________________
न्यायविनिश्चयविवरणे लोपकल्पनवैफल्यप्रसङ्गात् । तद्बलविवादस्यापि अन्यस्मादुपपत्तिबलान्निवर्त्तनमिति चेत् ; न; तत्रापि 'प्राच्यप्रसङ्गानतिवृत्तेरनवस्थानोपस्थानात् । अर्थान्तरत्वे तु द्वैतदोषोपनिपातात् न सन्मा. ऋग्राह्यस्य दर्शनविषयत्वमिति चेत् ; न ; नीलादिस्वलक्षणविषयदर्शनाधिष्ठानविवादव्यावर्त्तनपर
स्यापि उपपत्तिबलस्य तत्स्वलक्षणादनन्तरत्वे तद्वद्विवादविषयत्वेन तदर्शनविवादव्यावर्तकत्वा. ५ भावस्य तद्विवादस्याप्यंन्योपपत्तिबलाव्यावर्त्तने अनवस्थादोषस्य चाविशेषात्। अर्थान्तरत्वेऽपि
यदि तस्यासाधारणरूपत्वं तदवस्थ एव तस्य तद्दर्शनविवादनिवर्तकत्वाभावः तस्यापि तत्स्वलक्षणवद्विवादभूमित्वात् । तद्विवादस्याप्यन्यस्मादसाधारणादेवोपपत्तिबलान्निवृत्तिरिति चेत् ; न; द्विती. यस्य अनवस्थानदौःस्थ्यस्य प्रसङ्गात् । भवतु साधारणमेव तस्य रूपमिति चेत् ; न ; वस्तुसतो
भवन्मतेनाऽभावात् । अवस्तुसदेव तत् कल्पितत्वादिति चेत ; न; तारशादेव तद्वलात सन्मात्र. १० दर्शनविवादस्यापि निवृत्तिप्रसङ्गात् । न तत्र तादृशमपि तत्सम्भवति अद्वैतवादपरिपीडनादिति
चेत्, न; तस्य कल्पितत्वेन नीरूपस्य अद्वैतवादप्रत्यनीकत्वायोगात् । 'नीरूपात् कथं तद्विवादनिवर्त्तनमिति चेत् ? कथं तत एव स्वलक्षणदर्शनविवादनिवर्त्तनमिति समानः पर्यनुयोगः ? सन्मात्रे वस्तुसति कल्पनमपि कुतस्तद्बलस्य ? तत एव सन्मात्रादिति चेत. ; न ; तस्य स्वयं
ज्योतीरूपस्य नित्यशुद्धत्वेनाभ्यनुज्ञानात् । न च कल्पनायां न "तच्छुद्धिः, "तस्या मिध्याप्रति. १५ भासत्वेनाशुद्धित्वादिति चेत् ; ननु "असाधारणलक्षणवस्तुवादिनोऽपि कुतस्तद्बलस्य कल्पनम् ?
ज्ञानस्वलक्षणादेव कुतश्चिदिति चेत् ; न; तस्य स्वसंवेदनात्मनः शुद्धस्यैवाभ्युपगमात् , तत्र च कल्पनारूपस्याशुद्धिदोषस्यानुपपत्तेः। नैकान्ततः शुद्धमेवे संवेदनम् स्वरूपापेक्षया शुद्धस्यापि प्राह्याकारापेक्षया तद्विपर्ययभावात्, अन्यथा "अभिलापसंसर्ग' [न्यायबि० पृ० १३ ]
इत्यादेनिर्विषयत्वप्रसङ्गादिति चेत् ; न; सत्तातत्त्वेऽपि तुल्यत्वात् , तस्यापि पादत्रयेणैव परि. २० शुद्धिभावात् "त्रिपादस्यामृतं दिवि" [यजु० पुरुष० ३१।३। छान्दो० ३।१२।६] इत्याम्ना
यात् । पादतः पुनरपरिशुद्धिरेव, तस्य विश्वभूतत्वाभिधानात् । तद्भूतानाश्च भेदप्रतिभासरूपत्वेनाऽशुद्धिरूपत्वे तदात्मनि तत्पादेऽप्यशुद्धिं प्रति विवादाभावात् । अन्यथा “पादोऽस्य विश्वा भूतानि" [ यजु० पुरुष० ३१।३। छान्दो० ३।१२।६ ] इति श्रुतेर्निर्विषयत्वापत्तेः ।
अस्त्येव वस्तुतो निर्विषयत्वं श्रुतेः पादतोऽपि तस्य परिशुद्धत्वात , अन्यथा मोक्षाभावानुषङ्गात्। २५ अशुद्धिपरिक्षये मोक्ष इति चेत् ; न ; अशुद्धस्तत्पादस्वभावत्वेन तत्परिक्षये तत्पाद.
स्यापि परिक्षयोपनिपातात् । न चैतत्पथ्यं परेषाम् , आत्मपरिक्षयस्य तैरनभ्युपगमात् । केवलमविचारबन्धुरप्रतिभासमात्रसावलम्बनैवेयं “पादोऽस्य" इत्यादिका श्रुतिरिति चेत् ; न ; अभिलापसंसर्ग"[न्यायधि० ] इत्यादेरपि निर्विषयत्वात् परिशुद्धरूपस्यैव संवेदनस्य भावात् ।
. प्राप्यप्रस-आ०, 4०, ५०, स.। २ तु वैतद्दोषो-आ०,ब०,स०। सु नैतद्दोषो-प० । ३-त्वे तदविवा-आ०, ब०, ५०, स०। ४-स्याप्यनुपप-आ०, ब०, ५०, स०। ५ तस्यादर्श-आ०, ब०, ५०, स०। ६ उपपत्तिबलस्य । ७ साधारणादेव । ८ उपपत्तिबलम् । ९ तुच्छस्वभावादुपपत्तिबलात् । १. उपपत्तिबलस्य । तच्छुद्धः आ०, ब०, ५०, स०।१२ कल्पनायाः। १३ असाधारणक्षणवस्तु-आ०,40, प०, स. १४ उपपत्तिबलस्य । १५-व खसं-ब०।१६-या विप-आ०, ब०, १०, स.।