रतिपत्त्यधिष्ठितस्य तदयोगात् , प्रतिपत्तित एव सत्त्वव्यवस्थितेः, अन्यस्य तद्व्यवस्थित्युपायस्याभावात् । अन्यदा तु तत्प्रतिषेधे न सर्वथा तदन्यथाभावप्रतिषेधः, प्रतिपत्त्यवस्थायां तदभावादिति चेत् ;न ; प्रतिपन्नस्यैव तस्य प्रतिषेधेन सन्निविषयत्वाभावात् । नापि प्रतिपन्नस्यान्यदैव निषेधः ; प्रतिपत्तिसमयेऽपि निषेधात् । तत्समयेऽप्यसतः कथं प्रतिपत्तिरिति चेत् ? स्यादेतदेवम्, यदि विषयाधीनसत्ताकत्वं प्रतिपत्तः, न चैवम . तंत्र विषयाहेतुत्वस्य निवेदनात् । कुतस्तर्हि तत्प्रतिपत्तिरिति चेत् ?, तच्छास्त्रादेव । तत्कृतां तु कुतश्चिदात्मसम्बद्धात् पुद्गलविशेषादिति ब्रूमः । तथा च प्रयोगः-सर्वथैकान्तज्ञानं
.१ परापरपर्यायतादात्म्यरूपस्य । २ प्रतिषेधस्य । ३ यथा त-आ०, ब०,५०,०।४ प्रति षेधाभावा ५ प्रतिपत्तौ । ६ परशास्त्रादेव । ७ शास्त्राकाराणां तु । तत्कुता तत्कुत-आ०, ब०, ५०, स.।