________________
प्रथमः प्रत्यक्षप्रस्तावः
"प्रभास्वरमिदं चित्तं प्रकृत्या" [प्र. वा० १।२१० ] इति वचनात् । मलपरिक्षय एव प्रभास्वरत्वं न सर्वदेति चेत् ; न; मलानां कदाचिदपि वस्तुवृत्तेनाभावात् । "परमार्थतस्तु विज्ञानं सर्वमेवाविकल्पकम्” [प्र. वार्तिकाल० २।२४९ ] इत्यलङ्कारात् । “अभिलापसंसर्ग' [ न्यायबि० ] इत्यादिस्तु श्रुतिवन्निष्ठुरविचारपरीषहाक्षमप्रतिभासमात्रविषय एव । ततः सत्तातत्त्ववादवन्न स्वलक्षणवादेऽपि तादृशं किञ्चिदस्ति ५ यत्तदर्शनविवादनिवर्तनपरमुपपत्तिबलमुपकल्पयेत् । प्रतिभासमात्रादेव तर्हि विचारविषवेधविशरारुशरीरात् तदुपकल्पनम् ; इत्यपि दुर्बलम् ; मतान्तरेऽपि सैंमत्वात् । ततो यदि रूपादेः स्पर्शादिभ्यो विवेक एव, अविवेकस्तु कल्पितः; तर्हि स्वरूपतोऽपि विवेक एव, तदविवेकस्तु कल्पित एवास्तु । ततस्तस्य स्पर्शाद्यविवेकवत् स्वरूपतोऽपि न दर्शनविषयत्वं सत्तातत्त्वस्यैव सर्वत्र सर्वदा सर्वथा च विवेकविकलस्य तदुपपत्तेः। तथा च श्रुतिः-"पश्यन्वा एतत् द्रष्टव्यं १० न पश्यति न हि द्रष्टुदृष्टेर्विपरिलोपो विद्यते ।" [ बृहदा० ४।३।२३ ] ।
स्यान्मतम्-वाङ्मात्रमेवेदं 'पश्यन्वा' इत्यादि ; न हि निरस्तसकलभेदकल्लोलतत्प्रतिभासप्रपन्चं सत्तातत्त्वमनुभवपथोपस्थापितमुत्पश्यामः । ततो यदि रूपादिरपि न स्यात् निर्विवादः शून्यवादावतारः स्यात् , न चायं न्याय्यः प्रमाणाभावात् । ततो न रूपादेः स्वरूपतो विवेकः परस्परत एव तद्भावात् , तथैवानुभवव्यापारस्य निरवद्यस्योपलम्भादिति ; तदपि न १५ समीचीनम् ; निरस्तस्पर्शाद्यविवेकतत्प्रतिभासस्य रूपादेरपि तत्पथोपस्थापितस्यासम्प्रतिपत्तेः शून्यवादावतारस्य तदवस्थत्वात् । ततो न रूपादेर्दधिगतस्य तत्स्पर्शादेविवेकः करभादेव तद्भा. वात् अनुभवव्यापारस्य तथैव संवेदनात् । धर्मकीर्तिनाऽपि तव्यापारानभिज्ञानादेवेदमभिहितम् -
"सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः । चोदितो दधि खादेति किमुष्ट्र नाभिधावति १ ॥ अथास्त्यतिशयः कश्चिद्येन भेदेन वर्त्तते ।
स एव दधि सोऽन्यत्र नास्तीत्यनुभयं वरम् ॥"[प्र०वा०३।१८१-८२]इति ।
ततः 'सिद्धं तदविवेकलक्षणावयविसन्निधानसापेक्षत्वेन दध्यादिस्थूलप्रतिभासस्य सन्निहितार्थत्वं ततश्चामानसत्वम् । "तदाह-'अर्थ' इत्यादि । प्रतिभासः प्रस्तावात् स्थूलाकारगोचरः स धर्मी, साध्यमाह-अयुक्तः असङ्गतः। कुतः सकाशात् ? असतः, अस्यति २५ प्रेरयति स्वविषयेष्विन्द्रियाणीत्यसं मनः तस्मात्तत इति इन्द्रियादेव युक्त इत्यर्थः । निमित्तमाह-अर्थज्ञाने अर्थस्यानन्तरोक्तस्य ज्ञानम् उक्तन्यायेन तत्प्रतिभासं प्रति सन्निहितत्वेनावगमः"
परीक्षय एव मा०,०प०,सन२ परार्थतस्तु आ०,ब०,१०,स०३-षवेदवि-आ०,१०,१०,स। ४ सम्मतत्वात् मा०,०,१०, स०।५ दर्शनविषयत्वोपपत्तेः । ६ द्रष्टव्यमिति पदम् 'एतत्' इत्यस्य टिप्पणभूतं सम्पातादायातमिति भाति । "पश्यन्वतन पश्यति"...-पृहदा० । ७ विवेकभावात् । ८ तत्तद्यापारा-आ०,५०, १०.स.। ५ सिद्धान्तादवि-मा०,०प०स०।१० तथाह भा०,ब०,१०,स.।"-गतेऽस्मिन् तस्मामा.,.,प.स.।